द्विजाय रत्नभूतैषा दत्ता किंवा करोम्यहम्। इति संचिंत्य तस्यास्तु वर्तमाने च यौवने
पुनश्च मायया दृष्टं रूपं तस्यास्सुशोभनम्। पुनश्चिन्तयमानोऽसौ गौतमाध्यासनं गतः
पश्चात्तु तस्य गमनाद्यद्वृत्तं तच्छृणुष्व मे। एकदा गौतमः स्नातुं गतोऽसौ पुष्करं प्रति
साध्वी च गृहशौचे च गृहवस्तुनि तत्परा। प्रवृत्ता देववास्तूनां बलिकर्तुं च तत्परा
इंधनं वह्निकार्यं च नित्यकर्मानुसंचयम्। एतस्मिन्नंतरे शक्रो मुनेस्तस्य महात्मनः
रूपमास्थाय गात्रेण प्रविवेशोटजं मुदा। पतिव्रता पतिं दृष्ट्वा श्रद्धया परया सती
देवस्थाने च वस्तूनां संचयं कर्तुमुद्यता। ततस्तामब्रवीदार्तो मुनिवेषधरो हरिः
प्रद्युम्नवशगो वामे देहि मे चुंबनादिकम्। एतस्मिन्नंतरे सा च त्रपायुक्ताऽब्रवीद्वचः
देवकार्यादिकं त्यक्त्वा वक्तुं नार्हसि मे प्रभो। सर्वं जानासि धर्मज्ञ पुण्यानां निश्चयं मुने
अयमर्थो हि वेलायामधुनैव न युज्यते। ततस्तां चारुसर्वांगीं दृष्ट्वा मन्मथपीडितः
अलं प्रियेन वक्तव्यं हृच्छयो मे प्रजायते। कर्तव्यं चाप्यकर्तव्यं पत्युर्वचनसंमतम्
करोति सततं या च सा च नारी पतिव्रता। लंघयेद्या च तस्याज्ञां सुरते च विशेषतः
पुण्यं तस्या भवेन्नष्टं दुर्गतिं चाधिगच्छति। साब्रवीद्देववस्तूनि संति देवार्थतो मुने
नित्यकर्माणि चान्यानि किं वा तेषु विपर्ययः। स चोवाच सतीं तत्र देह्यालिगादिकं मम
मनसा भयमुत्सृज्य मया दत्तानि तानि च। इत्युक्त्वा तां परिष्वज्य कृतस्तेन मनोरथः
एतस्मिन्नंतरे विप्र मुनेर्हृद्या सकल्मषम्। ततो ध्यानं समारभ्याजानाद्वृत्तं शचीपतेः
तूर्णमेव द्वारदेशे गत्वा च समुपस्थितः। शक्रो मुनिं तु संलक्ष्य चौतुदेहं विवेश ह
गच्छतः पृषदंशस्य पद्धतौ प्रचचाल ह। मुनिस्तत्रावदत्तं वै कस्त्वं मार्जाररूपधृत्
भयात्तस्य मुनेरग्रे शक्रः प्रांजलिराश्रितः। मघवंतं पुरो दृष्ट्वा चुकोप मुनिपुंगवः
यत्त्वया चेदृशं कर्म भगार्थं छलसाहसम्। कृतं तस्मात्तवांगेषु सहस्रभगमुत्तमम्
भवत्विह तु पापिष्ठ लिंगं ते निपतिष्यति। गच्छ मे पुरतो मूढ सुरस्थानं दिवौकसः
पश्यंति मुनिशार्दूला नराः सिद्धास्सहोरगाः। एवमुक्त्वा मुनिश्रेष्ठो रुदंतीं तां पतिव्रताम्
पप्रच्छ किमिदानीं ते कर्म दारुणमागतम्। इत्युक्ता वेपमाना सा भीता पतिमुवाच ह
अज्ञानाद्यत्कृतं कर्म क्षंतुमर्हसि वै प्रभो। मुनिरुवाच- परेणाभिगतासि त्वममेध्या पापचारिणी
अस्थिचर्मसमाविष्टा निर्मांसा नखवर्जिता। चिरं स्थास्यसि चैकापि त्वां पश्यंतु जनाः स्त्रियः
दुःखिता तमुवाचेदं शापस्यांतो विधीयताम्। इत्युक्ते करुणाविष्टो मन्युनापि परिप्लुतः
जगाद गौतमो वाक्यं रामो दाशरथिर्यदा। वनमभ्यागतो विष्णुः सीतालक्ष्मणसंयुतः
दृष्ट्वा त्वां दुःखितां शुष्कां निर्देहां पथिसंस्थितां। गदिष्यति च वै रामो वसिष्ठस्याग्रतो हसन्
किमियं शुष्करूपा च प्रतिमास्थिमयी शवा। न दृष्टं मे पुरा ब्रह्मन्रूपं लोकविपर्ययम्
ततो रामं महाभागं विष्णुं मानुषविग्रहम्। यद्वृत्तमासीत्पूर्वं तद्वसिष्ठः कथयिष्यति