पितृयज्ञात्परो यस्माद्धर्मो नास्ति कथंचन। तस्मात्सर्वप्रयत्नेन शक्त्या कुर्यादमत्सरः
यः पठेद्धर्मसंतानं जनानामग्रतो नरः। विष्णुपद्या जले स्नानं प्रति लोके च लभ्यते
जन्मजन्मकृतो येन महापातकसंचयः। तत्सर्वं प्रलयं याति सकृदुच्चरिते श्रुते
नरोत्तम उवाच- त्रिदशानां च देवानामन्येषां जगदीश्वरः। प्रभुः कर्ता च हर्त्ता च गोप्ता भर्त्ता पिता प्रसूः
अस्माकं वाक्श्रमो विष्णोः कथनेनैव युज्यते। किंतु कौतूहलं मेऽस्ति पिपासा वा क्षुधापि वा
कृतं पृच्छति येनैव वक्तव्यं तत्प्रियेण हि। अतीतं चैव जानाति कथं नाथ पतिव्रता
किं वा तस्यां प्रभावं च वक्तुमर्हस्यशेषतः। भगवानुवाच- कथितं मे पुरा वत्स पुनः कौतूहलं द्विज
कथयिष्यामि तत्सर्वं यत्ते मनसि वर्तते। पतिव्रता पतिप्राणा सदा पत्युर्हिते रता
देवानामपि साऽऽराध्या मुनीनां ब्रह्मवादिनां। धवस्यैकस्य या नारी लोके पूज्यतमा स्मृता
तस्या संमानने गुर्वी निभृता न भविष्यति। मध्यदेशे पुरा तात नगरी चातिशोभना
तस्यां च ब्रह्मजातीया सेव्या नाम्नी पतिव्रता। तस्या धवोऽभवत्कुष्ठी पूर्वकर्मविरोधतः
गलद्व्रणास्य पत्युश्च नित्यं चर्यापरायणा। यद्यन्मनोरथं तस्य शक्त्या सा कुरुते भृशम्
अर्चयेद्देववन्नित्यं स्नेहं कुर्यादमत्सरा। कदाचित्पथि गच्छंतीं वेश्यां परमसुंदरीम्
दृष्ट्वाऽतीवाभवन्मोहान्मन्मथाविष्टचेतनः। निश्श्वस्य सुतरां दीर्घं ततस्तु विमनाऽभवत्
श्रुत्वा गृहाद्विनिःसृत्य साध्वी पप्रच्छ तं पतिं। उन्मनास्त्वं कथं नाथ निःश्वासस्ते कथं विभो
ब्रूहि मे यच्च कर्तव्यमकर्तव्यं च यत्प्रियम्। दयितं ते करिष्यामि त्वमेको मे गुरुः प्रियः
अभीष्टं वद मे नाथ यथाशक्ति करोम्यहम्। इत्युक्ते तामुवाचेदं वृथा किं भाषसे प्रिये
न शक्ता त्वं न चैवाहं मोघं वक्तुं न युज्यते। प्रष्टुं नाधिकरोषीति यथा दीर्घतरोः फलम्
भूमौ स्थित्वा तु खर्वात्मा समुद्धर्तुं प्रवांछति। तथा मे रमणी लोभान्मोहाद्यदभिवांछितम्
दंपत्योरपि दुःसाध्यमपयानं वदाम्यहम्। पतिव्रतोवाच- ज्ञात्वा तु त्वन्मनोवृत्तं शक्ताहं कार्यसाधने
आदेशं कुरु मे नाथ कर्तव्यं येन केनचित्। यदि ते दुर्लभं कार्यं कर्तुं शक्नोमि यत्नतः
तदा मे त्वतिकल्याणं फलिष्यति परे त्विह। इत्युक्ते परमः प्रीतः स्थितो वचनमब्रवीत्
पापाभ्यासाच्च पाप्मानं पृच्छतीति विनिश्चयः। पथ्यस्मिन्संप्रगच्छंतीं वेश्यां परमसुंदरीम्
सर्वतश्चानवद्यांगीं दृष्ट्वा मे दह्यते मनः। यदि तां त्वत्प्रसादाच्च प्राप्नोमि नवयौवनां
तदा मे सफलं जन्म कुरु साध्वि हितं मम। यदि मां कुष्ठिनं दीनं पूतिगंधं नवव्रणम्
न गच्छति वरारोहा तदा मे निधनं हितम्। श्रुत्वा तेनेरितं वाक्यं साध्वी वचनमब्रवीत्
यथाशक्ति करिष्यामि स्थिरी भव प्रभोऽधुना। मनसाथ समालोच्य क्षपांते ह्युषसि द्रुतम्
गोमयं सह शोधन्या गृहीत्वा सा ययौ मुदा। संप्राप्य गणिकागेहं शोधयित्वा च चत्वरम्
प्रतोलीं वीथिकां चैव गोमयं प्रददौ मुदा। सा तूर्णमागता गेहे जनस्यालोकने भयात्
एवं क्रमेण सा साध्वी चरति स्म दिनत्रयम्। अथ सा वारमुख्या च चेटिकाश्चेटकानपि