अपूजयन्सुपुष्पैश्च मुनयो विस्मयं गताः। सर्वैर्मुनिवरैरेवं मनुष्यैर्विविधैस्तदा
अर्च्यते तु महातेजाः स च सर्वानपूजयत्। सज्जनाद्रोहकं नाम कृतं देवासुरैर्नृभिः
तस्य पादरजः पूता सस्यपूर्णा धराभवत्। सुराश्चाहुश्च तं तत्र भार्या ते संप्रगृह्यताम्
एतस्य सदृशो लोके न भूतो न भविष्यति। नास्तीति सांप्रतं पृथ्व्यां कामलोभाजितः पुमान्
देवासुरमनुष्याणां रक्षसां मृगपक्षिणाम्। कीटादीनां च सर्वेषां काम एष सुदुर्जयः
कामाल्लोभात्तथाक्रोधान्नित्यं सत्त्वेषु जायते। संसारबंधकः कामो ह्यकामो न क्वचिद्भवेत्
अनेनैव जितं सर्वं भुवनानि चतुर्दश। अमुष्य हृदये नित्यं वासुदेवो मुदास्थितः
एवं स्पृष्ट्वाथ दृष्ट्वा तं मनुष्याः सर्वकल्मषात्। पूयंते ह्यनघाश्चैव लभंते चाक्षयां दिवम्
एवमुक्त्वा गता देवा विमानैश्च दिवं मुदा। मनुष्याः प्रययुस्तुष्टा दंपती स्वगृहं तथा
दिव्यं चक्षुस्तदा तस्य चासीद्देवान्स पश्यति। त्रैलोक्यस्य च वार्त्तां च जानाति लीलया भृशम्
ततस्तस्य च वीथ्यां च दृष्टस्तेन सहैव सः। स पप्रच्छ मुदा तं च धर्मोद्देशं हितं वद
सज्जनाद्रोह उवाच-। गच्छ बाडव धर्मज्ञ वैष्णवं पुरुषोत्तमम्। तं च दृष्ट्वा त्वभीष्टं ते सांप्रतं च फलिष्यति
बकस्य निधनं यद्वा वस्त्रस्याशोषणं तथा। जानीषे चापरो यश्च कामस्तेऽस्ति हृदिस्थितः
एतच्छ्रुत्वा तु वचनमागतो वैष्णवं प्रति। विष्णुरूपद्विजेनैव सार्द्धं तेन मुदा ययौ
अपश्यत्पुरुषं शुद्धं ज्वलंतं च पुरःस्थितम्। सर्वलक्षणसंपूर्णं दीप्यमानं स्वतेजसा
अब्रवीत्स च धर्मात्मा ध्यानस्थं च हरेः प्रियम्। वदनो यद्यद्वृत्तं वै दूरात्त्वां चागतो ह्यहम्
वैष्णव उवाच-। प्रसन्नस्ते सुरश्रेष्ठो दानवारीश्वरः सदा। दृष्ट्वा त्वां च मनोऽस्माकं हृष्यतीवाधुना द्विज
कल्याणं चातुलं तेद्य फलिष्यति मनोरथः। सुरवर्त्मनि ते नित्यं चेलं शुष्यति नान्यथा
दृष्ट्वा देवं सुरश्रेष्ठं मम गेहे हरिं स्थितम्। इत्युक्ते वैष्णवेनाथ स तु तं पुनब्रवीत्
क्वासौ विष्णुः स्थितो नित्यं दर्शयाद्य प्रसादतः। वैष्णव उवाच-। अस्मिन्देवगृहे रम्ये प्रविश्य परमेश्वरम्१५० 1.50.
तं दृष्ट्वा किल्बिषाद्धोरान्मुच्यसे जन्मबंधानत्। तस्य तद्वचनं श्रुत्वा प्रविश्य सदनं प्रति
अपश्यत्तं द्विजं विष्णुं तिष्ठंतं पद्मतल्पके। शिरसैव प्रवंद्याथ जग्राह चरणौ मुदा
प्रसादी भव देवेश न ज्ञातस्त्वं पुरा मया। इहामुत्र च देवेश तवाहं किंकरः प्रभो
अनुग्रहश्च मे दृष्टो भवतो मधुसूदन। रूपं ते द्रष्टुमिच्छामि यदि चास्ति कृपा मयि
विष्णुरुवाच-। अस्ति मे त्वयि भूदेव प्रियत्वं च सदैव हि। स्नेहात्पुण्यवतामेव दर्शनं कारितं मया
दर्शनात्स्पर्शनाद्ध्यानात्कीर्तनाद्भाषणात्तथा। सकृत्पुण्यवतामेव स्वर्गं चाक्षयमश्नुते
नित्यमेव तु संसर्गात्सर्वपापक्षयो भवेत्। भुक्त्वा सुखमनंत च मद्देहे प्रविलीयते
स्नात्वा च पुण्यतीर्थेषु दृष्ट्वा मां चैव सर्वतः। दृष्ट्वा पुण्यवतां देशान्मम देहे विलीयते
कथयित्वा कथां पुण्यां लोकानामग्रतः सदा। स चैव नरशार्दूल मद्देहे प्रविलीयते
उपोष्य वासरेस्माकं श्रुत्वा मच्चरितं ध्रुवम्। रात्रौ जागरणं कृत्वा मद्देहे प्रविलीयते