अपृच्छत्कस्य कर्माणि शोभनानि च चत्वरे। मया नोक्तेप्युषः काले कस्य मत्प्रियकारणात्
रुच्यकर्मणि दीप्यंते रथ्या चत्त्वर वीथिकाः। परस्परेण संचिंत्य वारमुख्यां च तेऽब्रुवन्
अस्माभिर्न कृतं भद्रे कर्म चैतत्प्रमार्जनम्। अथ सा विस्मयं गत्वा संचिंत्य रजनीक्षये
तया च दृश्यते सा च तथैव पुनरागता। दृष्ट्वा तां महतीं साध्वीं ब्राह्मणीं च पतिव्रताम्
दधार चरणे तस्या हा क्षमस्वेति भाषिणी। आयुर्देहं च संपत्तिर्यशोर्थः कीर्तिरेव च
एतासां मे विनाशाय स्फुरसीव पतिव्रते। यद्यत्प्रार्थयसे साध्वि नित्यं दास्यामि तद्दृढम्
सुवर्णं मणिरत्नं वा चेलं वा यन्मनोरथं। तामुवाच ततः साध्वी न मे चार्थे प्रयोजनम्
अस्ति कार्यं च ते किञ्चिद्वदामि कुरुषे यदि। तदा मे हृदि संतोषः कृतं सर्वं त्वयाऽधुना
गणिकोवाच- सत्यं सत्यं करिष्यामि द्रुतं वद पतिव्रते। कुरु मे रक्षणं मातर्द्रुतं कृत्यं च मे वद
त्रपया निकृतं वाच्यं तस्यामुक्तं वरं प्रियम्। क्षणं विमृश्य सा वेश्या कृत्वा क्षांतिमुवाच च
कुष्ठिनः पूतिगंधस्य संपर्के दुःखिता भृशम्। दिनैकं च करिष्यामि यद्यागच्छति मद्गृहम्
पतिव्रतोवाच- आगमिष्यामि ते गेहमद्य रात्रौ च सुंदरि। भुक्तभोग्यं पतिं हृष्टं पुनर्नेष्यामि मद्गृहम्
गणिकोवाच- गच्छ शीघ्रं महाभागे स्वगृहं च पतिव्रते। पतिस्ते चार्द्धरात्रे स आगच्छतु च मद्गृहम्
बहवो मे प्रियास्संति राजानस्तत्समाश्च ये। एकैको मद्गृहे नित्यं तिष्ठतीह निरंतरम्
अद्याहं मे गृहं शून्यं करिष्यामि च त्वद्भयात्। स चागच्छतु ते भर्त्ता स चास्मान्प्राप्य गच्छतु
एतच्छ्रुत्वा तु सा साध्वी गतासौ स्वगृहे तथा। पत्यौ निवेदयामास कृत्यं ते फलितं प्रभो
अद्य रात्रौ च तद्गेहं गंतुं ख्यातिं करोति सा। प्रभूताः पतयस्तस्यास्तव कालो न विद्यते
विप्र उवाच- कथं यास्यामि तद्गेहं मया गंतुं न शक्यते। एतज्ज्ञात्वा कुतः क्षांतिः कृतं कार्यं कथं भवेत्
पतिव्रतोवाच- स्वपृष्ठस्थमहं कृत्वा नेष्यामि तद्गृहं प्रति। सिद्धे ह्यर्थे नयिष्यामि पुनस्ते नैव वर्त्मना
द्विज उवाच- कल्याणि त्वत्कृतेनैव सर्वं मे कृत्यमेष्यति। इदानीं यत्कृतं कर्म स्त्रीजनैरपि दुःसहम्
तस्मिंश्च नगरे रम्ये नित्यं च धनिनो गृहे। पौरेश्च प्रचुरं वित्तं हृतं राज्ञा श्रुतं तदा
श्रुत्वा सर्वान्निशाचारानाहूय नृपती रुषा। जीवितुं यदि वो वांछा चोरं मामद्य दास्यथ
गृहीत्वा तु नृपस्याज्ञां यत्तैर्जिघृक्षयाकुलैः। चारैश्चोरो गृहीतस्तैर्बलाच्चैव नृपाज्ञया५० 1.51.
नगरोपांतदेशे च वृक्षमूले घने वने। समाधिस्थोमहातेजामांडव्योमुनिपुंगवः
व्यातिष्ठद्वह्निसंकाशो योगिनां प्रवरो मुनिः। अंतर्नाडीगतो वायुः किंचिन्न प्रतिभाति च
तं ब्रह्मतुल्यं तिष्ठन्तं दृष्ट्वा दुष्टा महामुनिम्। चोरोयमद्भुताकारो धूर्तस्तिष्ठति कानने
एवमुक्त्वा तु तं पापा बबन्धुर्मुनिसत्तमम्। नोक्ताश्च नेक्षितास्तेन पुरुषा अतिदारुणाः
ततो राजा उवाचेदं संप्राप्तस्तस्करो मया। उपांते च पथिद्वारे कुरुध्वं घोरदण्डनम्
मांडव्यश्च मुनिस्तत्र पथिशूले च कीलितः। पायुदेशे च तैर्दत्तं शूलं यावच्च मस्तकम्
व्यथां स च न जानाति शूले विद्धतनुर्यमात्। अन्यैरपि कृतो दण्डः कृतस्तैस्तु मनोहितः