वसिष्ठवचनं श्रुत्वा रामो वक्ष्यति धर्मवित्। अस्या दोषो न चैवास्ति दोषोयं पाकशासने
एवमुक्ते तु रामेण त्यक्त्वा रूपं जुगुप्सितं। दिव्यं रूपं समास्थाय मद्गृहं चागमिष्यसि
शप्त्वा तु गौतमस्तां हि तपस्तप्तुं गतो वनम्। ततोत्यंतं शुष्करूपा तथैव पथि संस्थिता
रामस्य वचनादेव गौतमं पुनरागता। गौतमोपि तया सार्द्धमद्यैवं दिवि तिष्ठति
इंद्रोपि त्रपयायुक्तः स्थितश्चांतर्जले चिरम्। स्थित्वा चांतर्जले देवीमस्तौदिंद्राक्षिसंज्ञिताम्
सुप्रसन्ना ततो देवी स्तोत्रेण परितोषिता। गत्वोवाच ततः सा च वरोस्मत्तो विगृह्यताम्
ततो देवीमुवाचेदं शक्रः परपुरंजयः। त्वत्प्रसादाच्च मे देवि वैरूप्यं मुनिशापजम्
किंतु बुद्धिं सृजाम्यद्य येन लोकैर्न लक्ष्यते
योनिमध्यगतं दृष्टि सहस्रं ते भविष्यति। सहस्राक्ष इति ख्यातस्सुरराज्यं करिष्यसि
मेषांडं तव शिश्नं च भविष्यति च मद्वरात्। इत्युक्त्वा सा जगन्माता तत्रैवांतरधीयत५० 1.54.
शक्रो देववरैः पूज्यो ह्यद्यापि दिवि वर्तते। इंद्रस्यैतादृशी कामादवस्था द्विजसत्तम
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे अहल्याहरणंनाम चतुष्पंचाशत्तमोऽध्यायः
श्रीभगवानुवाच- अपरं च प्रवक्ष्यामि कामेनाधिष्ठितस्य च। पुरा भागीरथी तीरे द्विजः परमहंसकः
उपदेष्टा सहस्राणां द्विजानां शांतिदः परः। एकदंडधरः साक्षात्कूर्मवद्धरणी स्थितः
एकाकिनः सतस्तस्य देवागारे विनिष्कृते। पत्युर्गृहात्परं गेहं गंतुं सायं समुद्यता
अकस्माद्युवती नारी मिलिता रूपधारिणी। दृष्ट्वा तां भगवान्विप्रो मन्मथस्य भयार्दितः
अगारजठरे कृत्वा स चैनां प्राक्षिपत्क्षपाम्। अर्गलं सा दृढं कृत्वा देवागारे सुशोभने
कदाचिदपि तं द्वारादागंतुं न ददाति ह। एवंभूतः समाधिस्थः क्षपां क्षिप्त्वा विलप्य सः
चिंतयंस्तां वरारोहां द्वारि किं वा कृतं मम। एवं संचिंत्यतामाह द्वारं देहीह नः प्रिये
पतिश्च वशगः कांते दयितस्ते भविष्यति। ततस्तं प्राह सा विप्रं वृद्धं कामप्रलालसम्
अनन्विता गिरःस्तात वक्तुं त्वं नार्हसि प्रभो। अथासौ भगवान्प्राह प्रचुरं चास्ति मे वसु
तव दास्यामि कल्याणि प्रस्फोटय कपाटिकाम्। विप्रमाह पुनः सा च त्वं वै मे धर्मतः पिता
मा गच्छ पुत्रिकां मां च परयोषां च धार्मिक। मनसा स समालोच्य सुषिरेण पथा गृहान्
बाहुनोद्धाट्यते नैव गंतुं चैव समुद्यतः। गच्छतश्चार्द्धमरर उत्तमांगं सुसंकटे
प्रविष्टं न पुनश्चैति पंचत्वमगमत्तदा। उषःकाले समायाता रक्षिणो ये च किंकराः
अद्भुतं तं शवं दृष्ट्वा तामुचुस्ते च विस्मिताः। कथं च निधनं त्वस्य संभूतं ब्रूहि सुंदरि
कथयित्वा तु तद्वृत्तमभीष्टं देशमागता। एवं कामस्य महिमा दुर्निवारो जनेषु च
सर्वेषामपि जंतूनां सुरासुरनृणां भवेत्। दृष्ट्वाऽमोघां वरारोहां सर्वलोकपितामहः
च्युतबीजोभवत्तत्र लौहित्यसंभवस्मृतः। पुनाति सकलान्लोकान्सर्वतीर्थमयो हि सः
यमाश्रित्य नरो याति ब्रह्मलोकमनामयम्। द्विज उवाच- कथं च ब्रह्मणो मोहो ह्यमोघा का वरांगना