न स्त्रीणामप्रियः कश्चित्प्रियो वापि न विद्यते। गावस्तृणमिवारण्ये प्रार्थयंति नवंनवम्
पुमांसं वित्तहीनं च विरूपं गुणवर्जितम्। अकुलीनं च भृत्यं च कामिनी भजते ध्रुवम्
भर्तारं च गुणोपेतं कुलीनं च महाधनम्। सुंदरं रतिदक्षं च त्यक्त्वा नीचं भजेद्वधूः
उमानारदसंवादमाख्यानं विद्धि भूसुर। येन विद्यास्त्रियाश्चेष्टा विविधाः कृत्स्नशो द्विज
स्वभावान्नारदो विप्र विश्वजिज्ञासको मुनिः। स्वांते विमृश्याथ गतः कैलासं गिरिमुत्तमम्
वृषकेतुसदाख्यान सप्रतिष्ठे हिमे गिरौ। प्रणिपत्य महात्मा वै पप्रच्छ पार्वतीं मुनिः
देवि सीमंतिनीनांतु दुश्चेष्टां ज्ञातुमुत्सहे। कौतुकेन त्वया चर्या वधूनां संप्रयुज्यते
सर्वासामपि नारीणां स्वान्तं जानासि तत्त्वतः। तन्मां कथय सर्वेषु विनीतमज्ञमत्र च
देव्युवाच- युवतीनां सदा चित्तं पुंसु तिष्ठत्यसंशयम्। अस्मिन्योनौ सुसंयोग्ये संगते वाप्यसंगते
सुवेषं पुरुषं दृष्ट्वा भ्रातरं यदि वा सुतम्। योनिः क्लिद्यति नारीणां सत्यं सत्यं हि नारद
स्थानं नास्ति क्षणं नास्ति नास्ति प्रार्थयिता नरः। तेन नारद नारीणां सतीत्वमुपजायते
घृतकुंभसमा नारी तप्तांगारसमः पुमान्। तस्माद्घृतं च वह्निं च नैकस्थाने च धारयेत्
यथैवमत्तमातंगं सृणिमुद्गरयोगतः। स्ववशं कुरुते यंता तथा स्त्रीणां प्ररक्षकः
पिता रक्षति कौमारे भर्ता रक्षति यौवने। पुत्राश्च स्थाविरे भावे न स्त्री स्वातंत्र्यमर्हति
ततः स्वातंत्र्यभावाच्च स्वेच्छया च वरांगना। पुरुषेणार्थिता धीरा प्रेरणादिचरी भवेत्
अरक्षणाद्यथा पाकः श्वकाकवशगो भवेत्। तथैव युवती नारी स्वच्छंदाद्दुष्टतां व्रजेत्
पुनरेव कुलं दुष्टं तस्यास्संसर्गतो भवेत्। परबीजेन यो जातः स च स्याद्वर्णसंकरः
जारजः संकरः पापो नरके नियतं वसेत्। कीटजातौ गता जाताः पुनः सर्वे महीतले
ततो म्लेच्छमुपानीतं कुलं स्याद्द्विजनंदन। कुलक्षयो भवेद्यस्मात्तस्माद्दुष्टां न धारयेत्
ज्ञात्वैव योषितां दोषं क्षमते यो नराधमः। स तिष्ठेन्निरये घोरे रौरवे पितृभिः सह
काचित्पातयते नारी काचिदुद्धरते कुलम्। तस्मात्सर्वप्रयत्नेन कुलजामुद्वहेद्बुधः
कुलद्वयं समा नारी समयित्वा तु तिष्ठति। साध्वी तारयते वंशान्दुष्टा पातयति ध्रुवम्
दारेष्वधीनं स्वर्गं च कुलं पंकं यशोऽयशः। पुत्रं दुहितरं मित्रं संसारे कथयंति च
तस्मादेकां द्वितीयां वा वामामुद्वाहयेद्बुधः। संतानार्थात्तु कामाच्च बहुदोषाश्रिता च सा
रजस्वलां च वनितां नावगच्छति यः पतिः। ब्रह्महा भ्रूणहा सोपि दुर्गतिं चाधिगच्छति
यो मोहाद्दुर्भगां कृत्वा साध्वीं त्यजति पापकृत्। तस्या वधेन यत्पापं तद्भुक्त्वा नरकं व्रजेत्
वनिताहरणं कृत्वा चांडलकुलतां व्रजेत्। तथैव वनिताहानात्पतितो जायते नरः
रामां विन्यस्य स्कंधे च चिरं यमपुरे वसेत्। मलमूत्रं शिरोदेशे नित्यं तस्य च संपतेत्
एवं वर्षसहस्राणि भारं वहति दुर्मतिः। पुनर्यावन्ति लोमानि तावत्स रौरवं व्रजेत्
पुनः कीटेषु संतीर्णस्तदा मानुषतां व्रजेत्। ततश्च कलहं शोकं प्राप्नोति पूर्वकल्मषात्