तैश्च शृंखलयोगैश्च बद्धो नैवोद्धृतिं व्रजेत्। एतद्विमृश्य शूद्रोऽसौ परित्यज्य गृहं गतः
स्वस्था देवा मुदा तत्र साधुसाध्विति चाब्रुवन्। निर्ग्रंथिरूपमादाय तस्यांतिक गृहं तथा
गत्वाहं दैवसंवादमवदं भूतवर्तनम्। ततोभ्यासप्रसंगाच्च जनानां च परिप्लवात्
तस्य योषा तदागत्य पप्रच्छ दैवकारणम्। ततोहमवदं तस्य यद्वा चेतोगतं द्रुतम्
निभृतोथ निनादस्य कारणं कथितं मया। हृद्गतं पतिना तेद्य विधिना दत्तमज्ञवत्
परित्यक्तं महाभागे पुनर्नास्तीह ते वसु। यावज्जीवति दौर्विध्यं तस्य भोक्ता न संशयः
गच्छ मातर्गृहं शून्यमलब्धं तत्प्रपृच्छतम्। श्रुत्वा तद्वै शिवं सा च वचनं पत्युरंतिके
गत्वा प्रोवाच दुर्वृत्तं तच्छ्रुत्वा विस्मयं गतः। स विचिंत्य तया सार्धमागतोसौ ममांतिकम्
निभृतं मामुवाचेदं क्षपणत्वं च कीर्तय। क्षपणक उवाच- चाक्षुषं चिरसंशुद्धं हेलया तृणवत्कथम्
त्वया त्यक्तं यतस्तात नास्ति भाग्यमकंटकम्। ऐश्वर्यमतुलं शौर्यं शीर्यते भावुकं पुनः
स्वबंधूनां महद्दुःखमाजन्ममरणांतिकम्। द्रक्ष्यसे चात्मना नित्यं मृतानां या गतिर्ध्रुवम्
तस्मात्तद्गृह्यतां तूर्णं भुंक्ष्व भोग्यमकंटकम्। ऐश्वर्यमतुलं शौर्यं लोकानां विस्मयं वरम्
शूद्र उवाच- न मे वित्ते स्पृहा चास्ति धनं संसार वागुरा। तद्विधौ पतितो मर्त्यो न पुनर्मोक्षकं व्रजेत्
शृणु वित्तस्य यद्दोषमिहलोके परत्र च। भयं चोराच्च ज्ञातिभ्यो राजभ्यस्तत्करादपि५० 1.53.
सर्वे जिघांसवो मर्त्याः पशुमत्स्यविविष्किराः। तथा धनवतां नित्यं कथमर्थास्सुखावहाः
प्राणस्यांतकरो ह्यर्थस्साधको दुरितस्य च। कालादीनां प्रियं गेहं निदानं दुर्गतेः परम्
क्षपणक उवाच- यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बांधवाः। कुलं शीलं च पांडित्यं रूपं भोग्यं यशः सुखम्
धनेन तु विहीनस्य पुत्रदारोज्झितस्य च। कथं मित्रं कथं धर्मं दीनानां जन्मनः कथं
सत्वादिक्रतुकार्यं च पुष्करिण्युपकारकं। दानं नाकस्य सोपानं निःस्वस्य च न सिद्ध्यति
व्रतकार्यस्य रक्षा च धर्मादिश्रवणं भृशम्। पितृयज्ञादितीर्थं च निर्वित्तस्य न सिद्ध्यति
तथा रोगप्रतीकारः पथ्यमौषधसंचयं। रक्षणं विग्रहश्चैव शत्रूणां विजयो ध्रुवम्
स्त्रीणां च जन्मना वार्ता वसुयोगेन लभ्यते। भूतभव्यप्रवृत्तानां सुकृतं दुष्कृतं च यत्
तस्माद्बहुधनं यस्य तस्य भोग्यं यदृच्छया। स्वर्गं वितरणादेव लप्स्यसे ह्यचिरादितः
शूद्र उवाच- अकामाच्च व्रतं सर्वमक्रोधात्तीर्थसेवनम्। दया जप्यसमा शुद्धं संतोषो धनमेव च
अहिंसा परमा सिद्धिः शिलोंछवृत्तिरुत्तमा। शाकाहारः सुधातुल्य उपवासः परंतप
संतोषो मे महाभोग्यं महादानं वराटकम्। मातृवत्परदाराश्च परद्रव्याणि लोष्ठवत्
परदारा भुजंगाभाः सर्वयज्ञ इदं मम। तस्मादेनं न गृह्णामि सत्यं सत्यं गुणाकर
प्रक्षालनाद्धि पंकस्य दूरादस्पर्शनं वरं। इत्युक्ते तु नरश्रेष्ठ पुष्पवर्षं पपात ह
मूर्ध्रिदेशे तनौ तस्य सर्वदेवेरितं द्विज। देवदुंदुभयो नेदुर्नृत्यंत्यप्सरसां गणाः
जगुर्गंधर्वपतयो विमानं चापतद्दिवः। ऊचुर्देवगणास्तत्र विमानमिदमारुह