उद्भवं तीर्थराजस्य श्रोतुमिच्छामि तत्त्वतः। श्रीभगवानुवाच- मुनिर्देवैः समाराध्यः पद्मयोनिसमप्रभः
शंतनुश्चेति विख्यातः पत्नी तस्य पतिव्रता। अमोघेति समाख्याता रूपयौवनशालिनी
अस्याश्च पतिमन्वेष्टुं यातो ब्रह्मा च तद्गृहम्। तस्मिन्काले मुनिश्रेष्ठः पुष्पाद्यर्थं वनं गतः
सा तं दृष्ट्वा सुरश्रेष्ठमर्घ्यपाद्यादिकं ददौ। दूरेभिवादनं कृत्वा सा गृहं प्रविवेश ह
तां च दृष्ट्वा नवद्यांगीं धाता कामवशं गतः। स्रष्टात्मानं समाधायाचिंतयत्तां पुरोगताम्
बीजं पपात खट्वायां ब्रह्मणः परमात्मनः। ततो ब्रह्मा गतस्त्रस्तस्त्वरया परिपीडितः
अथायातो मुनिर्गेहं शुक्रं पीठे ददर्श ह। तमपृच्छद्वरारोहां कश्चाप्यत्रागतः पुमान्
तमुवाच ततोऽमोघा ब्रह्मा ह्यत्रागतः पते। त्वामेवान्वेषितुं नाथ मया दत्तोत्र पीठकः
शुक्रस्य कारणं चात्र तपसा ज्ञातुमर्हसि। ततो ध्यानात्परिज्ञातं तेनैव च द्विजन्मना
ब्रह्मरेतः परं साध्वी पालयस्व ममाज्ञया। उत्पद्यते सुतस्ते तु सर्वलोकैकपावनः
आवयोः सर्वकल्याणं फलिष्यति मनोगतम्। ततः पतिव्रता तस्य आज्ञामागृह्य संभवात्
पपौ रेतो महाभागा ब्रह्मणः परमात्मनः। आवर्त इव संजज्ञे रौद्रगर्भ इति स्फुरन्
प्रसोढुं नैव शक्ता सा शंतनुं चाब्रवीत्ततः। गर्भं धारयितुं नाथ न शक्नोम्यधुना प्रभो
किं करिष्यामि धर्मज्ञ प्राणो मे संचलत्यपि। आज्ञापय महाभाग गर्भं त्यक्ष्यामि यत्र च
पत्युराज्ञां समादाय मुक्तो गर्भो युगंधरे। पयस्तेजोमयं शुद्धं सर्वधर्मप्रतिष्ठितम्
तन्मध्ये पुरुषः शुद्धः किरीटी नीलवाससा। रत्नदाम्ना च विद्धांगो दुःप्रेक्ष्यो ज्योतिषां गणः
ततो देवगणाः स्वर्गात्पुष्पवर्षमवाकिरन्। प्रसूतः सर्वतीर्थेषु तीर्थराज इति स्मृतः
ततो राम इति ख्यातः प्रजातोहं भृगोः कुले। क्षत्रियान्पितृहंतॄंस्तु ससैन्यबलवाहनान्
हत्वा युद्धगतान्भीतान्पंकैः सर्वैर्युतो ह्यहम्। ब्रह्महत्यासमं घोरं मद्गेहे समुपस्थितम्
पंकयुक्तं कुठारं मे क्षालितं नैव शुद्ध्यति। ततः खे चाभवद्वाणी राम मद्वचनं कुरु
यत्र तीर्थे कुठारं ते निर्मलं च भवेदिह। तत्र ते सर्वपापानां जातानां च क्षयो भवेत्
जनानां तत्र सर्वेषां हितार्थं तिष्ठ मानद। चपलं गच्छ तीर्थानि सर्वाणि सुमहांति च
तेषां मध्ये महातीर्थे पर्शुः शुद्धो भवेद्यदि। तं च जानीहि तीर्थेषु मुक्तिदं परिकीर्तितम्
तच्छ्रुत्वा जामदग्न्यस्तु तीर्थानि प्रययौ तदा। गंगां सरस्वतीं शुभ्रां कावेरीं सरयूं तथा
गोदावरीं च यमुनां कद्रूं च वसुदां तथा। अन्यां च पुण्यदां रम्यां गौरीं पूर्वां स्थितां शुभाम्
गच्छतस्तस्य धीरस्य सदागतिसमस्य च। क्षालितः सर्वतीर्थेषु न पुनर्निर्मलोऽभवत्
ततो गिरिगुहां दुर्गां महारण्यं च पर्वतम्। गिरिकूटं च दुर्लभ्यं ययौ तीर्थमसौ हरिः
न च निर्मलतामेति कुठारस्तस्य तेन च। विषादमगमत्तत्र रामः परपुरंजयः
हाहेति विविधं कृत्वा चोपविश्य धरातले। प्रचिंतामगमद्वीरस्तमुवाच पुनस्तथा
पूर्वस्यां दिशि देवेश तीर्थं चास्ति गुहोदरे। तच्छ्रुत्वा नरशार्दूलो गत्वा कुंडं ददर्श सः