गृह्णाति मनसा प्राज्ञो यद्दत्तं तस्य चाक्षयम्। भूमिं गां च हिरण्यं च धनं वस्त्रं च धान्यकम्
जामातुर्यौतकं दत्वा सर्वं भवति चाक्षयम्। विवाहसमये वत्स सगोत्र परगोत्रजैः
यौतकं दीयते किंचित्तत्सर्वं चाक्षयं भवेत्। दाता न स्मरते दानं प्रतिग्राही न याचते
उभौ तौ नरकं यातश्छिन्नरज्जुर्घटो यथा। अवश्यं यौतकं दानं दातव्यं सात्विकेन हि
अदत्वा नरकं प्राप्य दासीत्वमुपगच्छति। अत्यासन्नेतिदूरस्थे चात्याढ्ये चाति दुर्गते
कुलहीने च मूर्खे च षट्सु कन्या न दीयते। अतिवृद्धे चातिदीने रोगिष्ठे देशवासिनि
अतिक्रुद्धेप्यसन्तुष्टे षट्सु कन्या न दीयते। एतेभ्यः कन्यकां दत्वा नरकं चाधिगच्छति
लोभात्संमानलाभाच्च कन्यका परिवर्तनात्। मुनीनां प्रेयसीं नारीं युवतीं रूपशालिनीम्
सालंकारां सशय्यां च दत्वाऽनंतफलं लभेत्। अनयोश्च फलं तुभ्यं युवती कन्ययोरपि
एका वराय दातव्या अपरा ब्राह्मणाय तु। क्रीता देवा यदातव्या धीरेणाकष्टकर्मणा
कल्पकालं भवेत्स्वर्गं नृपो वा कौ महाधनी। प्रतिजन्म लभेतैष सुपत्नीं वरवर्णिनीम्१०० 1.52.
य इदं शृणुयान्नित्यं पुण्याख्यानमनुत्तमम्। सर्वपापक्षयस्तस्य सर्वशास्त्रार्थपारगः
लभेत सोऽक्षयं स्वर्गं नारीणां वल्लभो भवेत्। क्षत्रियो विजयी चाथ लोकनाथो भवेद्ध्रुवम्
श्रुतं हरति पापानि जन्मजन्मकृतानि च। सौभाग्यं लभते लोके तथैव च वरांगना
द्विज उवाच- तुलाधारस्य चरितं प्रभावमतुलं प्रभो। वक्तुमर्हस्यशेषेण यदि मय्यस्त्यनुग्रहः
श्रीभगवानुवाच - सत्यभावादलोभाच्च दद्याद्यो वै त्वमत्सरात्। नित्यं यज्ञशतं तस्य सुनिष्पन्नं सुदक्षिणम्
सत्येनोदयते सूरो वाति वातस्तथैव च। न लंघयेत्समुद्रस्तु वेलां कूर्मो धरां तथा
सत्येन लोकास्तिष्ठंति सर्वे च वसुधाधराः। सत्याद्भ्रष्टोथ यः सत्वोप्यधोवासी भवेद्ध्रुवम्
सत्यवाचिरतोथस्तु सत्यकार्यरतः सदा। सशरीरेण स्वर्लोकमागत्याच्युततां व्रजेत्
सत्येन मुनयः सर्वे मां च गत्वा स्थिरं गताः। सत्याद्युधिष्ठिरो राजा सशरीरो दिवं गतः
सर्वशत्रुगणं जित्वा लोको धर्मेण पालितः। अकरोच्च मखं शुद्धं राजसूयं सुदुर्लभम्
चतुरशीतिसहस्राणि ब्राह्मणानां च नित्यशः। भोजयेद्रुक्मपात्रेषु राजोपकरणेषु च
भोजयित्वोपकरणांस्तेभ्यो दत्वा विसर्जयेत्। यदभीष्टं द्विजातीनामतोन्यद्दापयेद्धनम्
अदरिद्रं ततो ज्ञात्वा द्विजव्यूहं परित्यजेत्। तथैव स्नातकानां तु सहस्राणि तु षोडश। नित्यं संभोजयेद्राजा सत्येनैव विमत्सरः
अतिष्ठंत गृहे पूर्वं चिरं तस्य जिगीषया। जितं तेन जगत्सर्वं प्राणानुग्रहकारणात्
सत्येन चासुरो राजा बलिरिंद्रो भविष्यति। पातालस्थस्य तस्यैव भूयस्तिष्ठामि वेश्मनि
निरंतरं च तिष्ठामि स्वांते पुण्यैककर्मणः। यद्वा पुरा मया बद्धो दैत्ययोनेर्विमोक्षणात्
तलं चैवामरत्वं हि शक्रत्वं प्रददाम्यहम्। हरिश्चंद्रो नृपस्सत्यात्सवाहनपरिच्छदः
स्वशरीरेण शुद्धेन सत्यलोके प्रतिष्ठितः। राजानो बहवश्चान्ये ये च सिद्धा महर्षयः
ज्ञानिनो यतयश्चैव सर्वे सत्येऽच्युताऽभवन्। तस्मात्सत्यरतो लोके संसारोद्धरणक्षमः