सर्वतीर्थमयी माता सर्वदेवमयः पिता। मातरं पितरं चैव यस्तु कुर्यात्प्रदक्षिणम्
प्रदक्षिणीकृता तेन सप्तद्वीपा वसुंधरा। जानुनी च करौ यस्य पित्रोः प्रणमतः शिरः
निपतंति पृथिव्यां च सोक्षयं लभते दिवं। तयोश्चरणयोर्यावद्रजश्चिह्नानि मस्तके
प्रतीके च विलग्नानि तावत्पूतः सुतस्तयोः। पादारविंदसलिलं यः पित्रोः पिबते सुतः
तस्य पापक्षयं याति जन्मकोटिशतार्जितं। धन्योसौ मानवो लोके पूतोसौ सर्वकल्मषात्
विनायकत्वमाप्नोति जन्मनैकेन मानवः। पितरौ लंघयेद्यस्तु वचोभिः पुरुषाधमः
निरये च वसेत्तावद्यावदाभूतसंप्लवं। पित्रोरनर्चनं कृत्वा भुंक्ते यस्तु सुताधमः
क्रिमिकूपेथ नरके कल्पांतमुपतिष्ठति। रोगिणं चापि वृद्धं च पितरं वृत्तिकर्शितम्
विकलं नेत्रकर्णाभ्यां त्यक्त्वा गच्छेच्च रौरवम्। अंत्यजातिषु म्लेच्छेषु चांडालेष्वपि जायते
पित्रोरपोषणं कृत्वा सर्वपुण्यक्षयो भवेत्। नाराध्य पितरौ पुत्रस्तीर्थदेवान्भजन्नपि
तयोर्न फलमाप्नोति कीटवद्रमते महीम्। कथयामि पुरावृत्तं विप्राः शृणुत यत्नतः
यं श्रुत्वा न पुनर्मोहं प्रयास्यथ पुनर्भुवि। पुरासीच्च द्विजः कश्चिन्नरोत्तम इति स्मृतः
स्वपितरावनादृत्य गतोसौ तीर्थसेवया। ततः सर्वाणि तीर्थानि गच्छतो ब्राह्मणस्य च
आकाशे स्नानचेलानि प्रशुष्यंति दिने दिने। अहंकारोऽविशत्तस्य मानसे ब्राह्मणस्य च
मत्समो नास्ति वै कश्चित्पुण्यकर्मा महायशाः। इत्युक्ते चानने तस्य अहदच्च बकस्तदा
क्रोधाच्चैवेरितस्तस्य स शशाप द्विजो बकम्। पपात च बकः पृथ्व्यां स भस्मीभूतविग्रहः
भीर्द्विजेंद्रं महामोहः प्राविशच्चांतकर्मणि। ततः पापाच्च विप्रस्य चेलं खं च न गच्छति
विषादमगमत्सद्यस्ततः खं तमुवाच ह। गच्छ बाडव चांडालं मूकं परमधार्मिकम्
तत्र धर्मं च जानीषे क्षेमं ते तद्वचो भवेत्। खाच्च तद्वचनं श्रुत्वा गतोसौ मूकमंदिरम्
शुश्रूषंतं च पितरौ सर्वारंभान्ददर्श सः। ददतं शीतकाले च सम्यगुष्णं जलं तयोः
तैलतापनतांबूलं तथा तूलवतीं पटीम्। नित्याशनं च मिष्टान्नं दुग्धखंडं तथैव च
दापयंतं वसंते च मधुमालां सुगंधिकां। अन्यानि यानि भोग्यानि कृत्यानि विविधानि च
उष्णे चावीजयत्सोपि नित्यं च पितरावपि। ततस्तयोः प्रचर्यां च कृत्वा भुंक्तेथ सर्वदा
श्रमस्य वारणं कुर्यात्संतापस्य तथैव च। एभिः पुण्यैः स्थितो विष्णुस्तस्य गेहोदरे चिरम्
अंतरिक्षे च क्रीडंतमाधारस्तंभवर्जिते। तस्यापि भवने नित्यं स्थितं त्रिभुवनेश्वरं
विप्ररूपधरं कांतं नान्यैर्भूतं च सत्परम्। तेजोमयं महासत्वं शोभयंतं च मंदिरं
दृष्ट्वा विस्मयमापन्नो विप्रः प्रोवाच मूककम्। विप्र उवाच-। आसन्नं च ममागच्छ त्वयैवेच्छामि शाश्वतं
हितं मे सर्वलोकानां तत्वतो वक्तुमर्हसि। मूक उवाच-। पित्रोरर्चां करोम्यद्य कथमायामि तेंतिकं
अर्चयित्वा तु पितरौ कृत्यं ते करवाणि वै। तिष्ठ मे द्वारदेशे च आतिथ्यं ते करोम्यहम्
इत्युक्ते चैव चांडाले चुकोप ब्राह्मणस्तदा। ब्राह्मणं मां परित्यज्य किं कार्यमधिकं तव