न धारयेत्परस्यैवं स्नानवस्त्रं कदाचन। संस्कारं केशदंतानां प्रातरेव समाचरेत्
गुरूणां च नमस्कारं नित्यमेव समाचरेत्। हस्तपादे मुखे चैव पंचार्द्रो भोजनं चरेत्
पंचार्द्रकस्तु भुंजानः शतं वर्षाणि जीवति। देवतानां गुरोराज्ञां स्नातकाचार्ययोरपि
नाक्रामेत्कामतश्छायां विप्रस्य दीक्षितस्य च। गोगणं देवतं विप्रं घृतं मधु चतुष्पथम्
प्रदक्षिणं प्रकुर्वीत प्रख्यातांश्च वनस्पतीन्। गोविप्रावग्निविप्रौ च विप्रौ द्वौ दंपती तथा
तयोर्मध्ये न गच्छेत स्वर्गस्थोपि पतेद्ध्रुवम्। उच्छिष्टो न स्पृशेदग्निं ब्राह्मणं दैवतं गुरुम्
स्वशीर्षं पुष्पवृक्षं च यज्ञवृक्षमधार्मिकम्। त्रीणि तेजांसि नोच्छिष्ट उदीक्षेत कदाचन
सूर्याचंद्रमसावेवं नक्षत्राणि च सर्वशः। नेक्षेद्विप्रं गुरुं देवं राजानं यतिनां वरम्
योगिनं देवकर्माणं धर्माणां कथकं द्विजम्। नदीनां च प्रतीरे च पत्युश्च सरितां तथा
यज्ञवृक्षस्य मूले च उद्याने पुष्पवाटके। शरीरस्य मलत्यागं न कुर्याज्जीवने तथा
विप्रस्यायतने गोष्ठे रम्ये राजपथेषु च। न क्षौरं कारयेद्धीरः कुजस्याह्नि कदाचन
मलं न धारयेद्दंते नखं न वदने क्षिपेत्। तैलाभ्यंगं न कुर्वीत वासरे रविभौमयोः
स्वगात्रासनयोर्वाद्यं गुरोरेकासनादनम्। न हरेच्छ्रोत्रियस्वं च देवस्यापि गुरोरपि
राज्ञस्तपस्विनां चैव पंगोरंधस्य योषितः। पंथा देयो ब्राह्मणाय गोभ्यो राजभ्य एव च
रोगिणे भारतप्ताय गुर्विण्यै दुर्बलाय च। विवादं न च कुर्वीत नृप विप्र चिकित्सकैः
ब्राह्मणं गुरुपत्नीं च दूरतः परिवर्जयेत्। पतितं कुष्ठसंयुक्तं चांडालं च गवाशिनम् १०० 1.49.
निर्धूतं ज्ञानहीनं च दूरतः परिवर्जयेत्। स्त्रियं दुष्टां च दुर्वृत्तामपवाद प्रदायिनीम्
कुकर्मकारिणीं दुष्टां सदैव कलहप्रियाम्। प्रमत्तामधिकांगीञ्च निर्लज्जां बाह्यचारिणीम्
व्ययशीलामनाचारां दूरतः परिवर्जयेत्। मलिनां नाभिवंदेत गुरुपत्नीं कदाचन
न स्पृशेत्तां च मेधावी स्पृष्ट्वा स्नानेन शुद्ध्यति। स तया सह केलिं च वर्जयेच्च सदैव हि
शृणुयाच्च वचो नूनं न पश्येच्च गुरोः स्त्रियम्। वधूं पुत्रस्य भ्रातुश्च स्वपुत्रीं युवतीं ध्रुवम्
अन्यां च गुरुपत्नीं च नेक्षेत्स्पर्शं न कारयेत्। ताभिः सह कथालापं तथा भ्रूभंगदर्शनम्
कलहं निस्त्रपां वाणीं सदैव परिवर्जयेत्। न दद्याच्च सदा पादं तुषांगारास्थिभस्मसु
कार्पासास्थिषु निर्माल्ये चितिकाष्ठे चितौ गुरौ। शुष्कं मीनं न भक्षेत पूतिगंधिममेध्यकम्
विघसं चान्यदुच्छिष्टं पाकार्थं च परस्य च। न स्थातव्यं न गंतव्यं क्षणमप्यसता सह
न तिष्ठेच्च क्षणं धीरो दीपच्छाये कलिद्रुमे। अस्पृश्यैस्सह चालापं पतितैः कुपितैः सह
न कुर्यात्क्षणमात्रं तु कृत्वा गच्छेच्च रौरवम्। कनिष्ठं नाभिवंदेत पितृव्यं मातुलं तथा
उत्थाय चासनं दद्यात्कृतांजल्यग्रतः स्थितः। तैलाभ्यक्तं तथोच्छिष्टमार्द्रवस्त्रं च रोगिणम्
पारावारगतोद्विग्नं वहंतं नाभिवादयेत्। यज्ञस्यांतर्गतं नष्टं क्रीडंतं स्त्रीजनैः सह
बालक्रीडागतं चापि पुष्पयुक्तं कुशैर्युतम्। शिरः प्रावृत्य कर्णौ वा अप्सु मुक्तशिखोपि वा