त्रीणि चात्र प्रशंसंति सत्यमक्रोधमत्वराम्। सायं संध्यां परान्नं च पुनर्भोजनमैथुनम्
दानं प्रतिग्रहं चैव श्राद्धं कृत्वा विवर्जयेत्। अकर्तव्यशतं कृत्वा श्राद्धं कुर्याद्विचक्षणः
तच्च कर्तव्यतामेति स्वयमुक्तं विरिंचिना। शृणु पुत्र पुरावृत्तं बहूनां च वदाम्यहम्
गुरोर्गोहननं कृत्वा ददुः श्राद्धं ययुर्दिवम्। तेषां च कीर्त्तनादेव श्राद्धं भवति चाक्षयम्
वसिष्ठस्य मुनेः शिष्या ब्राह्मणास्सप्त सुव्रताः। पितृश्राद्धे समायाते होमधेनुं गुरोः प्रियाम्
प्रार्थयित्वा गृहं नीत्वा सप्तभिर्भ्रातृभिर्मुदा। गव्यार्थं पितृयज्ञे तां धेनुं हत्वा विमृश्य च
ददुर्मांसं च विप्रे च शेषं विप्रांस्त्वभोजयन्। समाप्य पितृकर्माणि वत्सं संगृह्यते द्विजाः
गुरौ समर्पयामासुर्धेनुर्व्याघ्रेण भक्षिता। ततस्तपोर्बलादेव ज्ञात्वा तेषां च कारणम्
स शशाप ततः शिष्यांश्चाडालाश्च भविष्यथ। वेपमानास्ततो विप्राः कृतांजलिपुटाः स्थिताः
धेनोर्मांसंप्रदातारः पितृकृत्ये सदानघ। अकर्तव्यसहस्राणि महांति पातकानि च
कुर्वंतः पितृकार्येषु पापात्पूता दिवं गताः। श्रुतं बहुविधं नाथ मुखात्ते च पुरातनम्
क्षंतुमर्हसि धर्मज्ञ शापस्यांतो विधीयताम्। वसिष्ठ उवाच-। शापो वोथ यथा पाप्मा न तु धर्मविचारणात्
चांडालादौ समुत्पन्नाः पुरावृत्तं स्मरिष्यथ। न च वो ज्ञानलोपश्च स्मृतिशास्त्रमनष्टकम्
पापयोनिं समुत्तीर्य पश्चान्मोक्षं गमिष्यथ। ततः प्राणान्परित्यज्य गुरुशापात्तु ते द्विजाः
जाताश्चांडालयोनौ तु सर्वे ज्ञानसमन्विताः। स्तन्यं तैस्तु न पीतं वै स्मरद्भिः पूर्वजन्म तत्
मृता जाता मृगाः सर्वे चक्रवाकाः पुनर्वने। हंसास्तु मानसे तीर्थे शुक्ला जाताः पुनर्द्विजाः
मुमूर्षवो महाभागा मृतास्ते खेदकारणात्। तस्मिन्काले महाराजो धर्मकेतुरिति स्मृतः
ययौ स्नातुं ततस्तीर्थं सदारः सपरिच्छदः। ततो हंसास्त्रयो मोहाद्राज्यं भोग्यं तु योषितः
भक्ष्याणि चिंतयंतश्च लोकांतरमयुस्तदा। ज्ञात्वा वेदं च वेदांगं मोक्षं यास्यामहे वयम्
चिंतयंतो गता अन्ये ततो लोकांतरं प्रति। अथ त्रयो नृपा जाताश्चत्वारो विप्रसत्तमाः
कुरुक्षेत्रे ततो वेदान्वेदांगानि समंततः। तपोबलाद्विदंति स्म वार्तां चामुत्र चेह च
त्रयो राजकुले जाता राजानो मदमोहिताः। ज्ञानलोपात्परं लोकं न जानंति हिताहितम्
ते च विप्राश्च संदेहादाहूय चेटकं स्वकम्। राज्ञो गच्छ स्वकार्पण्यात्पत्रं देहि च संभ्रमात्
सप्त व्याधा दशार्णेषु मृगाः कालंजरे गिरौ। चक्रवाकाः शरद्वीपे हंसाः सरसि मानसे
तेपि जाताः कुरुक्षेत्रे ब्राह्मणा वेदपारगाः। प्रस्थिता दूतमध्वानं यूयं किमवसीदथ
गृहीत्वा चेटको लेखं राज्ञस्तु समदर्शयत्। दृष्ट्वा लेखं तु राजानो राज्यं त्यक्त्वा ययुर्द्विजान्
श्रुत्वा वाक्यं ततस्तेषां गतास्ते च तपोधनाः। अचिरेणैव कालेन मोक्षं याताश्च तैस्सह
य इदं शृणुयाच्छ्राद्धे सप्तव्याधादिकं द्विज। अक्षयं चान्नपानं च पितॄणामुपतिष्ठति
द्विज उवाच-। वित्तहीनस्य विप्रस्य पितृकार्यं कथं भवेत्। तपस्विनो वनस्थस्य गृहस्थस्य च केशव
भगवानुवाच-। तृणकाष्ठार्जनं कृत्वा प्रार्थयित्वा वराटकम्। करोति पितृकार्याणि ततो लक्षगुणं भवेत् ३०० 1.50.