गवां शतसहस्रस्य सम्यग्दत्तस्य यत्फलम्। तत्फलं जाह्नवीस्नाने राहुग्रस्ते निशाकरे
चंद्रसूर्यग्रहे चैव अवगाहति जाह्नवीं। स स्नातस्सर्वतीर्थेषु किमर्थमटते महीम्
सूर्यग्रहः सूर्यवारे सोमे सोमग्रहस्तथा। चूडामणिरिति ख्यातस्तत्रानंतफलं स्मृतम्
समुपोष्य तयोः पूर्वे पुण्यतीर्थे तु यः पुमान्। दत्वा पिंडोदकं दानं सत्यलोके प्रतिष्ठितः
द्विज उवाच-। पितुरेव महायज्ञः श्राद्धं च भवतेरितं। ताता पश्चिमकालादौ किं कर्त्तव्यं सुतेन हि
किं कृत्वा च परं श्रेयो जन्मजन्मसु लभ्यते। पुत्रेण धीमता देव यत्नतो वक्तुमर्हसि
श्रीभगवानुवाच-। पूर्वे वयसि संप्राप्ते पिता पुत्र इति स्मृतः। उत्तरे च सुतस्तातः पालनान्न तु पूजनात्
देववत्पूजयेत्तातं स्नेहं कुर्याच्च पुत्रवत्। न लंघयेद्वचस्तस्य मनसापि कदाचन
आतुरस्य पितुः पुत्रो यस्तु कुर्यात्प्रतिक्रियां। सोक्षयं लभते स्वर्गं सदा देवैः प्रपूज्यते
मुमूर्षोरपिता तस्य पश्यतो मृत्युलक्षणम्। कृत्वा च यजनं पुत्रो देवानां तुल्यतां व्रजेत्
विधिनानशने नैव पितुः स्वर्गं ददाति यः। पुत्रस्य तस्य धीरस्य शृणु वक्ष्यामि यद्गुणम्
अश्वमेधसहस्राणि राजसूयशतानि च। भवेदनशने पुण्यं तीर्थकोटिगुणं तयोः
भागीरथ्या जले चैव यो मृतः पुरुषोत्तमः। पयोधररसं मातुर्न पिबेन्मुक्ततां व्रजेत्
वाराणस्यां त्यजेद्यस्तु प्राणांश्चैव यदृच्छया। अभीष्टं च फलं भुक्त्वा मद्देहे प्रविलीयते
या गतिर्योगयुक्तानां मुनीनामूर्द्ध्वरेतसां। सा गतिस्त्यजतः प्राणान्ब्रह्मपुत्रेषु सप्तसु
लोहितस्य विशेषेण तीरोत्तरसमाश्रितः। विधिना यस्त्यजेत्प्राणान्स च मत्समतां व्रजेत्
तस्यैव चोर्वशीकेशे पुण्यतीर्थे द्विजोत्तम। मृतोत्पन्नः समाप्नोति सर्वं दोषैर्न लिप्यते
गृहस्याभ्यंतरे यस्य प्राणत्यागो भवेद्ध्रुवम्। यावद्ग्रंथिर्गृहे तिष्ठेत्तावद्बंधो भवे तनौ
हायनेहायने चापि एकैकं परिहीयते। पश्यतां पुत्रबंधूनां वंधने नास्ति निष्कृतिः
पर्वते कानने दुर्गे स्थाने वा जलवर्जिते। मृतो दुर्गतिमाप्नोति कीटादौ जायते पुनः २५० 1.50.
संस्कारश्च भवेद्यस्य मृतस्य परवासरे। षष्टिर्वर्षसहस्राणि कुंभीपाके प्रतिष्ठति
अस्पृश्यस्पर्शनादेव उच्छिष्टः पतितो मृतः। सुचिरं नरके स्थित्वा म्लेच्छजातिषु जायते
तथैव बहुकीटेषु जायते सत्त्वजातिषु। तस्मान्न चिरकालेषु जानीयात्पुण्यपातकम्
पुण्यात्पुण्यप्रयोगैश्च सर्वेषां मर्त्यवासिनाम्। मरणे या गतिः पुंसां गतिर्भवति तादृशी
पुण्यतीर्थे मृतो यस्तु विष्णोर्नामानि चिंतयन्। पापात्पूतो व्रजेत्स्वर्गं सर्वदोषैर्न लिप्यते
पितुर्मृतस्य देहं तु वहेद्यस्तु सुतो बली। पदेपदेश्वमेधस्य फलं प्राप्नोत्यसंशयम्
प्राक्चितौ च पितुर्देहे मुखाग्निं कारयेत्सुतः। विधिना मंत्रपूतेन पश्चाद्देहं दहेत्पुनः
लोभमोहसमायुक्तं पापपुण्यसमावृतम्। दहेयं सर्वगात्राणि दिव्यान्लोकान्स गच्छतु
दग्ध्वा च लंघयेत्पुत्रोप्यस्थिसंचयनं प्रति। दशाहे समनुप्राप्ते चार्द्रवस्त्रं परित्यजेत्
छित्वा च लोहितं चेलं वह्नौ चाथ जले क्षिपेत्। ततश्चैकादशाहे च श्राद्धं कुर्याद्विचक्षणः