बल्वजाः पुंडरीकाश्च कुशास्सप्त प्रकीर्तिताः। आनुपूर्व्येण मेध्याः स्युः कुशा लोके प्रतिष्ठिताः
विना मंत्रेण यत्स्नानं सर्वं तन्निष्फलं भवेत्। अमृतात्स्वादुतामेति संस्पर्शाच्च तिलस्य च
तस्माच्च तर्पयेन्नित्यं पितॄंस्तिलजलैर्बुधः। दशभिश्च तिलैस्तावत्पितॄणां प्रीतिरुत्तमा
अग्निस्तंभभयाद्देवा न चेच्छन्त्यतिविस्तरम्। स्नात्वा यस्तर्पयेन्नित्यं तिलमिश्रोदकैः पितॄन्
नीलपंडविमोक्षेण त्वमावास्या तिलोदकैः। वर्षासु दीपदानेन पितॄणामनृणो भवेत्
वत्सरैकममायां तु तर्पयेद्यस्तिलैः पितृन्। विनायकत्वमाप्नोति सर्वदेवैः प्रपूज्यते
युगाद्यासु च सर्वासु यस्तिलैस्तर्पयेत्पितॄन्। उक्तं यद्वाप्यमायां तु तस्माच्छतगुणाधिकम्
अयने विषुवे चैव राकामायां तथैव च। तर्पयित्वा पितृव्यूहं स्वर्गलोके महीयते
तथा मन्वंतराख्यायामन्यस्यां पुण्यसंस्थितौ। ग्रहणे चंद्रसूर्यस्य पुण्यतीर्थे गयादिषु
तर्पयित्वा पितॄन्याति माधवस्य निकेतनम्। तस्मात्पुण्याहकं प्राप्य तर्पयेत्पितृसंचयम्
तर्पणं देवतानां च पूर्वं कृत्वा समाहितः। अधिकारी भवेत्पश्चात्पितॄणां तर्पणे बुधः
श्राद्धे भोजनकाले च पाणिनैकेन दापयेत्। उभाभ्यां तर्पणे दद्याद्विधिरेष सनातनः
दक्षिणाभिमुखो भूत्वा शुचिस्तु तर्पयेत्पितॄन्। तृप्यतामिति वाक्येन नामगोत्रेण वै पुनः
अकृष्णैर्यत्तिलैर्मोहात्तर्पयेत्पितृसंचयम्। भूम्यां ददाति यदपो दाता चैव जले स्थितः
वृथा तद्दीयते दानं नोपतिष्ठति कस्यचित्। स्थले स्थित्वा जले यस्तु प्रयच्छेदुदकं नरः
नोपतिष्ठेत्पितॄणां तु सलिलं तन्निरर्थकम्। आर्द्रवासा जले यस्तु कुर्यादुदकतर्पणम् ५० 1.49.
पितरस्तस्य तृप्यंति सहदेवैस्सदानघ। रजकैः क्षालितं वस्त्रमशुद्धं कवयो विदुः
हस्तप्रक्षालने चैव पुनर्वस्त्रं तु शुध्यति। शुष्कवासाः शुचौ देशे स्थाने यत्तर्पयेत्पितॄन्
ततो दशगुणेनैव तुष्यंति पितरो ध्रुवम्। स्नानं संध्यां च पाषाणे खड्गे वा ताम्रभाजने
तर्पणं कुरुते यस्तु प्रत्येकं च शताधिकम्। रौप्यांगुलीयं तर्जन्यां धृत्वा यत्तर्पयेत्पितॄन्
सर्वं च शतसाहस्रगुणं भवति नान्यथा। तथैवानामिकायां तु धृत्वा स्वर्णांगुलीं बुधः
तर्पयेत्पितृसंदोहं लक्षकोटिगुणं भवेत्। अंगुष्ठदेशिनी मध्ये सव्यहस्तस्य खड्गकम्
धृत्वानामिकया रत्नमंजलेरक्षयंफलं। स्नानार्थमभिगच्छंतं देवाः पितृगणैः सह
वायुभूतानुगच्छंति तृषार्ताः सलिलार्थिनः। निराशास्ते निवर्तंते वस्त्रनिष्पीडनेन च
तस्मान्न पीडयेद्वस्त्रमकृत्वा पितृतर्पणम्। तिस्रःकोट्योऽर्धकोटी च यानि लोमानि मानुषे
स्रवंति सर्वतीर्थानि तस्मान्न परिपीडयेत्। देवाः पिबंति शिरसि श्मश्रुतः पितरस्तथा
चक्षुषोरपि गंधर्वा अधस्तात्सर्वजंतवः। देवाः पितृगणाः सर्वे गंधर्वा जंतवस्तथा
स्नानमात्रेण तुष्यंति स्नानात्पापं न विद्यते। नित्यस्नानं च यः कुर्यात्स नरः पुरुषोत्तमः
सर्वपापैर्विनिर्मुक्तो नाकलोकेमहीयते। स्नानं तर्पणपर्यंतं देवा महर्षयो विदुः
अतः परं च देवानां पूजनं कारयेद्बुधः। गणेशं पूजयेद्यस्तु विघ्नस्तस्य न जायते