कुरुक्षेत्रे ततो वेदान्वेदांगानि समंततः। तपोबलाद्विदंति स्म वार्तां चामुत्र चेह च
त्रयो राजकुले जाता राजानो मदमोहिताः। ज्ञानलोपात्परं लोकं न जानंति हिताहितम्
ते च विप्राश्च संदेहादाहूय चेटकं स्वकम्। राज्ञो गच्छ स्वकार्पण्यात्पत्रं देहि च संभ्रमात्
सप्त व्याधा दशार्णेषु मृगाः कालंजरे गिरौ। चक्रवाकाः शरद्वीपे हंसाः सरसि मानसे
तेपि जाताः कुरुक्षेत्रे ब्राह्मणा वेदपारगाः। प्रस्थिता दूतमध्वानं यूयं किमवसीदथ
गृहीत्वा चेटको लेखं राज्ञस्तु समदर्शयत्। दृष्ट्वा लेखं तु राजानो राज्यं त्यक्त्वा ययुर्द्विजान्
श्रुत्वा वाक्यं ततस्तेषां गतास्ते च तपोधनाः। अचिरेणैव कालेन मोक्षं याताश्च तैस्सह
य इदं शृणुयाच्छ्राद्धे सप्तव्याधादिकं द्विज। अक्षयं चान्नपानं च पितॄणामुपतिष्ठति
द्विज उवाच-। वित्तहीनस्य विप्रस्य पितृकार्यं कथं भवेत्। तपस्विनो वनस्थस्य गृहस्थस्य च केशव
भगवानुवाच-। तृणकाष्ठार्जनं कृत्वा प्रार्थयित्वा वराटकम्। करोति पितृकार्याणि ततो लक्षगुणं भवेत् ३०० 1.50.
अकर्तव्यं शतं कृत्वा पितृश्राद्धं करोति यः। सर्वपापक्षयस्तस्य स्वर्गं याति च मानवः
सर्वाभावे पितृतिथौ गोभ्यो घासं ददाति यः। फलं च पिंडदानस्य संप्राप्नोत्यधिकं नरः
पुरा वैराटविषये रुरोदातीव दीनकः। पितृतिथौ स्वयं प्राप्ते सर्वाभावाच्च रोदिति
रुदित्वा सुचिरं सोपि पप्रच्छ कोविदं द्विजं। ब्रह्मन्पितृतिथावद्य किंस्वित्कृत्वा हितं भवेत्
वराटकश्च मे नास्ति धनं ब्रह्मविदांवर। उपदेशं च मे देहि येन धर्मे स्थितो ह्यहम्
द्विज उवाच-। गच्छ शीघ्रं वने तात मुहूर्ते कुतपेऽधुना। घासं पितरमुद्दिश्य गवे देहीति सत्वरम्
ततस्तस्योपदेशेन गृहीत्वा घासपूलकम्। गवे दत्वा यथाहृष्टः पुष्ट्यर्थं पितुरेव च
एतत्पुण्यप्रसादेन गतोसौ सुरमंदिरम्। स्वर्गं च सुचिरं भुक्त्वा उत्पन्नो धनिनां कुले
धनवान्स पुरा पुण्यात्पितृयज्ञस्य कारणात्। स ददाति पितुः पिंडं सर्वस्वेन धनेन च
तत्रैकजन्मनोभ्यासाद्गतोसौ विष्णुमंदिरम्। भुक्त्वानन्तसुखं तत्र सार्वभौमोभवन्नृपः
पितृयज्ञात्परो यस्माद्धर्मो नास्ति कथंचन। तस्मात्सर्वप्रयत्नेन शक्त्या कुर्यादमत्सरः
यः पठेद्धर्मसंतानं जनानामग्रतो नरः। विष्णुपद्या जले स्नानं प्रति लोके च लभ्यते
जन्मजन्मकृतो येन महापातकसंचयः। तत्सर्वं प्रलयं याति सकृदुच्चरिते श्रुते
नरोत्तम उवाच- त्रिदशानां च देवानामन्येषां जगदीश्वरः। प्रभुः कर्ता च हर्त्ता च गोप्ता भर्त्ता पिता प्रसूः
अस्माकं वाक्श्रमो विष्णोः कथनेनैव युज्यते। किंतु कौतूहलं मेऽस्ति पिपासा वा क्षुधापि वा
कृतं पृच्छति येनैव वक्तव्यं तत्प्रियेण हि। अतीतं चैव जानाति कथं नाथ पतिव्रता
किं वा तस्यां प्रभावं च वक्तुमर्हस्यशेषतः। भगवानुवाच- कथितं मे पुरा वत्स पुनः कौतूहलं द्विज
कथयिष्यामि तत्सर्वं यत्ते मनसि वर्तते। पतिव्रता पतिप्राणा सदा पत्युर्हिते रता
देवानामपि साऽऽराध्या मुनीनां ब्रह्मवादिनां। धवस्यैकस्य या नारी लोके पूज्यतमा स्मृता
तस्या संमानने गुर्वी निभृता न भविष्यति। मध्यदेशे पुरा तात नगरी चातिशोभना