यथापूज्यो हरिर्दैवैर्यथा लक्ष्मीश्च पूजिता। तथैव दंपती स्वर्गे तस्मान्मद्वचनं कुरु
पतिव्रतोवाच- पत्युर्मे निधने ब्रह्मन्विधवा लोकनिंदिता। कांस्तु लोकान्गमिष्यामि भग्ना चारामलीमसा
ब्रह्मोवाच- अतस्ते नास्ति दोषो वै न मृतस्ते धवोऽधुना। अस्माकं वचनेनैव कुष्ठी मन्मथतां व्रजेत्
वदत्येवंविधौ सा च विमृश्य क्षणमेव च। बाढमुक्तवती सा च ततस्सूर्योदयोऽभवत्
अभवद्भस्मरूपोऽसौ मुनिशापप्रपीडितः। भस्मनो मध्यतो जातो द्विजो मन्मथपीडितः
दृष्ट्वा विस्मयपमापन्नाः सर्वे ते पुरवासिनः। मुदिता देवसंघाश्च जनः स्वस्थतरोऽभवत्
विमानेनार्कवर्णेन स्वर्लोकादागतेन च। पतिना सह सा साध्वी सुरैः सार्द्धं गता दिवम्
एवं पतिव्रता यस्माच्छुभा चैव तु मत्समा। तेन वृत्तं च जानाति भूतं भव्यं प्रवर्तनम्
य इदं श्रावयेल्लोके पुण्याख्यानमनुत्तमम्। तस्य पापं क्षयं याति जन्मजन्मकृतं च यत्
अक्षयं लभते स्वर्गं विबुधैः संप्रयुज्यते। ब्राह्मणो लभते वेदं जन्मजन्मसु बाडव
सकृच्छृणोति यः पूतो दुष्कृतौघाद्विमुच्यते। सुरालयमवाप्नोति स्वर्गाद्भ्रष्टो धनी भवेत्
द्विज उवाच- मांडव्यस्य मुनेर्विष्णोश्शूलाघातः कथं तनौ। पत्यौ पतिव्रतायाश्च कथं कुष्ठं कलेवरे
हरिरुवाच- शिशुभावाच्च मांडव्यो झिल्लिकायामभानतः। वस्तिदेशे तृणं दत्वा मोहात्स च मुमोच ताम्
तेनापवाददोषेण धर्मस्याज्ञातुरेव च। अहोरात्रं व्यथा कृच्छ्रा भुक्ता तेन द्विजन्मना
किंतु समाधिना तेन न ज्ञातं शूलसंभवम्। कृच्छ्रं च मुनिना कृत्स्नं योगाभ्यासाद्भृशादपि
कुष्ठिनो ब्रह्मणो घातादजितेंद्रियकारणात्। पूतिगंधं तनौ कुष्ठं संजातं द्विजसत्तम
पुरा विप्राय तेनैव दत्तं गौरीचतुष्टयम्। कन्यकात्रितयं विप्र तेन तस्य पतिव्रता
अस्यास्तु कारणादेव स च मत्समतां व्रजेत्। अत्र ते विस्मयः कुत्र वेदकर्मपुरातनम्
द्विज उवाच- कृत्या नारी न यस्यैव तस्य स्वर्गो भवेद्ध्रुवम्। यथैतच्चरितं नाथ सर्वेषां शिवमिष्यते
हरिरुवाच- संति कृत्याः स्त्रियः काश्चित्पुंसः सर्वस्वदस्य च। तत्राप्यरक्षणीयां च मनसापि न धारयेत्
न स्त्रीणामप्रियः कश्चित्प्रियो वापि न विद्यते। गावस्तृणमिवारण्ये प्रार्थयंति नवंनवम्
पुमांसं वित्तहीनं च विरूपं गुणवर्जितम्। अकुलीनं च भृत्यं च कामिनी भजते ध्रुवम्
भर्तारं च गुणोपेतं कुलीनं च महाधनम्। सुंदरं रतिदक्षं च त्यक्त्वा नीचं भजेद्वधूः
उमानारदसंवादमाख्यानं विद्धि भूसुर। येन विद्यास्त्रियाश्चेष्टा विविधाः कृत्स्नशो द्विज
स्वभावान्नारदो विप्र विश्वजिज्ञासको मुनिः। स्वांते विमृश्याथ गतः कैलासं गिरिमुत्तमम्
वृषकेतुसदाख्यान सप्रतिष्ठे हिमे गिरौ। प्रणिपत्य महात्मा वै पप्रच्छ पार्वतीं मुनिः
देवि सीमंतिनीनांतु दुश्चेष्टां ज्ञातुमुत्सहे। कौतुकेन त्वया चर्या वधूनां संप्रयुज्यते
सर्वासामपि नारीणां स्वान्तं जानासि तत्त्वतः। तन्मां कथय सर्वेषु विनीतमज्ञमत्र च
देव्युवाच- युवतीनां सदा चित्तं पुंसु तिष्ठत्यसंशयम्। अस्मिन्योनौ सुसंयोग्ये संगते वाप्यसंगते
सुवेषं पुरुषं दृष्ट्वा भ्रातरं यदि वा सुतम्। योनिः क्लिद्यति नारीणां सत्यं सत्यं हि नारद