दशधेनूश्च यो दद्यादेकं चैव धुरंधरं। समानं तु फलं प्रोक्तं ब्रह्मणा समुदाहृतम्
एकं च दशभिर्दद्यात्सहस्राणां शतं फलम्। तस्यानुसारतो वेद्यं फलं नारद यत्नतः
पितॄनुद्दिश्य यः पुत्रो वृषं च मोक्षयेद्भुवि। पितरो विष्णुलोकेषु महीयंते यथेप्सितम्
चतस्रो वत्सतर्यश्च एकस्यैव वृषस्य च। मोक्ष्यंते सर्वतः पुत्र विधिरेष सनातनः
यावंति चैव रोमाणि तस्य तासां च सर्वशः। तावद्वर्षसहस्राणि स्वर्गं भुजंति मानवाः
लांगूलेन वृषो यच्च जलं चोत्क्षिपति ध्रुवं। तत्तोयं तु सहस्राब्दं पितॄणाममृतं भवेत्
खुरेण कर्षयेद्भूमिं ततो लोष्ठं च कर्दमः। पितृभ्यश्च स्वधा तत्र लक्षकोटिगुणं भवेत्
विद्यमाने च जनके यदि माता विनश्यति। चंदनेनांकिता धेनुस्तस्याः स्वर्गाय दीयते
दाता चैव पितॄणां च ऋणं चैव प्रमुंचति। अक्षयं लभते स्वर्गं पूजितो मघवा यथा
सर्वलक्षणसंयुक्ता तरुणा गौः पयस्विनी। समाप्रसूतिका भद्रा सा च गौः पृथिवी स्मृता
तस्य दानेन मंत्रस्य पृथ्वीदानसमं फलं। शतक्रतुसमो मर्त्यः कुलमुद्धरते शतं
गवां च हरणं कृत्वा मृते गोरथवत्सके। क्रिमिपूर्णे स कूपे च तिष्ठेदाभूतसंप्लवं
गवां चैव वधं कृत्वा पितृभिः सह पच्यते। रौरवे नरके घोरे तावत्कालं प्रतिक्रिया
गोप्रचारप्रभग्नश्च षंडवाहनबंधनः। अक्षयं नरकं प्रायान्पुनर्जन्मनि जन्मनि
सकृच्च श्रावयेद्यस्तु कथां पुण्यतमामिमां। सर्वपापक्षयस्तस्य देवैश्च सह मोदते
य इदं शृणुयाद्वापि परं पुण्यतमं महत्। सप्तजन्मकृतात्पापान्मुच्यते तत्क्षणेन हि
एकोनपञ्चाशोऽध्यायः । नारद उवाच- केनाचारेण विप्रस्य ब्रह्मतेजो विवर्धते। केनाचारेण तस्यैव ब्राह्मं तेजो विनश्यति
ब्रह्मोवाच-। शयनीयात्समुत्थाय रात्र्यंशे द्विजसत्तमः। देवांश्चैव स्मरेन्नित्यं तथा पुण्यवतो ध्रुवम्
गोविंदं माधवं कृष्णं हरिं दामोदरं तथा। नारायणं जगन्नाथं वासुदेवमजं विभुम्
सरस्वतीं महालक्ष्मीं सावित्रीं वेदमातरम्। ब्रह्माणं भास्करं चन्द्रं दिक्पालांश्च ग्रहांस्तथा
शङ्करं च शिवं शंभुमीश्वरं च महेश्वरम्। गणेशं च तथा स्कन्दं गौरीं भागीरथीं शिवाम्
पुण्यश्लोको नलो राजा पुण्यश्लोको जनार्दनः। पुण्यश्लोका च वैदेही पुण्यश्लोको युधिष्ठिरः
अश्वत्थामा बलिर्व्यासो हनूमांश्च विभीषणः। कृपः परशुरामश्च सप्तैते चीरजीविनः
एतान्यस्तु स्मरेन्नित्यं प्रातरुत्थाय मानवः। ब्रह्महत्यादिभिः पापैर्मुच्यते नात्र संशयः
सकृदुच्चरिते तात सर्वयज्ञफलं लभेत्। गवां शतसहस्राणां दानस्य फलमश्नुते
ततश्चापि शुचौ देशे मलमूत्रं परित्यजेत्। दक्षिणाभिमुखो रात्रौ दिवा कुर्यादुदङ्मुखः
परतो दंतकाष्ठं च तृणैरुदुंबरादिभिः। अतः परं च संध्यायां संयतश्च द्विजो भवेत्
पूर्वाह्णे रक्तवर्णां तु मध्याह्ने शुक्लवर्णिकाम्। सायं सरस्वतीं कृष्णां द्विजो ध्यायेद्यथाविधि
ततः समाचरेत्स्नानं यथाज्ञानेन यत्नतः। अंगं प्रक्षालयित्वा तु मृद्भिः संलेपयेत्ततः
शिरोदेशे ललाटे च नासिकायां हृदि भ्रुवोः। बाह्वोः पार्श्वे तथा नाभौ जान्वोरङ्घ्रिद्वये तथा