अत्यंतघोषणो नृत्यगीतवाद्यादिकैस्सदा। नामस्मरन्द्विजश्रेष्ठ मद्देहे प्रविलीयते
मद्भक्तस्तीर्थभूतश्च त्वमेव बकमारणात्। यत्पापं तस्य मोक्षाय सखे स्थित्वा उवाच ह
गच्छ मूकं महात्मानं तीर्थं पुण्यवतां वरम्। मूकस्य दर्शनात्तात सर्वे दृष्टा महाजनाः
तेषां च दर्शनादेव तथा संभाषणान्मम। ममसंपर्कभावाच्च मद्गृहं चागतो भवान्
जन्मकोटिसहस्रेभ्यो यस्य पापक्षयो भवेत्। स मां पश्यति धर्मज्ञो यथा तेन प्रसन्नता
ममैवानुग्रहाद्वत्सअहंदृष्टस्त्वयानघ। तस्माद्वरं गृहाण त्वं यत्ते मनसि वर्तते
विप्र उवाच-। अस्माकं सर्वथा नाथ मानसं त्वयि तिष्ठतु। त्वदृते सर्वलोकेश कदाचिन्न तु रोचताम्
माधव उवाच-। यस्मादेतादृशी बुद्धिः स्फुरते ते सदानघ। तस्मान्मत्सदृशान्भोगान्मद्गेहे संप्रलप्स्यसे
किंतु ते पितरौ पूजामाप्नुतो न त्वयानघ। पूजयित्वा तु पितरौ पश्चाद्यास्यसि मत्तनुम्
तयोर्निश्श्वासवातेन मन्युना च भृशं पुनः। तपः क्षरति ते नित्यं तस्मात्पूजय तौ द्विज
मन्युर्निपतते यस्मिन्पुत्रे पित्रोश्च नित्यशः। तन्निरयं नाबाधेहं न धाता न च शंकरः
तस्मात्त्वं पितरौ गच्छ कुरु पूजां प्रयत्नतः। ततस्त्वं हितयोरेव प्रसादान्मत्पदं व्रज
इत्युक्ते तु द्विजश्रेष्ठः पुनराह जगद्गुरुम्। प्रसन्नो यदि मे नाथ रूपं स्वं दर्शयाच्युत
ततो द्विजप्रणयतः प्रसन्नहृदयो वशी। रूपं स्वं दर्शयामास ब्रह्मण्यो ब्रह्मकर्मणे
शंखचक्रगदापद्मधारणं पुरुषोत्तमम्। कारणं सर्वलोकस्य तेजसा पूरयज्जगत्
प्रणम्य दंडवद्विप्र उवाच पुनरच्युतम्। अद्य मे सफलं जन्म अद्य मे चक्षुषी शिवे
अद्य मे च करौ श्लाघ्यौ धन्योहं जगदीश्वर। अद्य मे पुरुषा यांति ब्रह्मलोकं सनातनम्
नंदंति बांधवा मेद्य त्वत्प्रसादाज्जनार्दन। इदानीं च प्रसिद्धा मे सर्वे चैव मनोरथाः
किंतु मे विस्मयो नाथ मूकादि ज्ञानिनो भृशम्। कथं जानंति मद्वृत्तं देशांतरमुपस्थितम्
तस्य गेहोदराकाशे स्थितो विप्रोतिशोभनः। तथा पतिव्रता गेहे तुलाधारशिरस्यपि
तथा मित्राद्रोहकस्य त्वं च वैष्णवमंदिरे। अनुग्रहाच्च मे विप्र तत्त्वतो वक्तुमर्हसि
श्रीभगवानुवाच-। पित्रोर्भक्तः सदा मूकः पतिव्रता शुभा च सा। सत्यवादी तुलाधारः समः सर्वजनेषु च
लोभकामजिदद्रोहो मद्भक्तो वैष्णवः स्मृतः। संप्रीतोहं गुणैरेषां तिष्ठाम्यावसथे मुदा
भारतीकमलाभ्यां च सहितो द्विजसत्तम। विप्र उवाच-। महापातकिसंसर्गान्नराश्चैवातिपातकाः
इति जल्पंति धर्मज्ञाः स्मृतिशास्त्रेषु सर्वदा। पुराणागमवेदेषु कथं त्वं तिष्ठसे गृहे
श्रीभगवानुवाच-। कल्याणानां च सर्वेषां कर्त्ता मूको जगत्त्रये। वृत्तस्थो योपि चाण्डालस्तं देवा ब्राह्मणं विदुः
मूकस्य सदृशो नास्ति लोकेषु पुण्यकर्मतः। पित्रोर्भक्तिपरे नित्यं जितं तेन जगत्त्रयम्
तयोर्भक्त्या त्वहं तुष्टः सर्वदेवगणैः सह। तिष्ठामि द्विजरूपेण तस्य गेहोदरे च खे
तथा पतिव्रता गेहे तुलाधारस्य मंदिरे। अद्रोहकस्य भवने वैष्णवस्य च वेश्मनि
सदा तिष्ठामि धर्मज्ञ मुहूर्तं न त्यजाम्यहम्। तेन पश्यंति मां नित्यं ये त्वन्ये पापकृज्जनाः