एतस्मिन्नंतरे रात्रावंधकारे घनोन्नते। स्वपतिं पृष्ठतः कृत्वा प्रययौ सा पतिव्रता
मांडव्यस्य तनौ सङ्गात्कुष्ठिनो गंध आगतः। भग्नः समाधिस्तस्यैवं कुष्ठिसंसर्गतो ध्रुवम्
मांडव्य उवाच- एवं येनाधुना कृच्छ्रं कारितं गात्रवेदनम्। स एव भस्मतां यातु प्रोदिते च विरोचने
मांडव्येनैवमुक्तस्स पपात धरणीतले। ततः पतिव्रता चाह ब्रध्नो नोदयतु ध्रुवं
दिनत्रयं गृहं नीत्वा शापाद्वेश्मगता ततः। शयनीये स्थितं रम्ये धृत्वाऽतिष्ठत्पतिव्रता
शप्त्वा तं च मुनिश्रेष्ठो गतो देशमभीष्टकम्। सूरो नोदयते लोके यावच्चैव दिनत्रयम्
निखिलं व्यथितं दृष्ट्वा त्रैलोक्यं सचराचरम्। शतक्रतुं पुरस्कृत्य गता देवाः पितामहम्
वृत्तं न्यवेदयन्सर्वं पद्मयोनौ दिवौकसः। कारणं च न जानीमस्त्वं तु योग्यं विधेहि नः
ब्रह्मोवाच- पतिव्रताया यद्वृत्तं मांडव्यस्य मुनेश्च यत्। यथा नोदयते ब्रध्नो धाता देवेष्ववेदयत्
ततो देवा विमानैश्च पुरस्कृत्य प्रजापतिम्। गतास्तदंतिकं विप्र तूर्णं सर्वे च भूतलम्
तेषां श्रिया विमानानां मुनीनां किरणैस्तथा। शतसूर्यमिवाभाति नान्यत्र च गृहोदरे
हा हतास्मि कथं सूरो मद्गृहे समुपस्थितः। अदृश्यंत तया देवा विमानैर्हंससन्निभैः
एतस्मिन्नंतरे ब्रह्मा तामुवाच पतिव्रताम्। अखिलानां च देवानां द्विजानां च गवां तथा
यथैव निधनं तेषां कथं ते परिरोचते। मातः क्रोधं त्यजस्वाद्य सूर्यस्योदयनं प्रति
पतिव्रतोवाच- सर्वलोकानतिक्रम्य पतिरेको गुरुर्मम। अस्य मृत्युर्मुनेश्शापादुदिते च विरोचने
तेनैव कारणेनैष मया शप्तो दिवाकरः। न कोपान्न च मोहाच्च लोभात्कामान्न मत्सरात्
ब्रह्मोवाच- एकस्य निधनेनैव त्रैलोक्यस्य हितं भवेत्। ततस्ते चाधिकं पुण्यं मातरेवं भविष्यति
सा चोवाच विधिं तत्र देवानामग्रतः सती। पतिं त्यक्त्वा च मे सत्यं शिवं मे नानुरोचते
ब्रह्मोवाच- उदिते च खगे सौम्ये पत्यौ ते भस्मतां गते। स्वस्थेभूते च त्रैलोक्ये करिष्यामि हितं तव
भस्मनः पुरुषो भाव्यः कामदेवसमप्रभः। गुणैः सर्वैर्युतो भर्ता रतिवत्त्वं च सर्वदा
यथापूज्यो हरिर्दैवैर्यथा लक्ष्मीश्च पूजिता। तथैव दंपती स्वर्गे तस्मान्मद्वचनं कुरु
पतिव्रतोवाच- पत्युर्मे निधने ब्रह्मन्विधवा लोकनिंदिता। कांस्तु लोकान्गमिष्यामि भग्ना चारामलीमसा
ब्रह्मोवाच- अतस्ते नास्ति दोषो वै न मृतस्ते धवोऽधुना। अस्माकं वचनेनैव कुष्ठी मन्मथतां व्रजेत्
वदत्येवंविधौ सा च विमृश्य क्षणमेव च। बाढमुक्तवती सा च ततस्सूर्योदयोऽभवत्
अभवद्भस्मरूपोऽसौ मुनिशापप्रपीडितः। भस्मनो मध्यतो जातो द्विजो मन्मथपीडितः
दृष्ट्वा विस्मयपमापन्नाः सर्वे ते पुरवासिनः। मुदिता देवसंघाश्च जनः स्वस्थतरोऽभवत्
विमानेनार्कवर्णेन स्वर्लोकादागतेन च। पतिना सह सा साध्वी सुरैः सार्द्धं गता दिवम्
एवं पतिव्रता यस्माच्छुभा चैव तु मत्समा। तेन वृत्तं च जानाति भूतं भव्यं प्रवर्तनम्
य इदं श्रावयेल्लोके पुण्याख्यानमनुत्तमम्। तस्य पापं क्षयं याति जन्मजन्मकृतं च यत्
अक्षयं लभते स्वर्गं विबुधैः संप्रयुज्यते। ब्राह्मणो लभते वेदं जन्मजन्मसु बाडव