पुण्यत्वाच्च त्वया दृष्टो ममानुग्रहकारणात्। पित्रोर्भक्तिपरः शुद्धश्चांडालो देवतां गतः
तस्मात्तेन सह प्रीत्या तिष्ठामि तस्य मंदिरे। पुनः पुनः कथालापं करोमि द्विजनंदन
तस्य वै मानसे नित्यं वर्तेऽहतभावनः। स तज्जानाति त्वद्वृत्तं तथा पतिव्रतादयः
तेषां वृत्तं वदिष्यामि शृणु त्वं चानुपूर्वशः। यच्छ्रुत्वा सर्वथा मर्त्यो मुच्यते जन्मबंधनात्
पितुर्मातुः परं तीर्थं देवदेवेषु नैव हि। पित्रोरर्चा कृता येन स एव पुरुषोत्तमः
पित्रोराज्ञा च देवस्य गुरोराज्ञा समं फलं। आराधनाद्दिवो राज्यं बाधया रौरवं व्रजेत्
स चास्माकं हृदिस्थोऽपि तस्याहं हृदये स्थितः। आवयोरंतरं नास्ति परत्रेह च मत्समः
मदग्रे मत्पुरे रम्ये सर्वैश्च बांधवैः सह। सभुंजीताक्षयं भोगमंते मयि च लीयते
अतएव हि मूकोसौ वार्त्तां त्रैलोक्यसंभवाम्। जानाति नरशार्दूल एष ते विस्मयः कुतः
द्विज उवाच-। मोहादज्ञानतो वापि न कृत्वा पितुरर्चनं। ज्ञात्वा वा किं च कर्तव्यं सदसज्जगदीश्वर२०० 1.50.
श्रीभगवानुवाच-। दिनैकं मासपक्षौ वा पक्षार्धं वाथ वत्सरं। पित्रोर्भक्तिः कृता येन स च गच्छेन्ममालयं
कारयित्वा मनः कष्टमवश्यं नरकं व्रजेत्। न कृता वाकृता वा स्यात्पित्रोरर्चा परं पुरा
वृषोत्सर्गं नरः कृत्वा पितृभक्ति फलं लभेत्। अन्नं वस्त्रं तथा गव्यं सामिषं च निरामिषम्
सर्वं लक्षगुणं प्रोक्तं ज्ञातिभ्यो यत्प्रदीयते। सर्वस्वेन कृतं श्राद्धं येन पुत्रेण धीमता
जातिस्मरत्वं प्राप्नोति पितृभक्तिफलं लभेत्। श्राद्धात्परो महायज्ञस्त्रैलोक्ये तु न विद्यते
अत्र यद्दीयते किंचित्सर्वं चाक्षयमश्नुते। अन्यस्मिंश्चायुतं विद्धि ज्ञातिभ्यो लक्षमुच्यते
पिण्डे कोटिगुणं प्रोक्तं द्विजायानन्तमुच्यते। गंगाजले गयायां च प्रयागे पुष्करे तथा
वाराणस्यां सिद्धकुंडे गंगासागर संगमे। अन्नपिंडं प्रदद्याद्यस्तस्य मुक्तिर्भवेद्ध्रुवम्
पितरश्चाक्षयं स्वर्गं लभंते जन्मनः फलम्। भागीरथ्यां विशेषेण यस्तु दद्यात्तिलोदकम्
मुक्तिमार्गं स चाप्नोति पिंडदाने तु किं पुनः। नदीतीरेषु साहस्रं नदे त्वयुतमिष्यते
सामान्यफलसंसर्गाच्छ्राद्धं शतगुणं भवेत्। अमायां च युगाद्यायां ग्रहणे सूर्यचंद्रयोः
पार्वणं कुरुते यस्तु सोक्षयं लोकमश्नुते। पितरस्तस्य तुष्यंति सर्वे समायुतं प्रति
आशिषं दयितं दत्वा भोग्यं चानंतमात्मजे। ततः पर्वणि पुत्रैश्च कर्त्तव्यं पार्वणं मुदा
पित्रोर्यज्ञमिमं कृत्वा मुच्यते जन्मबंधनात्। अहन्यहनि यच्छ्राद्धं नित्यश्राद्धमिति स्मृतम्
श्रद्धया कारयेद्यस्तु सोऽक्षयं लोकमश्नुते। तथैवापरपक्षे च काम्यश्राद्धं विधानतः
कृत्वा कामं स चाप्नोति यद्वा मनसि वर्तते। आषाढीमवधिं कृत्वा यस्तु पक्षस्तु पंचमः
तत्र श्राद्धं प्रकुर्वीत कन्यां गच्छतु वा न वा। कन्यां गते सवितरि यान्यहानि तु षोडश
क्रतुभिस्तानि तुल्यानि समाप्त वरदक्षिणैः। काम्यश्राद्धं महापुण्यमिदं तस्यागतं शिवम्
अभावात्कृष्णपक्षादौ तुलायां कर्तुमर्हति। अमावृश्चिकमायाति नैराश्यं पितरो गताः
पुनःस्वभवनं यांति शापं दत्वा सुदारुणम्। पितृशापेन पुत्रस्य नष्टं सर्वमिति स्मृतम्