सर्वशत्रुगणं जित्वा लोको धर्मेण पालितः। अकरोच्च मखं शुद्धं राजसूयं सुदुर्लभम्
चतुरशीतिसहस्राणि ब्राह्मणानां च नित्यशः। भोजयेद्रुक्मपात्रेषु राजोपकरणेषु च
भोजयित्वोपकरणांस्तेभ्यो दत्वा विसर्जयेत्। यदभीष्टं द्विजातीनामतोन्यद्दापयेद्धनम्
अदरिद्रं ततो ज्ञात्वा द्विजव्यूहं परित्यजेत्। तथैव स्नातकानां तु सहस्राणि तु षोडश। नित्यं संभोजयेद्राजा सत्येनैव विमत्सरः
अतिष्ठंत गृहे पूर्वं चिरं तस्य जिगीषया। जितं तेन जगत्सर्वं प्राणानुग्रहकारणात्
सत्येन चासुरो राजा बलिरिंद्रो भविष्यति। पातालस्थस्य तस्यैव भूयस्तिष्ठामि वेश्मनि
निरंतरं च तिष्ठामि स्वांते पुण्यैककर्मणः। यद्वा पुरा मया बद्धो दैत्ययोनेर्विमोक्षणात्
तलं चैवामरत्वं हि शक्रत्वं प्रददाम्यहम्। हरिश्चंद्रो नृपस्सत्यात्सवाहनपरिच्छदः
स्वशरीरेण शुद्धेन सत्यलोके प्रतिष्ठितः। राजानो बहवश्चान्ये ये च सिद्धा महर्षयः
ज्ञानिनो यतयश्चैव सर्वे सत्येऽच्युताऽभवन्। तस्मात्सत्यरतो लोके संसारोद्धरणक्षमः
तुलाधारो महात्मा वै सत्यवाक्ये प्रतिष्ठितः। लोके तत्सदृशो नास्ति सत्यवाक्यस्य कारणात्
अश्वमेधसहस्रेण सत्यं तु तुलया धृतम्। अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते
सर्वं सत्याद्भवेत्साध्यं सत्यो हि दुरतिक्रमः। सत्यवाक्येन सा धेनुर्बहुला स्वर्गगामिनी
सर्वं राष्ट्रं समाधाय पुनरावृत्तिदुर्लभा। तथायं सर्वदा साक्षी मृषा नास्ति कदाचन
बह्वर्घमल्पमर्घं च क्रयविक्रयणे सुधीः। सत्यवाक्यं प्रशस्तं च विशेषात्साक्षिणो भवेत्
साक्षिणः सत्यमुक्त्वा च अक्षयं स्वर्गमाययुः। वावदूकः सभां प्राप्य सत्यं वदति वाक्पतिः
स याति ब्रह्मणो गेहं यज्ञैरन्यैश्च दुर्लभम्। सभायां यो वदेत्सत्यमश्वमेधफलं लभेत्
लोभाद्द्वेषान्मृषोक्त्वा च रौरवं नरकं व्रजेत्। सर्वसाक्षी तुलाधारो जनानां शूर एव च
विशेषाल्लोभसंत्यागान्नाके निर्जरतां व्रजेत्। कश्चिच्छूद्रो महाभागो न लोभे वर्तते क्वचित्
वृत्तिश्शाकेन दुःखेन तथा शिलोंछतो भृशम्। जर्जरं वस्त्रयुग्मं च करौ पात्रे च सर्वदा
सदापि लाभविरहो न परस्वं गृहीतवान्। तस्य जिज्ञासयैवाहं गृहीत्वा वस्त्रयुग्मकम्
अवकोटे नदीतीरे स्थितस्संस्थाप्य सादरम्। स दृष्ट्वा वस्त्रयुग्मं तन्न लोभे कुरते मनः
इतरस्य परिज्ञाय तत्क्षांत्या स्वगृहं ययौ। ततो विचिंतयित्वा तु हृदा स्वल्पमिति द्विज
उदुंबरं हेमगर्भं मया तत्रैव पातितम्। किंकरे च नदीतीरे विकोणे जनवर्जिते
तस्य यातस्य देशे तु दृष्टं तेन तदद्भुतम्। अलं विधानमेतत्तु कृत्रिमं चोपलक्ष्यते
ग्रहणे वाधुना चास्य अलोभं नष्टमेव मे। अस्यैव रक्षणे कष्टमहंकारपदं त्विदम्
यतो लोभस्ततो लाभो लाभाल्लोभः प्रवर्तते। लोभग्रस्तस्य पुंसश्च शाश्वतो निरयो भवेत्
यदि नो विगुणं वित्तं यदा वेश्मनि तिष्ठति। तदा मे दारपुत्राणामुन्मादो ह्युपपद्यते
उन्मादात्कामसंजात विकारान्मतिविभ्रमः। भ्रमान्मोहोप्यहंकारः क्रोधलोभावतः परं
एषां प्रचुरभावाच्च तपः क्षयं गमिष्यति। क्षीणे तपसि वर्तंते पंकाश्चित्तप्रमोहकाः