शतं शतसहस्रं च पैष्टीमद्यस्य भक्षणात्। स्वर्णादेर्हरणं कृत्वा तेषां संसर्गकं चिरं५० 1.52.
एतान्यन्यानि पापानि महान्ति पातकानि च। अग्निं प्राप्य यथा तूलं तृणं शुष्कं प्रणश्यति
तस्मान्मन्नामगोविंदं स्मृत्वा पूतो भवेन्नरः। यो वा गृहाश्रमे तिष्ठेन्नित्यं गोविंदघोषणम्
कृत्वा च पूजयित्वा च स पापात्सन्तरो भवेत्। भागीरथी तटे रम्ये खगस्य ग्रहणे शिवे
गवां कोटिप्रदानेन यत्फलं लभते नरः। तत्फलं समवाप्नोति सहस्रं चाधिकं च यत्
गोविंदकीर्तने तात मत्पुरे चाक्षयं वसेत्। कामात्स भवने स्थित्वा सार्वभौमो भवेन्नृपः
पुराणेमत्कथां श्रुत्वा मत्सादृश्यं लभेन्नरः। कथयित्वा पुराणं च विष्णुसायुज्यतां व्रजेत्
तस्मान्नित्यं च श्रोतव्यं पुराणं धर्मसंचयं। श्रावितव्यं प्रयत्नेन लोके विष्णुतनुं व्रजेत्
अन्यद्वा स्त्रीकृते दोषे यथायोगं भवेद्ध्रुवं। निशामय प्रवक्ष्यामि तत्वतो द्विजनंदन
सर्वबीजस्य दानेन सांबुकुंभं महाफलम्। दद्याद्विप्राय पुण्याहे सद्यःपूतो भवेत्क्षणात्
सर्वं धान्यादिकं बीजं काले दद्याद्द्विजातये। सर्वपापक्षयं कृत्वा अक्षयं स्वर्गमश्नुते
गुणं वक्ष्यामि विप्रर्षे सतीनां यादृशं दृढम्। शुद्धवंशो भवेत्तस्या नित्यं लक्ष्मीः प्रवर्तते
उभयोर्वंशयोः स्वर्गो भर्तुरात्मन एव च। पतिव्रतागुणो विप्र विस्मृतः पृच्छतस्तव
पुनर्वक्ष्यामि योषाणां सर्वलोकहितं शुभम्। उषित्वा पूर्वकालं च पुण्यापुण्येन योषितः
पश्चात्पतिव्रतायाश्च ताश्च गच्छंति मद्गतिम्। षण्मासं वाथ वर्षं वा अधिकं च प्रशस्यते
पतिव्रता भवेद्या च यावत्पूता व्रजेद्दिवम्। सुरापं विप्रहंतारं सर्वपापयुतं पतिम्
पंकात्पूतं नयेत्स्वर्गं भर्त्तांरं यानुगच्छति। कंदर्पसदृशो भर्ता सा रतीव मनोरमा
जिष्णोरेवचिरं लोके भुंक्तेऽनंतमयं सुखम्। पतिव्रता बलाद्या च विदूरे स्वामिपातने
चिह्नं लब्ध्वामृता वह्नौ पापादुद्धरते पतिं। पतिव्रता च या नारी देशांतरमृते पतौ
सा भर्तुश्चिह्नमादाय वह्नौ सुप्त्वा दिवं व्रजेत्। या स्त्री ब्राह्मणजातीया मृतं पतिमनुव्रजेत्
सा स्वर्गमात्मघातेन नात्मानं न पतिं नयेत्। न म्रियेत समं गत्वा ब्राह्मणी ब्रह्मशासनात्
प्रव्रज्यागतिमाप्नोति मरणादात्मघातिनी। नरोत्तम उवाच- सर्वासामपि जातीनां ब्राह्मणः शस्य इष्यते
पुण्यं च द्विजमुख्येन अत्र किंवा विपर्ययः। श्रीभगवानुवाच- ब्राह्मण्यास्साहसं कर्म नैव युक्तं कदाचन
निःशेषेस्या वधं कृत्वा स नरो ब्रह्महा भवेत्। तस्माद्ब्राह्मणजातीया विप्रया च व्रतं चरेत्
प्रवक्ष्यामि यथातथ्यं शृणु विप्र यथार्थतः। आपणांतरमामिष्यं भक्षयेन्न कदाचन
अश्वमेधसहस्राणां हायने फलमाप्नुयात्। अर्हणं चेष्टदेवस्य हरेर्व्रतमनुत्तमम्
स्वामिनोपि जलं पिंडं संप्रदद्यादमत्सरात्। युगकोटिसहस्राणि युगकोटिशतानि च
पतिना सह सा साध्वी विष्णुलोके युता भवेत्। ततो महाव्रतं प्राप्य निरये ब्राह्मणी वधूः
उद्धरेदुभयोर्वंशाञ्छतशोथ सहस्रशः। अतो बंधुजनैरेव पुत्रैर्भ्रात्रादिभिर्बुधैः
विनियम्य सदा तस्या व्रतलोपं न कारयेत्। हरेश्चेद्वासरं प्राप्य विधवा न व्रतं चरेत्