सत्यलोकं समासाद्य भुंक्ष्व भोग्यं महेंद्रवत्। संख्या तेनापि वर्तेत भोग्यकालस्य धार्मिक
इत्युक्तेषु च देवेषु शूद्रो वचनमब्रवीत्। कथं निर्ग्रंथकस्यास्य ज्ञानं चेष्टास्य भाषणम्
किं वा हरिहरौ ब्रह्मा किं वा शक्रो बृहस्पतिः। किं वा मच्छलनादेव साक्षाद्धर्म इहागतः
इत्युक्ते क्षपणश्चासौ स्मितो वचनमब्रवीत्। विज्ञातुं चैव वो धर्ममहं विष्णुरिहागतः
विमानेन दिवं गच्छ सकुटुंबो महामुने। मत्प्रसादाच्च युष्माकं सदैव नवयौवनम्
भविष्यति महाप्राज्ञ भाग्यानंत्यं प्रलप्स्यथ। दिव्याभरणसंयुक्ता दिव्यवस्त्रोपशोभिताः
गतास्ते सहसा नाकं सर्वैर्बंधुजनैर्वृताः। एवं द्विजवरश्रेष्ठ लोभत्यागाद्ययुर्दिवम्
तुलाधारस्तथाधीमान्सत्यधर्म प्रतिष्ठितः। ये न जानाति तद्वृत्तं देशांतरसमुद्भवम्
तुलाधारसमो नास्ति सुरलोके प्रतिष्ठितः। तस्मात्त्वमपि भूदेव समं गत्वा दिवं व्रज
य इदं शृणुयान्मर्त्यः सर्वधर्मप्रतिष्ठितः। जन्मजन्मार्जितं पापं तत्क्षणात्तस्य नश्यति
सकृत्पठनमात्रेण सर्वयज्ञफलं लभेत्। लोकानां पुरतो विप्र देवानामर्च्यतां व्रजेत्
श्रीभगवानुवाच। अद्रोहकस्य चाख्यातो महिमा लोकदुःसहः। एकतल्पगतां वामां क्षांत्वा सर्वजितोऽभवत्
ज्ञानिनामपिदुःसाध्यं मुनीनां ब्रह्मचारिणां। सुरासुरमनुष्याणां विषमं तत्समं गतः
स्वभावाद्विषमं कामं जेतुं कः पुरुषः क्षमः। अद्रोहकमृते विप्र स एव भवजित्पुमान्
अहल्याहरणादेव सुरेशस्य भगांकता। पुनर्देव्याः प्रसादाच्च सहस्राक्षेति विश्रुतः
विदितं सर्वलोके च त्रैलोक्ये सचराचरे। द्विज उवाच- कथं च देवदेवस्य अहल्याहरणं प्रभो
भगांकत्वं च संप्राप सहस्राक्षः सुराधिपः। न गां कोपि भगांकत्वं संप्राप्तस्सुरराट्कथम्
दुःश्रुतं सुरवैकल्यं श्रोतुमिच्छामि तत्वतः। श्रीभगवानुवाच- पुरा स्वांतोद्भवां कन्यां लोकेशश्च महामनाः
गौतमाय ददौ धाता लोकपालाग्रतो मुदा। ततस्तु लोकपालानां मन्मथाविष्टचेतसाम्
शचीपतेस्तु संमोहो हृदि शल्य इव स्थितः। लोकपालानतिक्रम्य सुवेषा वरवर्णिनी
द्विजाय रत्नभूतैषा दत्ता किंवा करोम्यहम्। इति संचिंत्य तस्यास्तु वर्तमाने च यौवने
पुनश्च मायया दृष्टं रूपं तस्यास्सुशोभनम्। पुनश्चिन्तयमानोऽसौ गौतमाध्यासनं गतः
पश्चात्तु तस्य गमनाद्यद्वृत्तं तच्छृणुष्व मे। एकदा गौतमः स्नातुं गतोऽसौ पुष्करं प्रति
साध्वी च गृहशौचे च गृहवस्तुनि तत्परा। प्रवृत्ता देववास्तूनां बलिकर्तुं च तत्परा
इंधनं वह्निकार्यं च नित्यकर्मानुसंचयम्। एतस्मिन्नंतरे शक्रो मुनेस्तस्य महात्मनः
रूपमास्थाय गात्रेण प्रविवेशोटजं मुदा। पतिव्रता पतिं दृष्ट्वा श्रद्धया परया सती
देवस्थाने च वस्तूनां संचयं कर्तुमुद्यता। ततस्तामब्रवीदार्तो मुनिवेषधरो हरिः
प्रद्युम्नवशगो वामे देहि मे चुंबनादिकम्। एतस्मिन्नंतरे सा च त्रपायुक्ताऽब्रवीद्वचः
देवकार्यादिकं त्यक्त्वा वक्तुं नार्हसि मे प्रभो। सर्वं जानासि धर्मज्ञ पुण्यानां निश्चयं मुने
अयमर्थो हि वेलायामधुनैव न युज्यते। ततस्तां चारुसर्वांगीं दृष्ट्वा मन्मथपीडितः