सा स्वर्गमात्मघातेन नात्मानं न पतिं नयेत्। न म्रियेत समं गत्वा ब्राह्मणी ब्रह्मशासनात्
प्रव्रज्यागतिमाप्नोति मरणादात्मघातिनी। नरोत्तम उवाच- सर्वासामपि जातीनां ब्राह्मणः शस्य इष्यते
पुण्यं च द्विजमुख्येन अत्र किंवा विपर्ययः। श्रीभगवानुवाच- ब्राह्मण्यास्साहसं कर्म नैव युक्तं कदाचन
निःशेषेस्या वधं कृत्वा स नरो ब्रह्महा भवेत्। तस्माद्ब्राह्मणजातीया विप्रया च व्रतं चरेत्
प्रवक्ष्यामि यथातथ्यं शृणु विप्र यथार्थतः। आपणांतरमामिष्यं भक्षयेन्न कदाचन
अश्वमेधसहस्राणां हायने फलमाप्नुयात्। अर्हणं चेष्टदेवस्य हरेर्व्रतमनुत्तमम्
स्वामिनोपि जलं पिंडं संप्रदद्यादमत्सरात्। युगकोटिसहस्राणि युगकोटिशतानि च
पतिना सह सा साध्वी विष्णुलोके युता भवेत्। ततो महाव्रतं प्राप्य निरये ब्राह्मणी वधूः
उद्धरेदुभयोर्वंशाञ्छतशोथ सहस्रशः। अतो बंधुजनैरेव पुत्रैर्भ्रात्रादिभिर्बुधैः
विनियम्य सदा तस्या व्रतलोपं न कारयेत्। हरेश्चेद्वासरं प्राप्य विधवा न व्रतं चरेत्
पुनर्वैधव्यतामेति जन्मजन्मनि दुर्भगा। भोजनात्मत्स्यमांसस्य व्रतानां विप्रयोगतः
चिरं निरयमासाद्य शुनी भवति निश्चितम्। दुष्टाया मैथुनं गच्छेद्विधवाकुलनाशिनी
नरकाननुभूयाथ गृध्रिणी दशजन्मसु। द्विजन्मफेरवा भूत्वा ततो मानुषतां व्रजेत्
तथैव बालवैधव्या दासीत्वमुपगच्छति। द्विज उवाच- कन्यादानफलं ब्रूहि वद दास्याः फलं च यत्
विधानं च यथोक्तं च यदि मेनुग्रहः प्रभो। श्रीभगवानुवाच-। रूपाढ्ये गुणसंपन्ने कुलीने यौवनान्विते
समृद्धे वित्तसंपूर्णे कन्यादानफलं शृणु। सर्वाभरणसंयुक्तां कन्यकां यो ददाति च
तेन दत्ता धरा सर्वा सशैलवनकानना। अर्द्धाभरणदानेन फलं दातुर्भवेद्ध्रुवम्
अनाभरणकन्यायाः पादैकस्य फलं भवेत्। यः पुनः शुल्कमश्नाति स याति नरके नरः
विक्रीय चात्मजां मूढो नरकान्न निवर्त्तते। लोभादसदृशे पुंसि कन्यां यस्तु प्रयच्छति
रौरवं नरकं प्राप्य चांडालत्वं च गच्छति। अतएव हि शुल्कं च जामातुर्न कदाचन
गृह्णाति मनसा प्राज्ञो यद्दत्तं तस्य चाक्षयम्। भूमिं गां च हिरण्यं च धनं वस्त्रं च धान्यकम्
जामातुर्यौतकं दत्वा सर्वं भवति चाक्षयम्। विवाहसमये वत्स सगोत्र परगोत्रजैः
यौतकं दीयते किंचित्तत्सर्वं चाक्षयं भवेत्। दाता न स्मरते दानं प्रतिग्राही न याचते
उभौ तौ नरकं यातश्छिन्नरज्जुर्घटो यथा। अवश्यं यौतकं दानं दातव्यं सात्विकेन हि
अदत्वा नरकं प्राप्य दासीत्वमुपगच्छति। अत्यासन्नेतिदूरस्थे चात्याढ्ये चाति दुर्गते
कुलहीने च मूर्खे च षट्सु कन्या न दीयते। अतिवृद्धे चातिदीने रोगिष्ठे देशवासिनि
अतिक्रुद्धेप्यसन्तुष्टे षट्सु कन्या न दीयते। एतेभ्यः कन्यकां दत्वा नरकं चाधिगच्छति
लोभात्संमानलाभाच्च कन्यका परिवर्तनात्। मुनीनां प्रेयसीं नारीं युवतीं रूपशालिनीम्
सालंकारां सशय्यां च दत्वाऽनंतफलं लभेत्। अनयोश्च फलं तुभ्यं युवती कन्ययोरपि
एका वराय दातव्या अपरा ब्राह्मणाय तु। क्रीता देवा यदातव्या धीरेणाकष्टकर्मणा