आदेशं कुरु मे नाथ कर्तव्यं येन केनचित्। यदि ते दुर्लभं कार्यं कर्तुं शक्नोमि यत्नतः
तदा मे त्वतिकल्याणं फलिष्यति परे त्विह। इत्युक्ते परमः प्रीतः स्थितो वचनमब्रवीत्
पापाभ्यासाच्च पाप्मानं पृच्छतीति विनिश्चयः। पथ्यस्मिन्संप्रगच्छंतीं वेश्यां परमसुंदरीम्
सर्वतश्चानवद्यांगीं दृष्ट्वा मे दह्यते मनः। यदि तां त्वत्प्रसादाच्च प्राप्नोमि नवयौवनां
तदा मे सफलं जन्म कुरु साध्वि हितं मम। यदि मां कुष्ठिनं दीनं पूतिगंधं नवव्रणम्
न गच्छति वरारोहा तदा मे निधनं हितम्। श्रुत्वा तेनेरितं वाक्यं साध्वी वचनमब्रवीत्
यथाशक्ति करिष्यामि स्थिरी भव प्रभोऽधुना। मनसाथ समालोच्य क्षपांते ह्युषसि द्रुतम्
गोमयं सह शोधन्या गृहीत्वा सा ययौ मुदा। संप्राप्य गणिकागेहं शोधयित्वा च चत्वरम्
प्रतोलीं वीथिकां चैव गोमयं प्रददौ मुदा। सा तूर्णमागता गेहे जनस्यालोकने भयात्
एवं क्रमेण सा साध्वी चरति स्म दिनत्रयम्। अथ सा वारमुख्या च चेटिकाश्चेटकानपि
अपृच्छत्कस्य कर्माणि शोभनानि च चत्वरे। मया नोक्तेप्युषः काले कस्य मत्प्रियकारणात्
रुच्यकर्मणि दीप्यंते रथ्या चत्त्वर वीथिकाः। परस्परेण संचिंत्य वारमुख्यां च तेऽब्रुवन्
अस्माभिर्न कृतं भद्रे कर्म चैतत्प्रमार्जनम्। अथ सा विस्मयं गत्वा संचिंत्य रजनीक्षये
तया च दृश्यते सा च तथैव पुनरागता। दृष्ट्वा तां महतीं साध्वीं ब्राह्मणीं च पतिव्रताम्
दधार चरणे तस्या हा क्षमस्वेति भाषिणी। आयुर्देहं च संपत्तिर्यशोर्थः कीर्तिरेव च
एतासां मे विनाशाय स्फुरसीव पतिव्रते। यद्यत्प्रार्थयसे साध्वि नित्यं दास्यामि तद्दृढम्
सुवर्णं मणिरत्नं वा चेलं वा यन्मनोरथं। तामुवाच ततः साध्वी न मे चार्थे प्रयोजनम्
अस्ति कार्यं च ते किञ्चिद्वदामि कुरुषे यदि। तदा मे हृदि संतोषः कृतं सर्वं त्वयाऽधुना
गणिकोवाच- सत्यं सत्यं करिष्यामि द्रुतं वद पतिव्रते। कुरु मे रक्षणं मातर्द्रुतं कृत्यं च मे वद
त्रपया निकृतं वाच्यं तस्यामुक्तं वरं प्रियम्। क्षणं विमृश्य सा वेश्या कृत्वा क्षांतिमुवाच च
कुष्ठिनः पूतिगंधस्य संपर्के दुःखिता भृशम्। दिनैकं च करिष्यामि यद्यागच्छति मद्गृहम्
पतिव्रतोवाच- आगमिष्यामि ते गेहमद्य रात्रौ च सुंदरि। भुक्तभोग्यं पतिं हृष्टं पुनर्नेष्यामि मद्गृहम्
गणिकोवाच- गच्छ शीघ्रं महाभागे स्वगृहं च पतिव्रते। पतिस्ते चार्द्धरात्रे स आगच्छतु च मद्गृहम्
बहवो मे प्रियास्संति राजानस्तत्समाश्च ये। एकैको मद्गृहे नित्यं तिष्ठतीह निरंतरम्
अद्याहं मे गृहं शून्यं करिष्यामि च त्वद्भयात्। स चागच्छतु ते भर्त्ता स चास्मान्प्राप्य गच्छतु
एतच्छ्रुत्वा तु सा साध्वी गतासौ स्वगृहे तथा। पत्यौ निवेदयामास कृत्यं ते फलितं प्रभो
अद्य रात्रौ च तद्गेहं गंतुं ख्यातिं करोति सा। प्रभूताः पतयस्तस्यास्तव कालो न विद्यते
विप्र उवाच- कथं यास्यामि तद्गेहं मया गंतुं न शक्यते। एतज्ज्ञात्वा कुतः क्षांतिः कृतं कार्यं कथं भवेत्
पतिव्रतोवाच- स्वपृष्ठस्थमहं कृत्वा नेष्यामि तद्गृहं प्रति। सिद्धे ह्यर्थे नयिष्यामि पुनस्ते नैव वर्त्मना
द्विज उवाच- कल्याणि त्वत्कृतेनैव सर्वं मे कृत्यमेष्यति। इदानीं यत्कृतं कर्म स्त्रीजनैरपि दुःसहम्