दर्शनं नर्मदायास्तु गंगास्नानं तथैव च । तुलसीवनसंसर्गः सममेतत्त्रयं स्मृतम्
रोपणात्पालनात्सेकाद्दर्शनात्स्पर्शनान्नृणाम् । तुलसी दहते पापं वाङ्मनःकाय संचितम्
तुलसीमंजरीभिर्यः कुर्याद्धरिहरार्चनम् । न स गर्भगृहं याति मुक्तिभागी न संशयः
पुष्करादीनि तीर्थानि गंगाद्याः सरितस्तथा । वासुदेवादयो देवास्तिष्ठंति तुलसीदले
तुलसीमंजरीयुक्तो यदि प्राणान्विमुंचति । विष्णोः सायुज्यमाप्नोति सत्यं सत्यं नृपोत्तम
तुलसीमृत्तिकालिप्तो यस्तु प्राणान्विमुचंति । यमोऽपि नेक्षितुं शक्तो युक्तं पापशतैरपि
तुलसीकाष्ठजं यस्तु चंदनं धारयेन्नरः । तद्देहं नस्पृशेत्पापं क्रियमाणमपीह यत्
तुलसीविपिनच्छाया यत्र यत्र भवेन्नृप । तत्र श्राद्धं प्रकर्त्तव्यं पितॄणां दत्तमक्षयम्
धात्रीछायासु यः कुर्यात्पिंडदानं नृपोत्तम । तृप्तिं च यांति पितरस्तस्य ये नरके स्थिताः
मूर्ध्नि पाणौ मुखे चैव देहे च नृपसत्तम । धत्ते धात्रीफलं यस्तु स विज्ञेयो हरिः स्वयम्
धात्रीफलं च तुलसीमृत्तिका द्वारकोद्भवा । यस्य देहे स्थिता नित्यं स जीवन्मुक्त उच्यते
धात्रीफलविमिश्रैस्तु तुलसीदलमिश्रितैः । जलैः स्नाति नरस्तस्य गंगास्नानफलं स्मृतम्
देवार्चनं नरः कुर्याद्धात्रीपत्रैः फलैरपि । सुवर्णपुष्पैर्विविधैरर्चनस्याप्नुयात्फलम्
तीर्थानि मुनयो देवा यज्ञाः सर्वेऽपि कार्तिके । नित्यं धात्रीं समाश्रित्य तिष्ठंत्यर्के तुलाश्रिते
द्वादश्यां तुलसीपत्रं धात्रीपत्रं तु कार्तिके । लुनाति स नरो गच्छेन्निरयानतिगर्हितान्
धात्रीछायां समाश्रित्य कार्तिकेऽन्नं भुनक्ति यः । अन्नसंसर्गजं पापमावर्षं तस्य नश्यति
धात्रीमूले तु यो विष्णुं कार्तिकेऽर्चयते नरः । विष्णुक्षेत्रेषु सर्वेषु पूजितस्तेन सर्वदा
धात्रीतुलस्योर्माहात्म्यमपिदेवश्चतुर्मुखः । न समर्थो भवेद्वक्तुं यथा देवस्यशार्ङ्गिणः
धात्री तुलस्युद्भवकारणं च शृणोति यः श्रावयते च भक्त्या । विधूतपाप्मा सह पूर्वजैश्च स्वर्गं व्रजत्यग्र्यविमानसंस्थः
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे धात्रीतुलस्योर्माहात्म्यंनाम पंचाधिकशततमोऽध्यायः
पृथुरुवाच। कृष्णवेण्यातटाद्यस्मात्शिवविष्णुगणैः पुरा । वणिक्शरीरात्कलहा निर्मिता कथिता त्वया
प्रभावोऽयं तयोर्नद्योः किंवा क्षेत्रस्य तस्य वा । तन्मे कथय धर्मज्ञ विस्मयोऽत्र महान्मम
नारद उवाच। कृष्णा कृष्णतनुः साक्षाद्वेण्या देवो महेश्वरः । तत्संगमप्रभावं तु नालं वक्तुं चतुर्मुखः
तथापि तत्समुत्पत्तिं कीर्तयिष्यामि तच्छृणु । चाक्षुषस्यांतरे पूर्वं मनोर्देवः पितामहः
सह्याद्रिशिखरे रम्ये यजनायोद्यतोऽभवत् । स कृत्वा यज्ञसंभारान्सर्वदेवगणैर्वृतः
युक्तो हरिहराभ्यां च तद्गिरेः शिखरं ययौ । भृग्वादयो मुनिगणा मुहूर्ते ब्रह्मदैवते
तस्य दीक्षाविधानाय समाजं तत्र चक्रिरे । अथ ज्येष्ठां स्वरां पत्नीं विष्णुराह्वयत द्विजैः
साशनैराययौ तावद्भृगुर्विष्णुमुवाच ह । भृगुरुवाच। विष्णो स्वरा त्वयाहूता आयाति न हि सत्वरा
मुहूर्त्तातिक्रमश्चायं कार्यो दीक्षाविधिः कथम् । विष्णुरुवाच। नायाति चेत्स्वरा शीघ्रं गायत्र्यत्र विधीयताम्
एषापि न भवत्यस्य भार्या किं पुण्यकर्मणि । नारद उवाच। एवमेव हि रुद्रोऽपि विष्णोर्वाक्यममोदत