श्रीभगवानुवाच-। दिनैकं मासपक्षौ वा पक्षार्धं वाथ वत्सरं। पित्रोर्भक्तिः कृता येन स च गच्छेन्ममालयं
कारयित्वा मनः कष्टमवश्यं नरकं व्रजेत्। न कृता वाकृता वा स्यात्पित्रोरर्चा परं पुरा
वृषोत्सर्गं नरः कृत्वा पितृभक्ति फलं लभेत्। अन्नं वस्त्रं तथा गव्यं सामिषं च निरामिषम्
सर्वं लक्षगुणं प्रोक्तं ज्ञातिभ्यो यत्प्रदीयते। सर्वस्वेन कृतं श्राद्धं येन पुत्रेण धीमता
जातिस्मरत्वं प्राप्नोति पितृभक्तिफलं लभेत्। श्राद्धात्परो महायज्ञस्त्रैलोक्ये तु न विद्यते
अत्र यद्दीयते किंचित्सर्वं चाक्षयमश्नुते। अन्यस्मिंश्चायुतं विद्धि ज्ञातिभ्यो लक्षमुच्यते
पिण्डे कोटिगुणं प्रोक्तं द्विजायानन्तमुच्यते। गंगाजले गयायां च प्रयागे पुष्करे तथा
वाराणस्यां सिद्धकुंडे गंगासागर संगमे। अन्नपिंडं प्रदद्याद्यस्तस्य मुक्तिर्भवेद्ध्रुवम्
पितरश्चाक्षयं स्वर्गं लभंते जन्मनः फलम्। भागीरथ्यां विशेषेण यस्तु दद्यात्तिलोदकम्
मुक्तिमार्गं स चाप्नोति पिंडदाने तु किं पुनः। नदीतीरेषु साहस्रं नदे त्वयुतमिष्यते
सामान्यफलसंसर्गाच्छ्राद्धं शतगुणं भवेत्। अमायां च युगाद्यायां ग्रहणे सूर्यचंद्रयोः
पार्वणं कुरुते यस्तु सोक्षयं लोकमश्नुते। पितरस्तस्य तुष्यंति सर्वे समायुतं प्रति
आशिषं दयितं दत्वा भोग्यं चानंतमात्मजे। ततः पर्वणि पुत्रैश्च कर्त्तव्यं पार्वणं मुदा
पित्रोर्यज्ञमिमं कृत्वा मुच्यते जन्मबंधनात्। अहन्यहनि यच्छ्राद्धं नित्यश्राद्धमिति स्मृतम्
श्रद्धया कारयेद्यस्तु सोऽक्षयं लोकमश्नुते। तथैवापरपक्षे च काम्यश्राद्धं विधानतः
कृत्वा कामं स चाप्नोति यद्वा मनसि वर्तते। आषाढीमवधिं कृत्वा यस्तु पक्षस्तु पंचमः
तत्र श्राद्धं प्रकुर्वीत कन्यां गच्छतु वा न वा। कन्यां गते सवितरि यान्यहानि तु षोडश
क्रतुभिस्तानि तुल्यानि समाप्त वरदक्षिणैः। काम्यश्राद्धं महापुण्यमिदं तस्यागतं शिवम्
अभावात्कृष्णपक्षादौ तुलायां कर्तुमर्हति। अमावृश्चिकमायाति नैराश्यं पितरो गताः
पुनःस्वभवनं यांति शापं दत्वा सुदारुणम्। पितृशापेन पुत्रस्य नष्टं सर्वमिति स्मृतम्
धनं पुत्रा यशः काम्यमभीष्टमायुरेव च। सर्वाण्येतानि लभ्यंते जन्मजन्मसु मानवैः
पितॄणां च वरेणैव तस्मान्मैनं परित्यजेत्। विवाहव्रतयज्ञादौ कृत्वा नांदीमुखं द्विजः
अक्षयं लभते पुण्यं गोत्रं तस्य प्रवर्द्धते। एतद्विपर्ययो यस्य स याति नरकं नरः
कुलक्षयो भवेत्तस्य स जीवो दुःखितो भवेत्। ततस्तु पूजयेदग्रे गणेशं शंभुनंदनम्
परं षोडशमातॄश्च तत्पश्चात्पितृसंचयम्। नांदीमुखेषु सर्वेषु प्रपितामहपूर्वकम्
नांदीमुखे द्विजान्सर्वान्स्थापयेत्प्राङ्मुखान्सुधीः। उच्चारयेन्नमोवाक्यं स्वधा चान्यत्र योजयेत्
ग्रहणे चंद्रसूर्यस्य दत्वा पिंडोदकं नरः। अक्षयं लभते स्वर्गं पितॄणां पुष्टिवर्द्धनम्
तत्र स्नानं न कुर्याद्यः शक्त्या पिंडोदकं नरः। न ददाति पितॄणां तु चांडालत्वं स गच्छति
सर्वं भूमिसमं दानं सर्वे व्याससमा द्विजाः। सर्वं गंगासमं तोयं राहुग्रस्ते निशाकरे
इंदोर्लक्षगुणं प्रोक्तं दशलक्षं तु भास्करे। गंगातोये तु संप्राप्त इंदोः कोटी रवेर्दश