सर्वं च शतसाहस्रगुणं भवति नान्यथा। तथैवानामिकायां तु धृत्वा स्वर्णांगुलीं बुधः
तर्पयेत्पितृसंदोहं लक्षकोटिगुणं भवेत्। अंगुष्ठदेशिनी मध्ये सव्यहस्तस्य खड्गकम्
धृत्वानामिकया रत्नमंजलेरक्षयंफलं। स्नानार्थमभिगच्छंतं देवाः पितृगणैः सह
वायुभूतानुगच्छंति तृषार्ताः सलिलार्थिनः। निराशास्ते निवर्तंते वस्त्रनिष्पीडनेन च
तस्मान्न पीडयेद्वस्त्रमकृत्वा पितृतर्पणम्। तिस्रःकोट्योऽर्धकोटी च यानि लोमानि मानुषे
स्रवंति सर्वतीर्थानि तस्मान्न परिपीडयेत्। देवाः पिबंति शिरसि श्मश्रुतः पितरस्तथा
चक्षुषोरपि गंधर्वा अधस्तात्सर्वजंतवः। देवाः पितृगणाः सर्वे गंधर्वा जंतवस्तथा
स्नानमात्रेण तुष्यंति स्नानात्पापं न विद्यते। नित्यस्नानं च यः कुर्यात्स नरः पुरुषोत्तमः
सर्वपापैर्विनिर्मुक्तो नाकलोकेमहीयते। स्नानं तर्पणपर्यंतं देवा महर्षयो विदुः
अतः परं च देवानां पूजनं कारयेद्बुधः। गणेशं पूजयेद्यस्तु विघ्नस्तस्य न जायते
आरोग्यार्थं च सूर्यं च धर्ममोक्षाय माधवम्। शिवं च कृत्यकामार्थं सर्वकामाय चंडिकाम्
देवांस्तु पूजयित्वा तु वैश्वदेवबलिं चरेत्। वह्निकार्यं ततः कृत्वा यज्ञं ब्राह्मणतर्पणम्
देवानां सर्वसत्वानां पुनस्त्रिविष्टपं व्रजेत्। गतागतं स्थिरं कृत्वा कामान्मोक्षं सुखं दिवम्
तस्मात्सर्वप्रयत्नेन नित्यं कर्माणि कारयेत्। नारद उवाच-। किमर्थं च जलं तात देवाः पितृगणैः सह
न प्राप्नुवंति सर्वज्ञ लभंते मानवा यथा। ब्रह्मोवाच। पुरा सृष्टं मया तोयं सर्वदेवमयामृतम्
तस्यैव रक्षणार्थं च रक्षा यक्षा धनुर्धराः। घ्नंति ते पितरं देवमस्मद्वाक्यान्न मानुषम्
पशवः पक्षिणः कीटा मर्त्यलोके व्यवस्थिताः। मर्त्यजाताश्च देवा ये तथैव मानुषा ध्रुवम्
तर्पयित्वा गुरुं नित्यं सुरलोके प्रतिष्ठिताः। अस्नायी च मलं भुंक्ते अजपी पूयशोणितम्
अकृत्वा तर्पणं नित्यं पितृहा चोपजायते। ब्रह्महत्यासमं पापं देवानामप्यपूजने
सन्ध्याकृत्यमकृत्वा च सूर्यं हंति च पापकृत्। नारद उवाच-। ब्राह्मणस्य सदाचारक्रमं ब्रूहि च कर्मणाम्
इतरेषां च वर्णानां प्रवृत्तमखिलं वद। ब्रह्मोवाच-। आचाराल्लभते चायुराचाराल्लभते सुखम्
आचारात्स्वर्गं मोक्षं च आचारो हंत्यलक्षणम्। अनाचारो हि पुरुषो लोके भवति निंदितः
दुःखभागी च सततं व्याधितोल्पायुरेव च। नरके नियतं वासो ह्यनाचारान्नरस्य च
आचाराच्च परं लोकमाचारं शृणु तत्त्वतः। गोमयेन गृहे नित्यं प्रकुर्यादुपलेपनम्
प्रक्षालयेत्ततः पीठं काष्ठं पात्रं शिलातलम्। भस्मना कांस्यपात्रं तु ताम्रमम्लेनशुद्ध्यति
शिलापात्रं तु तैलेन फालंगो वालकेन तु। स्वर्णरौप्यादिपात्रं तु जलमात्रेण शुध्यति
अग्निना लोहपात्रं तु पाकप्रक्षालनेन तु। खननाद्दाहनाच्चैव उपलेपन धावनात्
पर्जन्यवर्षणाच्चैव भूरमेध्या विशुध्यति। तैजस्सानां मणीनां च सर्वस्याश्ममयस्य च
भस्मभिर्मृत्तिकाभिश्च शुद्धिरुक्ता मया पुरा। शय्या भार्या शिशुर्वस्त्रमुपवीतं कमंडलुः
आत्मनः कथिताश्शुद्धा न परेषां कदाचन। न भुंजीतैकवस्त्रेण न स्नायादेकवाससा