अकृत्वा पादयोः पूजां नाचामेद्दक्षिणामुखः। उपवीतविहीनश्च नग्नको मुक्तकच्छकः
एकवस्त्रपिधानश्च आचांतो नैव शुध्यति। मध्यमाभिर्मुखं पूर्वं तिसृभिः समुपस्पृशेत्
अंगुष्ठदेशिनीभ्यां च नासां च तदनंतरम्। अंगुष्ठानामिकाभ्यां च चक्षुषी समुपस्पृशेत्
कनिष्ठांगुष्ठतश्श्रोत्रे नाभिमंगुष्ठकेन तु। तलेन हृदयं न्यस्य सर्वाभिर्मस्तकोपरि
बाहूचाग्रेण संस्पृश्य ततः शुद्धो भवेन्नरः। अनेनाचमनं कृत्वा मानवः प्रयतो भवेत्
सर्वपापैर्विनिर्मुक्तः स्वर्गं चाक्षयमश्नुते। प्राणस्त्रिपुटशृंग्या च व्यानोपानश्च मुद्रया
समानस्तु समस्ताभिरुदानस्तर्जनीं विना। नागः कूर्मश्च कृकरो देवदत्तो धनंजयः
उपप्रीणंतु ते प्रीता येभ्यो भूमौ प्रदीयते। शयनं चार्द्रपादेन शुष्कपादेन भोजनम्
नांधकारे च शयनं भोजनं नैव कारयेत्। पश्चिमे दक्षिणे चैव न कुर्याद्दंतधावनम्
उत्तरे पश्चिमे चैव न स्वपेद्धि कदाचन। स्वप्नादायुः क्षयं याति ब्रह्महा पुरुषो भवेत्
न कुर्वीत ततः स्वप्नं शस्तं च पूर्वदक्षिणम्। आयुष्यं प्राङ्मुखो भुंक्तेऽयशस्यं दक्षिणामुखः
श्रियं प्रत्यङ्मुखो भुंक्ते यशो भुङ्क्त उदङ्मुखः। प्राच्यां नरो लभेदायुर्याम्यां प्रेतत्वमश्नुते
वारुणे च भवेद्रोगी आयुर्वित्तं तथोत्तरे। देवानामेकभुक्तं तु द्विभुक्तं स्यान्नरस्य च
त्रिभुक्तं प्रेतदैत्यस्य चतुर्थं कौणपस्य तु। निरामिषं हविर्देवा मत्स्यमांसादि मानुषाः
पूतिपर्युषितं दुष्टमन्ये भुंजंत्यनावृताः। स्वर्गस्थितानामिह जीवलोके चत्वारि तेषां हृदये च संति
दानं प्रशस्तं मधुरा च वाणी देवार्चनं ब्राह्मणतर्पणं च। कार्पण्यवृत्तिस्वजनेषु निंदा कुचेलता नीचजनेषु भक्तिः
अतीव रोषः कटुका च वाणी नरस्य चिह्नं नरकागतस्य। नवनीतोपमा वाणी करुणा कोमलं मनः
धर्मबीजप्रसूतानामेतत्प्रत्यक्ष लक्षणम्। दयादरिद्रहृदयं वचः क्रकच कर्कशम्
पापबीजप्रसूतानामेतत्प्रत्यक्ष लक्षणम्। श्रावयेच्छृणुयाद्वापि सदाचारादिकं नरः
आचारादेः फलं लब्ध्वा पापात्पूतोऽच्युतो दिवि
भीष्म उवाच-। यत्पुण्यमधिकं लोके सर्वदा सर्वसंमतम्। तद्वदस्वेच्छया विप्र यत्कृतं पूर्वपूर्वकैः
पुलस्त्य उवाच-। एकदा तु द्विजाः सर्वे व्यासशिष्यास्सहादरात्। व्यासं प्रणम्य पप्रच्छु धर्मं मां च यथा भवान्
द्विजा ऊचुः-। पुण्यात्पुण्यतमं लोके सर्वधर्मेषु चोत्तमम्। किं कृत्वा मानवा स्वर्गं भुंजते चाक्षयं वद
लभ्यं चाकष्टकं शुद्धं वर्णानां मर्त्यवासिनाम्। गुरूणां च लघूनां च साध्यमेकं क्रतुं वद
यद्यत्कृत्वा च देवानां पूज्यो नाके भवेन्नरः। तत्तद्वद च नो ब्रह्मन्प्रसादी भव धर्मतः
व्यास उवाच-। पंचाख्यानं वदिष्यामि शृणुध्वं तत्र पूर्वतः। पंचानामेककं कृत्वा विंदेन्मोक्षं दिवं यशः
पित्रोरर्चाऽथ पत्युश्च साम्यं सर्वजनेषु च। मित्राद्रोहो विष्णुभक्तिरेते पंच महामखाः
प्राक्पित्रोरर्चया विप्रा यद्धर्मं साधयेन्नरः। न तत्क्रतुशतैरेव तीर्थयात्रादिभिर्भुवि
पिता धर्मः पिता स्वर्गः पिता हि परमं तपः। पितरि प्रीतिमापन्ने प्रीयंते सर्वदेवताः
पितरो यस्य तृप्यंति सेवया च गुणेन च। तस्य भागीरथी स्नानमहन्यहनि वर्तते