पृथुरुवाच। कृष्णवेण्यातटाद्यस्मात्शिवविष्णुगणैः पुरा । वणिक्शरीरात्कलहा निर्मिता कथिता त्वया
प्रभावोऽयं तयोर्नद्योः किंवा क्षेत्रस्य तस्य वा । तन्मे कथय धर्मज्ञ विस्मयोऽत्र महान्मम
नारद उवाच। कृष्णा कृष्णतनुः साक्षाद्वेण्या देवो महेश्वरः । तत्संगमप्रभावं तु नालं वक्तुं चतुर्मुखः
तथापि तत्समुत्पत्तिं कीर्तयिष्यामि तच्छृणु । चाक्षुषस्यांतरे पूर्वं मनोर्देवः पितामहः
सह्याद्रिशिखरे रम्ये यजनायोद्यतोऽभवत् । स कृत्वा यज्ञसंभारान्सर्वदेवगणैर्वृतः
युक्तो हरिहराभ्यां च तद्गिरेः शिखरं ययौ । भृग्वादयो मुनिगणा मुहूर्ते ब्रह्मदैवते
तस्य दीक्षाविधानाय समाजं तत्र चक्रिरे । अथ ज्येष्ठां स्वरां पत्नीं विष्णुराह्वयत द्विजैः
साशनैराययौ तावद्भृगुर्विष्णुमुवाच ह । भृगुरुवाच। विष्णो स्वरा त्वयाहूता आयाति न हि सत्वरा
मुहूर्त्तातिक्रमश्चायं कार्यो दीक्षाविधिः कथम् । विष्णुरुवाच। नायाति चेत्स्वरा शीघ्रं गायत्र्यत्र विधीयताम्
एषापि न भवत्यस्य भार्या किं पुण्यकर्मणि । नारद उवाच। एवमेव हि रुद्रोऽपि विष्णोर्वाक्यममोदत
तच्छ्रुत्वा स भृगुर्वाक्यं गायत्रीं ब्रह्मणस्तदा । निवेश्य दक्षिणे भागे दीक्षाविधिमथाकरोत्
यावद्दीक्षाविधिं तस्य विधेश्चक्रुर्विधानतः । तावदभ्याययौ तत्र स्वरा यज्ञस्थले नृप
ततस्तां दीक्षितां दृष्ट्वा गायत्रीं ब्रह्मणा सह । सपत्नीर्षापरा क्रोधात्स्वरा वचनमब्रवीत्
स्वरोवाच। अपूज्या यत्र पूज्यन्ते पूज्यानां च व्यतिक्रमः । त्रीणि तत्र भविष्यंति दुर्भिक्षं मरणं भयम्
ममासने कनिष्ठेयं भवद्भिः सन्निवेशिता । तस्मात्सर्वे जडीभूता नानारूपा भविष्यथ
इदं च दक्षिणेभागे ह्युपविष्टा मदासने । तस्माल्लोकैः सदाऽदृश्या तनुर्वहतु निम्नगा
नारद उवाच। ततस्तच्छापमाकर्ण्य गायत्री कंपिता तदा । समुत्थायाशपद्देवैर्वार्यमाणापि तां स्वराम्
तव भर्त्ता यथा ब्रह्मा ममाप्येष तथा खलु । वृथाशपस्त्वं यस्मान्मां भव त्वमपि निम्नगा
नारद उवाच। ततो हाहाकृताः सर्वे शिवविष्णुमुखाः सुराः । तदा लोकत्रयं ह्येतद्विनाशं यास्यति ध्रुवम्
देवा ऊचुः । देवि सर्वे वयं शप्ता ब्रह्माद्या यत्त्वयाधुना । यदि सर्वे जडीभूता भविष्यामोऽत्र निम्नगाः
तदा लोकत्रयं ह्येतद्विनाशं यास्यति ध्रुवम् । अविवेकः कृतस्तस्माच्छापोऽयं विनिवर्त्यताम्
स्वरोवाच। नार्चितो हि गणाध्यक्षो यज्ञादौ यत्सुरोत्तमाः । तस्माद्विघ्नं समुत्पन्नं मत्क्रोधजमिदं खलु
नापि मद्वचनं ह्येतदसत्यं जायते खलु । तस्मात्स्वांशैर्जडीभूता यूयं भवत निम्नगाः
आवामपि सपत्न्यौ च स्वांशाभ्यामपि निम्नगे । भविष्यावोऽत्र वै देवाः पश्चिमाभिमुखावहे
नारद उवाच। इति तद्वचनं श्रुत्वा ब्रह्मविष्णुमहेश्वराः । जडीभूताभवन्नद्यः स्वांशैरेव तदा नृप
तत्र विष्णुरभूत्कृष्ण वेण्या देवो महेश्वरः । ब्रह्मा ककुद्मिनीगंगा पृथगेवाभवत्तदा
देवा स्वानपितानंशान्जडीकृत्वा विचक्षणाः । सह्याद्रिशिखरेभ्यस्ताः पृथगासन्सुनिम्नगाः
देवांशैः पूर्ववाहिन्यो बभूवुः सरितां वराः । गायत्री च स्वरा चैव पश्चिमाभिमुखे तदा
योगेनाभवतां नद्यौ सावित्रीति प्रथां गते । ब्रह्मणा स्थापितौ तत्र यज्ञे हरिहरावुभौ
महाबलातिबलिनौ नाम्ना देवौ बभूवतुः । तयोर्नद्योस्तु माहात्म्यं नाहं वक्तुं क्षमो नृप । ययुर्ब्रह्मादयो देवाः स्वांशैस्तिष्ठंति चापगाः