उक्तं च तादृशं वाक्यं श्रुत्वा स विस्मयंगतः। न तातस्ते न च भ्राता न चाहं तव बान्धवः
पितृमातृकुलस्यैव तस्या न हि सुहृज्जनः। कथं च मद्गृहे तात स्थित्या स्वस्थो भविष्यसि
एतस्मिन्नन्तरे तेन चोक्तं वाक्यं यथोचितम्। लोके त्वत्सदृशो नास्ति धर्मज्ञो विजितेन्द्रियः
स चाह तं च सर्वज्ञं वक्तुं नार्हसि दूषणम्। त्रैलोक्यमोहिनीं भार्यां कः पुमान्रक्षितुं क्षमः
राजपुत्र उवाच-। धरण्यां परिविज्ञाय त्वागतोहं तवान्तिकम्। एषा तिष्ठतु तेऽगारे व्रजामि निजमन्दिरम्
इत्युक्ते स पुनः प्राह नगरेऽस्मिन्प्रशोभने। बहुकामुक संपूर्णे कथं रक्षा भवेत्स्त्रियाः
स चोवाच पुनस्तं च कुरु रक्षां व्रजाम्यहम्। गृहस्थस्सङ्कटादाह धर्मस्य राजपुत्रकम्
करोम्यनुचितं कार्यं स्वदास्यमुचितं हितम्। सदा चैवेदृशी भार्या स्थातव्या मद्गृहे पितः
अरक्षारक्षणे देव वदाभीष्टं कुरु प्रियम्। मम तल्पे मया सार्धं शयानं भार्यया सह
मन्यसे दैवतं स्वं चेत्तिष्ठेन्नोचेत्तु गच्छतु। क्षणं विमृश्य तं प्राह राजपुत्रः पुनस्तदा
बाढमेतद्वचस्तात यथाभीष्टं तथा कुरु। ततो भार्यां जगादाथ अस्य वाक्याच्छिवाशिवम्
कर्तव्यं च न ते दोष आज्ञया मम सुंदरि। एतदुक्त्वा गतः सोपि भूपतेः शासनात्पितुः
अनंतरं क्षपायां च यदुक्तं च तथाकृतम्। योषितोर्मध्यगः सोपि नित्यं स्वपिति धार्मिकः
धर्मान्न चलते सोपि स्वभार्यापरभार्ययोः। संस्पर्शात्स्वस्त्रियश्चास्य कामाभिलषितं मनः
तस्याः संसर्गतश्चैव दुहितैव प्रमन्यते। स्तनौ तस्यास्तु पृष्ठे च लगन्तौ च पुनःपुनः
बालकस्येव पुत्रस्य स्तनौ मातुः समन्यते। तस्या अंगानि चांगेषु लगंति च पुनःपुनः
ततो मातुस्सुतस्येव सोमन्यत दिने दिने। तस्य योषासुसंसर्गो निवृत्तस्त्वभवत्ततः
एवं संवत्सरस्यार्द्धे तत्पतिश्चागतः पुरं। अपृच्छत्तं च लोकेषु तस्या वृत्तमथोदितम्
केचिद्भद्रं बोधयन्तो युवानोपि सुविस्मिताः। केचिदाहुस्त्वया दत्ता तया सार्द्धं स्वपित्यसौ
स्त्रीपुंसोरेकसंसर्गात्शांतता तु कथं भवेत्। तस्यां यस्याभिलाषोस्ति न पृष्टस्स वदेद्युवा
लोकानां कुश्रुतिर्वार्ता तेन पुण्यबलाच्छ्रुता। जनापवादमोक्षार्थं बुद्धिस्तस्याभवच्छुभा
दारूणि स्वयमाहृत्याजिज्वलत्स महानलम्। एतस्मिन्नंतरे तात राजपुत्रः प्रतापवान्
आगमत्तद्गृहं सद्यः सोपश्यत्तं च योषितम्। प्रोत्फुल्लवदनां नारीं प्रविषादगतं नरं
अनयोर्मानसं ज्ञात्वा राजपुत्रोवदद्वचः। किं न संभाषसे मां च मित्रकं चिरमागतम्
अब्रवीत्सोपि धर्मात्मा राजपुत्रमनष्टधीः। यत्कृतं दुष्करं कर्म मया त्वद्धितकारणात्
सर्वं व्यर्थमहं मन्ये जनानां च प्रवादतः। अद्य वह्निमहं यास्ये प्रपश्यंतु नरास्सुराः
इत्युक्त्वा स महाभागः प्रविवेश हुताशनम्। विशतस्तस्य वह्नौ न कुसुमं चिकुरालये
नांगमस्यानलोधाक्षीन्न च वस्त्रं न कुंतलम्। खे च देवा मुदा सर्वेसाधुसाध्विति चाब्रुवन्
अपतन्पुष्पवर्षाणि तस्य मूर्ध्नि समंततः। यैर्यैश्च दुष्कृतं वाक्यं गदितं तावुभौ प्रति
तेषां मुखे प्रजायंते कुष्ठानि विविधानि च। तत्रागत्य च देवाश्च वह्नेराकृष्यतं मुदा