स्थानं नास्ति क्षणं नास्ति नास्ति प्रार्थयिता नरः। तेन नारद नारीणां सतीत्वमुपजायते
घृतकुंभसमा नारी तप्तांगारसमः पुमान्। तस्माद्घृतं च वह्निं च नैकस्थाने च धारयेत्
यथैवमत्तमातंगं सृणिमुद्गरयोगतः। स्ववशं कुरुते यंता तथा स्त्रीणां प्ररक्षकः
पिता रक्षति कौमारे भर्ता रक्षति यौवने। पुत्राश्च स्थाविरे भावे न स्त्री स्वातंत्र्यमर्हति
ततः स्वातंत्र्यभावाच्च स्वेच्छया च वरांगना। पुरुषेणार्थिता धीरा प्रेरणादिचरी भवेत्
अरक्षणाद्यथा पाकः श्वकाकवशगो भवेत्। तथैव युवती नारी स्वच्छंदाद्दुष्टतां व्रजेत्
पुनरेव कुलं दुष्टं तस्यास्संसर्गतो भवेत्। परबीजेन यो जातः स च स्याद्वर्णसंकरः
जारजः संकरः पापो नरके नियतं वसेत्। कीटजातौ गता जाताः पुनः सर्वे महीतले
ततो म्लेच्छमुपानीतं कुलं स्याद्द्विजनंदन। कुलक्षयो भवेद्यस्मात्तस्माद्दुष्टां न धारयेत्
ज्ञात्वैव योषितां दोषं क्षमते यो नराधमः। स तिष्ठेन्निरये घोरे रौरवे पितृभिः सह
काचित्पातयते नारी काचिदुद्धरते कुलम्। तस्मात्सर्वप्रयत्नेन कुलजामुद्वहेद्बुधः
कुलद्वयं समा नारी समयित्वा तु तिष्ठति। साध्वी तारयते वंशान्दुष्टा पातयति ध्रुवम्
दारेष्वधीनं स्वर्गं च कुलं पंकं यशोऽयशः। पुत्रं दुहितरं मित्रं संसारे कथयंति च
तस्मादेकां द्वितीयां वा वामामुद्वाहयेद्बुधः। संतानार्थात्तु कामाच्च बहुदोषाश्रिता च सा
रजस्वलां च वनितां नावगच्छति यः पतिः। ब्रह्महा भ्रूणहा सोपि दुर्गतिं चाधिगच्छति
यो मोहाद्दुर्भगां कृत्वा साध्वीं त्यजति पापकृत्। तस्या वधेन यत्पापं तद्भुक्त्वा नरकं व्रजेत्
वनिताहरणं कृत्वा चांडलकुलतां व्रजेत्। तथैव वनिताहानात्पतितो जायते नरः
रामां विन्यस्य स्कंधे च चिरं यमपुरे वसेत्। मलमूत्रं शिरोदेशे नित्यं तस्य च संपतेत्
एवं वर्षसहस्राणि भारं वहति दुर्मतिः। पुनर्यावन्ति लोमानि तावत्स रौरवं व्रजेत्
पुनः कीटेषु संतीर्णस्तदा मानुषतां व्रजेत्। ततश्च कलहं शोकं प्राप्नोति पूर्वकल्मषात्
एवं जन्मत्रयं प्राप्य मुच्यते पातकान्नरः। तत्कालं नरकं भुक्त्वा सा तु काकी तु वञ्चकी
उच्छिष्टनरकं भुक्त्वा मानुषे विधवा भवेत्। यः पुनश्चांत्यजां गच्छेन्म्लेछां वा पुल्कसां नरः
द्वित्रिचतुर्गुणं भुक्त्वा तत्र संचीर्णवंचकः। मातरं गुरुभार्यां च ब्राह्मणीं महिषीं तथा
अन्यां वा प्रभुपत्नीं च गत्वा यात्यपुनर्भवं। भगिनीं तत्पुत्रभार्यां तथा दुहितरं स्नुषाम्
पितृव्यां मातुलानीं तु तथैव च पितृष्वसाम्। मातृष्वस्रादिकामन्यां गत्वा नास्ति च निष्कृतिः
ब्रह्महा स भवेदंधो वचसा जडतां व्रजेत्। कर्णयोर्बधिरो जातश्च्यवते नास्ति निष्कृतिः
उक्त्वा अश्लीलमत्यर्थमखिलं स्त्रीकृतेन हि। द्विज उवाच- एवं दुष्कृतमासाद्य कथं मोक्षो भवेत्पुनः
तत्समाचक्ष्व भगवन्श्रोतुमिच्छामि तत्त्वतः। श्रीभगवानुवाच। तासां च गमनं कृत्वा तप्तां लोहस्य पुत्तलद्यं
समालिंग्य त्यजेत्प्राणं शुचिर्लोकांतरं व्रजेत्। यो वै गृहाश्रमं त्यक्त्वा मच्चित्तो जायते नरः
नित्यं स्मरति गोविंदं सर्वपापक्षयो भवेत्। ब्रह्महत्यायुतं तेन कृतं गुर्वंगनागमात्