खलो राजवधोद्योगी पितॄणां च वधे रतः। अनुयायी नृपो राज्ञश्चत्वारश्चाततायिनः
तत्क्षणान्न मृतं विप्रं पुनर्हंतुं न युज्यते। पुर्नहत्वा वधं घोरं ज्ञानात्प्राप्नोति निश्चितं
लोके विप्रसमो नास्ति पूजनीयो जगद्गुरुः। हत्वा तं यद्भवेत्पापं तत्परं च न विद्यते
देववत्पूजनीयोसौ देवासुरगणैर्नरैः। ब्राह्मणस्य समो नास्ति त्रिषु लोकेषु निश्चितं
नारद उवाच-। कां वृत्तिं समुपाश्रित्य जीवितव्यं द्विजेन हि। अपानेन सुरश्रेष्ठ तत्वतो वक्तुमर्हसि
ब्रह्मोवाच-। अयाचिता च या भिक्षा प्रशस्ता सा प्रकीर्तिता। उञ्छवृत्तिस्ततो भद्रा सुभद्रा सर्ववृत्तिषु
यामाश्रित्य मुनिश्रेष्ठा गच्छंति ब्रह्मणः पदम्। दक्षिणा यज्ञशेषाणां ग्राह्या यज्ञगतेन हि
पाठनं याजनं कृत्वा ग्रहीतव्यं धनं द्विजैः। पाठयित्वा पठित्वा च कृत्वा स्वस्त्ययनं शुभं
ब्राह्मणानामिदं जीव्यं शिष्टा वृत्तिः प्रतिग्रहः। शास्त्रोपजीविनो धन्या धन्या वृक्षोपजीविनः
धन्या वृक्षलताजीव्या वाटीसस्योपजीविनः। अन्न जंतु वधे पापं तस्य दोषोपशांतये
नवधान्यानि शस्तानि विप्रेभ्यः संप्रदापयेत्। न चेत्प्राणिवधे ह्यत्र क्षीयंते चायुषो ध्रुवं
तस्माद्दद्यात्सुबहूनि पितृदेवद्विजातिषु। अभावात्क्षत्त्रियावृत्तिर्ब्राह्मणैरूपजीव्यते
न्याययुद्धेषु योद्धव्यं चरेद्वीरव्रतं शुभम्। स तया च द्विजो वृत्या यद्धनं लभते नृपात्
पितृयज्ञादिदानेषु मेध्यं तद्धनमुच्यते। समभ्यसेद्धनुर्विद्यां वेदयुक्तां सदानघः
शक्तिकुंतगदाखड्ग परिघाणां समंततः। अश्वारोहं गजारोहमैंद्रजालममानकं
रथभूमिगतं युद्धं युक्तं सर्वत्र कारयेत्। द्विज देव ध्रुवाणां च स्त्रीणां वृत्तं तपस्विनाम्
साधु साध्वी गुरूणां च नृपाणां रक्षणाद्ध्रुवम्। यत्पुण्यं लभ्यते शूरैः कथं तद्ब्रह्मवादिभिः
सर्वपापक्षयं कृत्वा सोक्षयं स्वर्गमश्नुते। सम्मुखे न्याययुद्धे च पतंति ब्राह्मणा रणे
ते व्रजंति परं स्थानं न गम्यं ब्रह्मवादिनां। धर्मयुद्धस्य यद्वृत्तं शृणु पुण्यं यथार्थतः
संमुखेन प्रयुध्यंते न च गच्छंति कातरं। न भग्नं पृष्ठतो घ्नंति निःशस्त्रं प्रपलायितम्
अयुध्यमानं भीरुं च पतितं गतकल्मषं। असच्छूद्रं स्तुतिप्रीतमाहवे शरणागतम्
हत्वा च नरकं यांति दुर्वृत्ता जयकांक्षिणः। एषा च क्षत्त्रिया वृत्तिः सदाचारैस्तु गीयते
यामाश्रित्य दिवं यांति सर्वक्षत्रियकुंजराः। धर्मयुद्धे शुभो मृत्युः संमुखे क्षत्त्रियस्य च
अत्र पूतो भवेत्सोपि सर्वपापैः प्रमुच्यते। स तिष्ठेत्स्वर्गलोके च प्रासादे रत्नभूषिते
जांबूनदमयस्तंभे रत्नभूषितभूतले। इष्टद्रव्यैः सुसंपूर्णे दिव्यवस्त्रोपशोभिते
पुरतः कल्पवृक्षाश्च तिष्ठंति सर्वदायिनः। वापीकूपतटाकाद्यैरुद्यानैरुपशोभिते
यौवनाढ्याश्च सेवंते तं देवपुरकन्यकाः। तस्याग्रतो मुदा नित्यं नृत्यंत्यप्सरसां गणाः
गीतं गायंति गंधर्वा देवाश्च स्तुतिपाठकाः। एवं क्रमेण कल्पांते सार्वभौमो भवेन्नृपः
सर्वभोगैककर्ता च नीरुङ्मन्मथविग्रहः। तस्य पत्न्यः प्ररूपाढ्याः सदैव यौवनान्विताः
धर्मशीलाः सुताः शुभ्राः समृद्धाः पितृसंमताः। एवं क्रमेण भुंजंति सप्तजन्मसु क्षत्रियाः