आरोग्यार्थं च सूर्यं च धर्ममोक्षाय माधवम्। शिवं च कृत्यकामार्थं सर्वकामाय चंडिकाम्
देवांस्तु पूजयित्वा तु वैश्वदेवबलिं चरेत्। वह्निकार्यं ततः कृत्वा यज्ञं ब्राह्मणतर्पणम्
देवानां सर्वसत्वानां पुनस्त्रिविष्टपं व्रजेत्। गतागतं स्थिरं कृत्वा कामान्मोक्षं सुखं दिवम्
तस्मात्सर्वप्रयत्नेन नित्यं कर्माणि कारयेत्। नारद उवाच-। किमर्थं च जलं तात देवाः पितृगणैः सह
न प्राप्नुवंति सर्वज्ञ लभंते मानवा यथा। ब्रह्मोवाच। पुरा सृष्टं मया तोयं सर्वदेवमयामृतम्
तस्यैव रक्षणार्थं च रक्षा यक्षा धनुर्धराः। घ्नंति ते पितरं देवमस्मद्वाक्यान्न मानुषम्
पशवः पक्षिणः कीटा मर्त्यलोके व्यवस्थिताः। मर्त्यजाताश्च देवा ये तथैव मानुषा ध्रुवम्
तर्पयित्वा गुरुं नित्यं सुरलोके प्रतिष्ठिताः। अस्नायी च मलं भुंक्ते अजपी पूयशोणितम्
अकृत्वा तर्पणं नित्यं पितृहा चोपजायते। ब्रह्महत्यासमं पापं देवानामप्यपूजने
सन्ध्याकृत्यमकृत्वा च सूर्यं हंति च पापकृत्। नारद उवाच-। ब्राह्मणस्य सदाचारक्रमं ब्रूहि च कर्मणाम्
इतरेषां च वर्णानां प्रवृत्तमखिलं वद। ब्रह्मोवाच-। आचाराल्लभते चायुराचाराल्लभते सुखम्
आचारात्स्वर्गं मोक्षं च आचारो हंत्यलक्षणम्। अनाचारो हि पुरुषो लोके भवति निंदितः
दुःखभागी च सततं व्याधितोल्पायुरेव च। नरके नियतं वासो ह्यनाचारान्नरस्य च
आचाराच्च परं लोकमाचारं शृणु तत्त्वतः। गोमयेन गृहे नित्यं प्रकुर्यादुपलेपनम्
प्रक्षालयेत्ततः पीठं काष्ठं पात्रं शिलातलम्। भस्मना कांस्यपात्रं तु ताम्रमम्लेनशुद्ध्यति
शिलापात्रं तु तैलेन फालंगो वालकेन तु। स्वर्णरौप्यादिपात्रं तु जलमात्रेण शुध्यति
अग्निना लोहपात्रं तु पाकप्रक्षालनेन तु। खननाद्दाहनाच्चैव उपलेपन धावनात्
पर्जन्यवर्षणाच्चैव भूरमेध्या विशुध्यति। तैजस्सानां मणीनां च सर्वस्याश्ममयस्य च
भस्मभिर्मृत्तिकाभिश्च शुद्धिरुक्ता मया पुरा। शय्या भार्या शिशुर्वस्त्रमुपवीतं कमंडलुः
आत्मनः कथिताश्शुद्धा न परेषां कदाचन। न भुंजीतैकवस्त्रेण न स्नायादेकवाससा
न धारयेत्परस्यैवं स्नानवस्त्रं कदाचन। संस्कारं केशदंतानां प्रातरेव समाचरेत्
गुरूणां च नमस्कारं नित्यमेव समाचरेत्। हस्तपादे मुखे चैव पंचार्द्रो भोजनं चरेत्
पंचार्द्रकस्तु भुंजानः शतं वर्षाणि जीवति। देवतानां गुरोराज्ञां स्नातकाचार्ययोरपि
नाक्रामेत्कामतश्छायां विप्रस्य दीक्षितस्य च। गोगणं देवतं विप्रं घृतं मधु चतुष्पथम्
प्रदक्षिणं प्रकुर्वीत प्रख्यातांश्च वनस्पतीन्। गोविप्रावग्निविप्रौ च विप्रौ द्वौ दंपती तथा
तयोर्मध्ये न गच्छेत स्वर्गस्थोपि पतेद्ध्रुवम्। उच्छिष्टो न स्पृशेदग्निं ब्राह्मणं दैवतं गुरुम्
स्वशीर्षं पुष्पवृक्षं च यज्ञवृक्षमधार्मिकम्। त्रीणि तेजांसि नोच्छिष्ट उदीक्षेत कदाचन
सूर्याचंद्रमसावेवं नक्षत्राणि च सर्वशः। नेक्षेद्विप्रं गुरुं देवं राजानं यतिनां वरम्
योगिनं देवकर्माणं धर्माणां कथकं द्विजम्। नदीनां च प्रतीरे च पत्युश्च सरितां तथा
यज्ञवृक्षस्य मूले च उद्याने पुष्पवाटके। शरीरस्य मलत्यागं न कुर्याज्जीवने तथा