अमूषु पूजयेद्यस्तु सितैश्चित्रादिभिर्नरः। कज्जलैः कुसुमैस्तैलैः सोक्षयं स्वर्गमश्नुते
घासमुष्टिं परगवे यो ददाति सदाह्निकम्। सर्वपापक्षयस्यस्य स्वर्गं चाक्षयमश्नुते
यथा विप्रस्तथा गौश्च द्वयोः पूजाफलं समम्। विचारे ब्राह्मणो मुख्यो नृणां गावः पशौ तथा
नारद उवाच-। विप्रो ब्रह्ममुखे जातः कथितो मे त्वयानघ। कथं गोभिः समो नाथ विस्मयो मे विधे ध्रुवम्
ब्रह्मोवाच-। शृणु चात्र यथातथ्यं ब्राह्मणानां गवां यथा। एकपिंडक्रियैक्यं तु पुरुषैर्निर्मितं पुरा
पुरा ब्रह्ममुखोद्भूतं कूटं तेजोमयं महत्। चतुर्भागप्रजातं तद्वेदोग्निर्गौर्द्विजस्तथा
प्राक्तेजः संभवो वेदो वह्निरेव तथैव च। परतो गौस्तथा विप्रो जातश्चैव पृथक्पृथक्
तत्र सृष्टा मया चादौ वेदाश्चत्वार एकशः। स्थित्यर्थं सर्वलोकानां भुवनानां समंततः
अग्निर्हव्यानि भुंजीत देवहेतोस्तथा द्विजः। आज्यं गोप्रभवं विद्धि तस्मादेते प्रसूतकाः
न संति यदि लोकेषु चत्वारोमी महत्तराः। तदाखिलं च भुवनं नष्टं स्थावरजंगमम्
एभिर्धृताः सदा लोकाः प्रतिष्ठंति स्वभावतः। स्वभावो ब्रह्मरूपोसावेते ब्रह्ममयाः स्मृताः
तस्माद्गौः पूजनीयोसौ विप्र देवासुरैरपि। उदारः सर्वकार्येषु जातस्तथ्यो गुणाकरः
सर्वदेवमयः साक्षात्सर्वसत्वानुकंपकः। अस्य कार्यं मया सृष्टं पुरैव पोषणं प्रति
अतएव मया दत्तं वरं चातिसुशोभनम्। एकजन्मनि ते मोक्षस्तवास्त्विति विनिश्चितम्
अत्रैव ये मृता गावस्त्वागच्छंति ममालयम्। पापस्य कणमात्रं तु तेषां देहेन तिष्ठति
देवी गौर्धेनुका देवाश्चादिदेवी त्रिशक्तिका। प्रसादाद्यस्य यज्ञानां प्रभवो हि विनिश्चितः
गवां सर्वपवित्राणि पुनंति सकलं जगत्। मूत्रं गोर्गोमयं क्षीरं दधिसर्पिस्तथैव च
अमीषां भक्षणे पापं न तिष्ठति कलेवरे। तस्माद्घृतं दधि क्षीरं नित्यं खादंति धार्मिकाः
विशिष्टं सर्वद्रव्येषु गव्यमिष्टं परं शुभम्। यस्यास्ये भोजनं नास्ति तस्य मूर्तिस्तु पूतिका
अन्नाद्यं पंचरात्रेण सप्तरात्रेण वै पयः। दधि विंशतिरात्रेण घृतं स्यान्मासमेककम्
अगव्यैर्यस्तु भुंक्ते वै मासमेकं निरंतरम्। भोजने तस्य मर्त्यस्य प्रेताः खादंति चैव हि
परमान्नं परं शुद्धं स्विन्नं चातपतण्डुलैः। भुक्त्वा तु यत्कृतं पुण्यं कोटिकोटिगुणं भवेत्
अन्यच्चापि च यद्द्रव्यं हविष्यं शास्त्रनिर्मितम्। तद्भुक्तवा यत्कृतं कर्म सर्वं लक्षगुणं भवेत्
निरामिषं च यत्किंचित्तस्माद्यद्यत्फलं लभेत्। तस्माद्गौः सर्वकार्येषु शस्त एको युगेयुगे
सर्वदा सर्वकामेषु धर्मकामार्थमोक्षदः। नारद उवाच-। केषु किं वा प्रयोगेण परं पुण्यं प्रकीर्तितं
वद तत्सर्वलोकेश यथा जानामि तत्वतः। ब्रह्मोवाच। सकृत्प्रदक्षिणं कृत्वा गोधनं चाभिवंदयेत्
सर्वपापैर्विनिर्मुक्तः स्वर्गं चाक्षयमश्नुते। सुराचार्यो यथा वंद्यः पूज्योसौ माधवो यथा
सप्तप्रदक्षिणं कृत्वा चैश्वर्यात्पाकशासनः। कल्य उत्थाय गोमध्ये पात्रं गृह्य सहोदकम्
निषिंचेद्यो गवां शृंगं मस्तकेनैव तज्जलम्। प्रतीच्छेत निराहारस्तस्य पुण्यं निबोधत
श्रूयंते यानि तीर्थानि त्रिषु लोकेषु नारद। सिद्धचारणयुक्तानि सेवितानि महर्षिभिः