अभिषेकस्समस्तेषां गवां शृंगोदकस्य च। प्रातरुत्थाय यो मर्त्यः स्पृशेद्गां च घृतं मधु१५० 1.48.
सर्षपांश्च प्रियंगूंश्च कल्मषात्प्रतिमुच्यते। घृतक्षीरप्रदा गावो घृतयोन्यो घृतोद्भवाः
घृतनद्यो घृतावर्तास्ता मे संतु सदा गृहे। घृतं मे सर्वगात्रेषु घृतं मे मनसि स्थितम्
गावो ममाग्रतो नित्यं गावः पृष्ठत एव च। गावश्च सर्वगात्रेषु गवांमध्ये वसाम्यहम्
इत्याचम्य जपेन्मंत्रं सायंप्रातरिदं शुचिः। सर्वपापक्षयस्तस्य स्वर्लोके पूजितो भवेत्
यथा गौश्च तथा विप्रो यथाविप्रस्तथा हरिः। हरिर्यथा तथा गंगा एतेन ह्यवृषाः स्मृताः
गावो बंधुर्मनुष्याणां मनुष्या बांधवा गवाम्। गौश्च यस्मिन्गृहे नास्ति तद्बंधुरहितं गृहम्
गोमुखे चाश्रिता वेदाः सषडंगपदक्रमाः। शृंगयोश्च स्थितौ नित्यं सहैव हरिकेशवौ
उदरेऽवस्थितः स्कंदः शीर्षे ब्रह्मा स्थितः सदा। वृषद्ध्वजो ललाटे च शृंगाग्र इंद्र एव च
कर्णयोरश्विनौ देवौ चक्षुषोश्शशिभास्करौ। दंतेषु गरुडो देवो जिह्वायां च सरस्वती
अपाने सर्वतीर्थानि प्रस्रावे चैव जाह्नवी। ऋषयो रोमकूपेषु मुखतः पृष्ठतो यमः
धनदो वरुणश्चैव दक्षिणं पार्श्वमाश्रितौ। वामपार्श्वे स्थिता यक्षास्तेजस्वंतो महाबलाः
मुखमध्ये च गंधर्वा नासाग्रे पन्नगास्तथा। खुराणां पश्चिमे पार्श्वेऽप्सरसश्च समाश्रिताः
गोमये वसते लक्ष्मीर्गोमूत्रे सर्वमंगला। पादाग्रे खेचरा वेद्या हंभाशब्दे प्रजापतिः
चत्वारः सागराः पूर्णा धेनूनां च स्तनेषु वै। गां च स्पृशति यो नित्यं स्नातो भवति नित्यशः
अतो मर्त्यः प्रपुष्टैस्तु सर्वपापैः प्रमुच्यते। गवां रजः खुरोद्धूतं शिरसा यस्तु धारयेत्
स च तीर्थजले स्नातः सर्वपापैः प्रमुच्यते। नारद उवाच-। गवां च दशवर्णानां कस्य दाने च किंफलम्
ब्रूहि तत्त्वं गुरुश्रेष्ठ परमेष्ठिन्प्रियं यदि। ब्रह्मोवाच-। श्वेतां गां ब्राह्मणे दत्वा मानवश्चेश्वरो भवेत्
प्रासादे वसते नित्यं भोगी च सुखमेधते। धूम्रा तु स्वर्गकांतार संसारे पापमोक्षिणी
अक्षयं कपिलादानं कृष्णां दत्वा न सीदति। पांडुरा दुर्लभा लोके गौरी च कुलनंदिनी
रक्ताक्षी रूपकामस्य धनकामस्य नीलिका। एकां च कपिलां दत्वा सर्वपापैः प्रमुच्यते
यत्तु बाल्यकृतं पापं यौवने वार्धके कृतम्। वाचाकृतं कर्मकृतं मनसा यत्प्रचिंतितं
अगम्यागमनं चैव मित्रद्रोहे च पातकम्। मानकूटं तुलाकूटं कन्यानृतं गवानृतम्
सर्वं च नाशयेत्क्षिप्रं कपिलां यः प्रयच्छति। दशयोजनविस्तीर्णा महापारा महानदी
नारा च जलकांतारे प्रसृते चोदकार्णवे। यावद्वत्सस्य द्वौ पादौ मुखं यावन्न जायते
तावद्गौः पृथिवी ज्ञेया यावद्गर्भं न मुंचति। सुवर्णशृंगीं वस्त्राढ्यां सर्वालंकारभूषिताम्
ताम्रपृष्ठीं रौप्यखुरां तथा कांस्योपदोहनाम्। शोभितां गंधपुष्पैश्च सर्वालंकारभूषितां
ईदृशीं कपिलां दद्याद्द्विजातौ वेदपारगे। सर्वपापक्षयस्तस्य विष्णुलोकेऽच्युतो भवेत्
तस्यां तु दुह्यमानायां भूमौ पतंति बिंदवः। आरामादि विजायंते बहुपुष्पफलोत्तमाः
यत्र कामफला वृक्षा नद्यः पायसकर्दमाः। प्रासादाश्चापि सौवर्णास्तत्र गच्छंति गोप्रदाः