संस्कारश्च भवेद्यस्य मृतस्य परवासरे। षष्टिर्वर्षसहस्राणि कुंभीपाके प्रतिष्ठति
अस्पृश्यस्पर्शनादेव उच्छिष्टः पतितो मृतः। सुचिरं नरके स्थित्वा म्लेच्छजातिषु जायते
तथैव बहुकीटेषु जायते सत्त्वजातिषु। तस्मान्न चिरकालेषु जानीयात्पुण्यपातकम्
पुण्यात्पुण्यप्रयोगैश्च सर्वेषां मर्त्यवासिनाम्। मरणे या गतिः पुंसां गतिर्भवति तादृशी
पुण्यतीर्थे मृतो यस्तु विष्णोर्नामानि चिंतयन्। पापात्पूतो व्रजेत्स्वर्गं सर्वदोषैर्न लिप्यते
पितुर्मृतस्य देहं तु वहेद्यस्तु सुतो बली। पदेपदेश्वमेधस्य फलं प्राप्नोत्यसंशयम्
प्राक्चितौ च पितुर्देहे मुखाग्निं कारयेत्सुतः। विधिना मंत्रपूतेन पश्चाद्देहं दहेत्पुनः
लोभमोहसमायुक्तं पापपुण्यसमावृतम्। दहेयं सर्वगात्राणि दिव्यान्लोकान्स गच्छतु
दग्ध्वा च लंघयेत्पुत्रोप्यस्थिसंचयनं प्रति। दशाहे समनुप्राप्ते चार्द्रवस्त्रं परित्यजेत्
छित्वा च लोहितं चेलं वह्नौ चाथ जले क्षिपेत्। ततश्चैकादशाहे च श्राद्धं कुर्याद्विचक्षणः
प्रेतस्य देहपुष्ट्यर्थं ब्राह्मणैकं तु भोजयेत्। दानं दद्याच्च विधिवद्वस्त्रं पीठं च पादुकाम्
सर्वोपकरणैस्तुल्यं धरादिगजवाजिकम्। कृष्णां गां च प्रदद्यात्तु सर्वपापविमुक्तये
चतुर्थाहे त्रिपक्षे च षण्मासे चाब्दिके तथा। द्वादश प्रतिमास्यानि श्राद्धान्ये तानि षोडश
यस्यैतानि न संतीह यथाशक्ति च श्रद्धया। पिशाचत्वं स्थिरं तस्य दत्तैः श्राद्धशतैरपि
अब्दमंबुघटं दद्यादन्नं चामिषसंयुतं। नित्यानित्यमभावाच्च क्षपन्मासं क्षमापयेत्
सपिंडीकरणश्राद्धं गते संवत्सरे बुधः। पार्वणस्य विधानेन कारयेद्द्विजसत्तमः
पितुरब्दमशौचं स्यान्मातुः षण्मासमेव च। त्रिमासं तु स्त्रियश्चैव तदर्द्धं भ्रातृपुत्रयोः
सपिंडानामशौचं स्याद्यावद्गेहे स तिष्ठति। पुत्रस्य यन्निषिद्धं तु शृणु तात वदाम्यहम्
ब्रह्मचारी सदाचारी न गच्छेच्च स्त्रियं क्वचित्। सप्तघट्याः परं चैव नवघट्याश्च पूर्वतः
स कालः कुतपो ज्ञेयः पितॄणां दत्तमक्षयम्। श्राद्धे त्रीणि पवित्राणि दौहित्रं कुतपस्तिलाः
त्रीणि चात्र प्रशंसंति सत्यमक्रोधमत्वराम्। सायं संध्यां परान्नं च पुनर्भोजनमैथुनम्
दानं प्रतिग्रहं चैव श्राद्धं कृत्वा विवर्जयेत्। अकर्तव्यशतं कृत्वा श्राद्धं कुर्याद्विचक्षणः
तच्च कर्तव्यतामेति स्वयमुक्तं विरिंचिना। शृणु पुत्र पुरावृत्तं बहूनां च वदाम्यहम्
गुरोर्गोहननं कृत्वा ददुः श्राद्धं ययुर्दिवम्। तेषां च कीर्त्तनादेव श्राद्धं भवति चाक्षयम्
वसिष्ठस्य मुनेः शिष्या ब्राह्मणास्सप्त सुव्रताः। पितृश्राद्धे समायाते होमधेनुं गुरोः प्रियाम्
प्रार्थयित्वा गृहं नीत्वा सप्तभिर्भ्रातृभिर्मुदा। गव्यार्थं पितृयज्ञे तां धेनुं हत्वा विमृश्य च
ददुर्मांसं च विप्रे च शेषं विप्रांस्त्वभोजयन्। समाप्य पितृकर्माणि वत्सं संगृह्यते द्विजाः
गुरौ समर्पयामासुर्धेनुर्व्याघ्रेण भक्षिता। ततस्तपोर्बलादेव ज्ञात्वा तेषां च कारणम्
स शशाप ततः शिष्यांश्चाडालाश्च भविष्यथ। वेपमानास्ततो विप्राः कृतांजलिपुटाः स्थिताः
धेनोर्मांसंप्रदातारः पितृकृत्ये सदानघ। अकर्तव्यसहस्राणि महांति पातकानि च