मूक उवाच-। किं कुप्यसि वृथा विप्र न बकोहं तवाधुना। कोपस्सिद्ध्यति ते तावद्बकेनान्यत्र किंचन
गगने स्नानशाटी ते न शुष्यति न तिष्ठति। वचनं खात्ततः श्रुत्वा मद्गृहं चागतो भवान्
तिष्ठ तिष्ठ वदिष्यामि नोचेद्गच्छ पतिव्रतां। तां च दृष्ट्वा द्विजश्रेष्ठ दयितं ते फलिष्यति
ततस्तस्यगृहाद्विष्णुर्द्विजरूपधरो विभुः। विनिस्सृत्य द्विजं प्राह गेहं तस्याः प्रयाम्यहं
स विमृश्य द्विजश्रेष्ठस्तेन सार्धं चचाल ह। गच्छंतं तमुवाचेदं हरिं विप्रेति विस्मितः
किर्थं च त्वया विप्र चांडालस्य गृहोदरे। सदा संस्थीयते तात योषाजनवृते मुदा
हरिरुवाच-। इदानीं मानसं शुद्धं न भूतं भवतो ध्रुवम्। पतिव्रतादिकं दृष्ट्वा पश्चाज्ज्ञास्यसि मां किल
विप्र उवाच-। पतिव्रता च का तात किं वा तस्याश्श्रुतं महत्। येनाहं तत्र गच्छामि कारणं वद मे द्विज
हरिरुवाच-। नदीनां जाह्नवी श्रेष्ठा प्रमदानां पतिव्रता। मनुष्याणां प्रजापालो देवानां च जनार्दनः
पतिव्रता च या नारि पत्युर्नित्यं हिते रता। कुलद्वयस्य पुरुषानुद्धरेत्सा शतं शतं५० 1.50.
स्वर्गं भुनक्ति तावच्च यावदाभूतसंप्लवं। स्वर्गाद्भ्रष्टो भवेद्वास्याः सार्वभौमो नृपः पतिः
अस्यैव महिषी भूत्वा सुखं विंदेदनंतरं। पुनः पुनः स्वर्गराज्यं तस्य तस्या न संशयः
एवं जन्मशतं प्राप्य अंते मोक्षो भवेद्ध्रुवम्। विप्र उवाच-। पतिव्रता भवेत्कावा तस्याः किं वा च लक्षणं
ब्रूहि मे द्विजशार्दूल यथा जानामि तत्त्वतः। हरिरुवाच-। पुत्राच्छतगुणं स्नेहाद्राजानं च भयादथ
आराधयेत्पतिं शौरिं या पश्येत्सा पतिव्रता। कार्ये दासी रतौ वेश्या भोजने जननीसमा
विपत्सु मंत्रिणी भर्तुः सा च भार्या पतिव्रता। भर्तुराज्ञां न लंघेद्या मनो वाक्कायकर्मभिः
भुक्ते पत्यौ सदा चात्ति सा च भार्या पतिव्रता। यस्यां यस्यांतु शय्यायां पतिः स्वपिति यत्नतः
तत्र तत्र च साभर्तुरर्चां करोति नित्यशः। नैव मत्सरमायाति न कार्पण्यं न मानिनी
मानेऽमाने समानं च या पश्येत्सा पतिव्रता। सुवेषं या नरं दृष्ट्वा भ्रातरं पितरं सुतं
मन्यते च परं साध्वी सा च भार्या पतिव्रता। तां गच्छ द्विजशार्दूल वदकामं यथा तव
तस्य पत्न्योऽष्ट तिष्ठंति तन्मध्ये वरवर्णिनी। रूपयौवनसंपन्ना दयायुक्ता यशस्विनी
शुभा नामेति विख्याता गत्वा तां पृच्छ ते हितं। एवमुक्त्वा तु भगवांस्तत्रैवांतरधीयत
तस्यैवादृश्यतां दृष्ट्वा विस्मितोभूद्द्विजस्तदा। स च साध्वीगृहं गत्वा पप्रच्छाथ पतिव्रतां
अतिथेर्वचनंश्रुत्वागृहान्निःसृत्यसंभ्रमात्। दृष्ट्वा द्विजं सती तत्र द्वारदेशे स्थिताभवत्
तां च दृष्ट्वा द्विजश्रेष्ठ उवाच वचनं मुदा। प्रियं ममहितं ब्रूहि यथादृष्टं त्वमेव हि
पतिव्रतोवाच-। सांप्रतं पत्युरर्चास्ति न चास्माकं स्वतंत्रता। पश्चात्कार्यं करिष्यामि गृहाणातिथ्यमद्य वै
विप्र उवाच-। मम देहे क्षुधा नास्ति पिपासाद्य न च श्रमः। अभीष्टं वद कल्याणि नोचेच्छापं ददामि ते
तमुवाच तदा सापि न बकोहं द्विजोत्तम। गच्छ धर्मतुलाधारं पृच्छ तं ते हितं द्विज
इत्युक्त्वा सा महाभागा प्रययौ च गृहोदरम्। तत्रापश्यद्द्विजो विप्रं यथा चांडालवेश्मनि
विमृश्य विस्मयापन्नस्तेन सार्धं ययौ द्विजः। तिष्ठंतं च द्विजं तं च सोपश्यद्धृष्टमानसम्