स निस्तरति दुर्गाणि स्वर्गमक्षयमश्नुते। वाणिज्यं कारयेद्विप्रो मिथ्याऽवश्यं परित्यजेत्१०० 1.48.
वृद्धिं च निक्षिपेत्तीर्थे स्वयं शेषं तु भोजयेत्। देहक्लेशात्तत्सहस्रगुणं भवति सर्वदा
अर्थार्जनविधौ मर्त्या विशंति विषमे जले। कांतारमटवीं चैव श्वापदैः सेवितां तथा
गिरिं गिरिगुहां दुर्गां म्लेच्छानां शस्त्रपातिनाम्। गृहं प्रतिभयं स्थानं धनलोभात्समंततः
सुतदारान्परित्यज्य दूरं गच्छंति लोभिनः। स्कंधे भारं वहंत्यन्ये तर्यां चक्रे निपातनैः
क्षेपणीभिर्महादुःखैस्सदा प्राणव्ययेन च। अर्थस्य संचयः पुत्र प्राणात्प्रियतरो महान्
एभिर्न्यायार्जितं वित्तं वणिग्भावेन यत्नतः। पितृदेवद्विजातिभ्यो दत्तं चाक्षयमश्नुते
एतौ दोषौ महांतौ च वाणिज्ये लाभकर्मणि। लोभानामपरित्यागो मृषा ग्राह्यश्च विक्रयः
एतौ दोषो परित्यज्य कुर्यादर्थार्जनं बुधः। अक्षयं लभते दानाद्वणिग्दोषैर्न लिप्यते
पुण्यकर्मरतो विप्रः कृषिं हि परिकारयेत्। वाहयेद्दिवसस्यार्धं बलीवर्दचतुष्टयम्
अभावात्त्रितयं चैव अविश्रामं न कारयेत्। चारयेच्च तृणेऽच्छिन्नै चोरव्याघ्रविवर्जिते
दद्याद्घासं यथेष्टं च नित्यमातर्पयेत्स्वयम्। गोष्ठं च कारयेत्तस्य किंचिद्विघ्नविवर्जितम्
सदा गोमयमूत्राभ्यां विघसैश्च विवर्जितम्। न मलं निक्षिपेद्गोष्ठे सर्वदेवनिकेतने
आत्मनः शयनीयस्य सदृशं कारयेद्बुधः। समं निर्वापयेद्यत्नाच्छीतवातरजस्तथा
प्राणस्य सदृशं पश्येद्गां च सामान्यविग्रहम्। अस्य देहे सुखंदुःखं तथा तस्यैव कल्पते
अनेन विधिना यस्तु कृषिकर्माणि कारयेत्। स च गोवाहनैर्दोषैर्न लिप्येत धनी भवेत्
दुर्बलं पीडयेद्यस्तु तथैव गदसंयुतम्। अतिबालातिवृद्धं च स गोहत्यां समालभेत्
विषमं वाहयेद्यस्तु दुर्बलं सबलं तथा। स गोहत्यासमं पापं प्राप्नोतीह न संशयः
यो वाहयेद्विना सस्यं खादंतं गां निवारयेत्। मोहात्तृणं जलं वापि स गोहत्यासमं लभेत्
संक्रांत्यां पौर्णमास्यां चामावास्यायां तथैव च। हलस्य वाहनात्पापं गवामयुतहत्यया
अमूषु पूजयेद्यस्तु सितैश्चित्रादिभिर्नरः। कज्जलैः कुसुमैस्तैलैः सोक्षयं स्वर्गमश्नुते
घासमुष्टिं परगवे यो ददाति सदाह्निकम्। सर्वपापक्षयस्यस्य स्वर्गं चाक्षयमश्नुते
यथा विप्रस्तथा गौश्च द्वयोः पूजाफलं समम्। विचारे ब्राह्मणो मुख्यो नृणां गावः पशौ तथा
नारद उवाच-। विप्रो ब्रह्ममुखे जातः कथितो मे त्वयानघ। कथं गोभिः समो नाथ विस्मयो मे विधे ध्रुवम्
ब्रह्मोवाच-। शृणु चात्र यथातथ्यं ब्राह्मणानां गवां यथा। एकपिंडक्रियैक्यं तु पुरुषैर्निर्मितं पुरा
पुरा ब्रह्ममुखोद्भूतं कूटं तेजोमयं महत्। चतुर्भागप्रजातं तद्वेदोग्निर्गौर्द्विजस्तथा
प्राक्तेजः संभवो वेदो वह्निरेव तथैव च। परतो गौस्तथा विप्रो जातश्चैव पृथक्पृथक्
तत्र सृष्टा मया चादौ वेदाश्चत्वार एकशः। स्थित्यर्थं सर्वलोकानां भुवनानां समंततः
अग्निर्हव्यानि भुंजीत देवहेतोस्तथा द्विजः। आज्यं गोप्रभवं विद्धि तस्मादेते प्रसूतकाः
न संति यदि लोकेषु चत्वारोमी महत्तराः। तदाखिलं च भुवनं नष्टं स्थावरजंगमम्