एका लिंगे गुदे तिस्रस्तथा वामकरे दश। उभयोः सप्त दातव्या मृदः शुद्धिमभीप्सता
अश्वक्रांते रथक्रांते विष्णुक्रांते वसुंधरे। मृत्तिके हर मे पापं यन्मया पूर्वसंचितम्
अनेनैव तु मंत्रेण मृत्तिकां यस्तनौ क्षिपेत्। सर्वपापक्षयस्तस्य शुचिर्भवति मानवः
ततस्तु वेदपूर्वेण स्नानं कुर्याद्विचक्षणः। नदे नद्यां तथा कूपे पुष्करिण्यां तटाकके
जलराशौ च वप्रे च घटस्नानं तथोत्तरम्। कारयेद्विधिवन्मर्त्यः सर्वपापक्षयाय च
प्रातःस्नानं महापुण्यं सर्वपापप्रणाशनम्। यः कुर्यात्सततं विप्रो विष्णुलोके महीयते
प्रातः संध्यासमीपे च यावद्दंडचतुष्टयम्। तावत्पानीयममृतं पितॄणामुपतिष्ठते
परतो घटिकायुग्मं यावद्यामैकमाह्निकम्। मधुतुल्यं जलं तस्मिन्पितॄणां प्रीतिवर्धनम्
ततस्तु सार्द्धयामैकं जलं क्षीरमयं स्मृतम्। क्षीरमिश्रं जलं तावद्यावद्दण्डचतुष्टयम्
अतः परं च पानीयं यावद्धि प्रहरत्रयम्। तत्परं लोहितं प्रोक्तं यावदस्तंगतो रविः
चतुर्थप्रहरे स्नाने रात्रौ वा तर्पयेत्पितॄन्। तत्तोयं रक्षसामेव ग्रहणेन विना स्मृतम्
पानीयं सर्वसिर्द्ध्य्थं पुरैव निर्मितं मया। रक्षार्थं तस्य तोयस्य यक्षाश्चैव धुरंधराः
न प्राप्नुवंति पितरो ये च लोकांतरं गताः। दुष्प्राप्यं सलिलं तेषामृते स्वान्मर्त्यवासिनः
तस्माच्छिष्यैश्च पुत्रैश्च पौत्रदौहित्रकादिभिः। बंधुवर्गैस्तथा चान्यैस्तर्पणीयं पितृव्रतैः
नारद उवाच-। जलस्य दैवतं ब्रूहि तर्पणस्य विधिं मयि। यथा जानामि देवेश तत्वतो वक्तुमर्हसि
ब्रह्मोवाच-। जलस्य देवता विष्णुःस र्वलोकेषु गीयते। जलपूतो भवेद्यस्तु विष्णुस्तच्छंकरो भवेत्
जलं गंडूषमात्रं तु पीत्वा पूतो भवेन्नरः। विशेषात्कुशसंसर्गात्पीयूषादधिकं जलम्
सर्वदेवालयो दर्भो मयायं निर्मितः पुरा। [https://vedastudy.yolasite.com/kusha1.php कुशमूले] भवेद्ब्रह्मा कुशमध्ये तु केशवः
कुशाग्रे शंकरं विद्धि कुश एते प्रतिष्ठिताः। कुशहस्तः सदा मेध्यः स्तोत्रं मंत्रं पठेद्यदि
सर्वं शतगुणं प्रोक्तं तीर्थे साहस्रमुच्यते। कुशाः काशास्तथा दूर्वा यवपत्राणि व्रीहयः
बल्वजाः पुंडरीकाश्च कुशास्सप्त प्रकीर्तिताः। आनुपूर्व्येण मेध्याः स्युः कुशा लोके प्रतिष्ठिताः
विना मंत्रेण यत्स्नानं सर्वं तन्निष्फलं भवेत्। अमृतात्स्वादुतामेति संस्पर्शाच्च तिलस्य च
तस्माच्च तर्पयेन्नित्यं पितॄंस्तिलजलैर्बुधः। दशभिश्च तिलैस्तावत्पितॄणां प्रीतिरुत्तमा
अग्निस्तंभभयाद्देवा न चेच्छन्त्यतिविस्तरम्। स्नात्वा यस्तर्पयेन्नित्यं तिलमिश्रोदकैः पितॄन्
नीलपंडविमोक्षेण त्वमावास्या तिलोदकैः। वर्षासु दीपदानेन पितॄणामनृणो भवेत्
वत्सरैकममायां तु तर्पयेद्यस्तिलैः पितृन्। विनायकत्वमाप्नोति सर्वदेवैः प्रपूज्यते
युगाद्यासु च सर्वासु यस्तिलैस्तर्पयेत्पितॄन्। उक्तं यद्वाप्यमायां तु तस्माच्छतगुणाधिकम्
अयने विषुवे चैव राकामायां तथैव च। तर्पयित्वा पितृव्यूहं स्वर्गलोके महीयते
तथा मन्वंतराख्यायामन्यस्यां पुण्यसंस्थितौ। ग्रहणे चंद्रसूर्यस्य पुण्यतीर्थे गयादिषु
तर्पयित्वा पितॄन्याति माधवस्य निकेतनम्। तस्मात्पुण्याहकं प्राप्य तर्पयेत्पितृसंचयम्