कुसुमोशीरकर्पूरैर्विलिप्य वरचंदनैः । नैवेद्यापूपदीपाद्यैरर्चयेच्च जनार्दनम्
मनसा कर्मणा वाचा पूजयेद्गरुडध्वजम् । कुर्वन्नरः स्त्री विधवा बृहद्भक्तिर्जितेंद्रियः
नाम्नामेव तथालापं विष्णोः कुर्यादहर्निशम् । भक्त्या विष्णोः स्तुतिर्वाच्या मिथ्यालापविवर्जिता
सर्वसत्वदयायुक्तः शांतवृत्तिरहिंसकः । सुप्तो बाह्यासनस्थो वा वासुदेवं प्रकीर्तयेत्
स्मृत्यालोकनगंधादि स्वादनं परिकीर्त्तनम् । अन्नस्य वर्जयेद्वासं ग्रासानां संप्रमोक्षणम्
गात्राभ्यंगं शिरोभ्यंगं तांबूलं सविलेपनम् । व्रतस्थो वर्जयेत्सर्वं यच्चान्यच्च निराकृतम्
न व्रतस्थः स्पृशेत्किंचिद्विकर्मस्थं न चालयेत् । देवतायतने तिष्ठन्न गृहस्थश्चरेत्ध्रुवम्
कृत्वा मासोपवासं तु यथोक्तविधिना नरः । नारी वा विधवा साध्वी वासुदेवं समर्चयेत्
अन्यूनाधिकमेवं तु व्रतं त्रिंशद्दिनैरिदम् । कृत्वा मासोपवासं तु संयतात्मा जितेंद्रियः
ततोऽर्चयेदेव पुण्यं द्वादश्यां गरुडध्वजम् । पूजयेत्पुष्पमालाभिर्गंधधूपविलेपनैः
वस्त्रालंकारवाद्यैश्च तोषयेदच्युतं नरः । संस्नापयेद्धरिं भक्त्या तीर्थचंदनवारिभिः
चंदनेनानुलिप्तांगं धूपपुष्पैरलंकृतम् । वस्त्रदानादिभिश्चैव भोजयित्वा द्विजोत्तमान्
दद्याच्च दक्षिणां तेभ्यः प्रणिपत्य क्षमापयेत् । एवं मासोपवासाद्धि कृत्वाभ्यर्च्य जनार्दनम्
भोजयित्वा द्विजांश्चैव विष्णुलोके महीयते । एवं मासोपवासांते कृत्वा विप्रान्त्रयोदश
निर्यापयेत्ततस्तान्वै विधिना येन तच्छृणु । कारयेद्वैष्णवं यज्ञमेकादश्यामुपोषितः
पूजयित्वा तु देवेशमाचार्यानुज्ञया हरिम् । अर्चयित्वा यथाशक्त्या ह्यभिवाद्य गुरुं तथा
ततोनुभोजयेद्विप्रान्नमस्कारपुरःसरम् । विशुद्धकुलचारित्र विष्णुपूजनतत्परान्
पूजयित्वा तथा सर्वान्भोजयित्वा त्रयोदश । तांबूलवस्त्रयुग्मानि भोजनाच्छादनानि च
योगपट्टानि सूत्राणि ब्रह्मसूत्राणि चैव हि । दद्याच्चैव द्विजाग्र्येभ्यः पूजयित्वा प्रणम्य च
ततोनुपूजयेच्छक्त्या शय्यां स्तरणसंस्कृताम् । साच्छादनां शुभां श्रेष्ठां सोपधानामलंकृताम्
कारयित्वात्मनोमूर्तिं कांचनीं तु स्वशक्तितः । न्यसेत्तस्यां तु शय्यायामर्चयित्वा स्रगादिभिः
आसनं पादुकां छत्रं वस्त्रयुग्ममुपानहौ । पवित्राणि च पुष्पाणि शयाय्यामुपकल्पयेत् 6.119.
एवं शय्यां तु संकल्प्य प्रणिपत्य च तान्द्विजान् । प्रार्थयेच्चानुमोदार्थं विष्णुलोकं व्रजाम्यहम्
ततो व्रजेन्नरश्रेष्ठो विष्णोः स्थानमनामयम् । मंडपस्थां स्तुतान्विप्रानिति वाच्यं मुहुर्मुहुः
मंत्रहीनं क्रियाहीनं सर्वहीनं द्विजोत्तमाः । सर्वंसंपूर्णतां यातु भवद्वाक्यप्रसादतः । विधिर्मासोपवासस्य यथावत्परिकीर्तितः
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहिताया। मुत्तरखंडे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे मासो। पवासकथनंनामैकोनविंशत्यधिकशततमोऽध्यायः
सूत उवाच। इति वाक्यं समाकर्ण्य पुनः पप्रच्छ पावकिः । शालग्रामार्चनं भूयस्तच्छृणुध्वं तपोधनाः
कार्तिकेय उवाच। भगवन्योगिनां श्रेष्ठ सर्वेधर्माः श्रुता मया । शालग्रामार्चनं ब्रूहि विस्तरेण मम प्रभो
ईश्वर उवाच। साधुसाधु महाप्राज्ञ यन्मां हि परिपृच्छसि । तदहं संप्रवक्ष्यामि श्रूयतां मम वत्सल
शालग्रामशिलायां तु त्रैलोक्यं सचराचरम् । महाशय महासेन नित्यं तिष्ठति संहितम्