स चोवाच मुदा विप्रं दृष्ट्वा तं तां सतीं च सः। देशांतरे च यद्वृत्तं तया च कथितं किल
कथं जानाति मद्वृत्तं चांडालोपि पतिव्रता। अतो मे विस्मयस्तात किमाश्चर्यं परं महत्
हरिउवाच-। ज्ञायते कारणं तात सर्वेषां भूतभावनैः। अतिपुण्यात्सदाचाराद्यतस्त्वं विस्मयं गतः
किमुक्तश्च तया त्वं च वद तत्सांप्रतं मुने। विप्र उवाच-। प्रष्टुं धर्मतुलाधारं सा च मां समुपादिशत्
हरिरुवाच-। आगच्छ मुनिशार्दूल अहं गच्छामि तं प्रति। गच्छंतं च हरिं प्राह तुलाधारः क्व तिष्ठति
हरिरुवाच-। जनानां निकरो यत्र बहुद्रव्यसुविक्रये। विक्रीणाति च क्रीणाति तुलाधारस्ततस्ततः
जनो यवान्रसं स्नेहं कूटमन्नस्य संचयं। सर्वं तस्य मुखादेव गृह्णाति च ददात्यपि
सत्यं त्यक्त्वानृतं किंचित्प्राणांते समुपस्थिते। नोक्तं नरवरश्रेष्ठस्तेनधर्मतुलाधरः
इत्युक्ते तु तमद्राक्षीद्विक्रीणंतं रसान्बहून्। मलपंकधरं मर्त्यं दंतकुड्मलपंकिलम्
तत्र वस्तुधनोत्थां च भाषंतं विविधां गिरम्। वृतं बहुविधैर्मर्त्यैः स्त्रीभिः पुंभिश्च सर्वतः
कथं कथमिति प्राह स तं मधुरया गिरा। धर्मस्य मे समुद्देशं वद प्राप्तोंऽतिकं हि ते
तुलाधार उवाच-। यावज्जनाः प्रतिष्ठंति ममैव सन्निधौ द्विज। तावन्मे स्वस्थता नास्ति यावच्च रात्रियामकः
तच्चोपदेशमादाय गच्छ धर्माकरं प्रति। बकस्य मरणे दोषं खे च वस्त्राविशोषणम्
सर्वं तत्र च जानीषे सज्जनाद्रोहकं व्रज। तत्र तस्योपदेशेन तव कामः फलिष्यति
इत्युक्त्वा तुलाधारः करोति क्रयविक्रयौ। तथा तात गमिष्यामि सज्जनाद्रोहकं प्रति
तुलाधारसमुद्देशान्न जानामि तदालयम्। हरिरुवाच-। एह्यागच्छ गमिष्यामि त्वया सार्द्धं च तद्गृहम्
अथ वर्त्मनि गच्छंतमुवाच ब्राह्मणो हरिं। विप्र उवाच-। तुलाधारे च न स्नानं न देवपितृतर्पणम्
मलदिग्धं च गात्रं तु सर्वं चेलमलक्षणम्। कथं जानाति मद्वृत्तं देशांतरसमुद्भवम्
अतो मे विस्मयस्तात सर्वं त्वं वद कारणम्। हरिरुवाच-। सत्येन समभावेन जितं तेन जगत्त्रयम्
तेनातृप्यंत पितरो देवा मुनिगणैः सह। भूतभव्य प्रवृत्तं च तेन जानाति धार्मिकः
नास्ति सत्यात्परो धर्मो नानृतात्पातकं परम्। विशेषे समभावस्य पुरुषस्यानघस्य च
अरौ मित्रेप्युदासीने मनो यस्य समं व्रजेत्। सर्वपापक्षयस्तस्य विष्णुसायुज्यतां व्रजेत्
एवं यो वर्तते नित्यं कुलकोटिं समुद्धरेत्। सत्यं दमः शमश्चैव धैर्यं स्थैर्यमलोभता
अनाश्चर्यमनालस्यं तस्मिन्सर्वं प्रतिष्ठितम्। तेन वै देवलोकस्य नरलोकस्य सर्वशः
वृत्तं जानाति धर्मज्ञस्तस्यदेहे स्थितो हरिः। लोके तस्य समो नास्ति समः सत्यार्जवेषु च
स च धर्ममयः साक्षात्तेनैव धारितं जगत्। द्विज उवाच-। ज्ञातं मे त्वत्प्रसादाच्च तुलाधारस्य कारणम्
अद्रोहकस्य यद्वृत्तं तद्ब्रूहि त्वं यदीच्छसि। हरिरुवाच-। पुरैव राजपुत्रस्य कुलस्त्रीनवयौवना
पत्नीव कामदेवस्य शचीव वासवस्य च। तस्य प्राणसमा भार्या सुन्दरी नाम सुन्दरी
अकस्मात्पार्थिवस्यैव कार्ये गन्तुं समुद्यतः। मनसालोचितं तेन प्राणेभ्योपि गरीयसीम्
कस्मिन्स्थाने स्थापयामि यतो रक्षा भवेद्ध्रुवम्। इत्यालोच्यैव सहसा त्वागतोस्य गृहं प्रति १०० 1.50.