एषां मध्ये महाकुष्ठास्त्रय एव प्रकीर्तिताः। कालकुष्ठस्तथा शुक्लस्तरुणश्चातिदारुणः
महापातकभावानां ज्ञानात्संसर्गतोपि वा। अतिपातकिनामेव त्रयो देहे भवंति वै
संसर्गात्सहसंबंधाद्रोगः संचरते नृणाम्। दूरात्परित्यजेद्धीरः स्पृष्ट्वा स्नानं समाचरेत्
पतितं कुष्ठसंयुक्तं चांडालं च गवाशिनम्। श्वानं रजस्वलां भिल्लं स्पृष्ट्वा स्नानं समाचरेत्
दुरितस्यानुरूपेण देहे कुष्ठा व्यवस्थिताः। इहलोके परत्रैवाप्यत्र नास्ति तु संशयः
न्यायेनोपार्जितां वृत्तिं ब्रह्मस्वं हरते तु यः। अक्षयं नरकं प्राप्य पुनर्जन्म न विद्यते
पिशुनो यस्तु विप्राणां रंध्रान्वेषणतत्परः। तं दृष्ट्वाप्यथवा स्पृष्ट्वा सचेलो जलमाविशेत्
ब्रह्मस्वं प्रणयाद्भुक्तं दहत्यासप्तमं कुलम्। विक्रमेण तु भुंजानो दशपूर्वान्दशापरान्
न विषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यते। विषमेकाकिनं हंति ब्रह्मस्वं पुत्रपौत्रकम्
मोहाच्च मातरं गत्वा ब्राह्मणीं च गुरोस्त्रियम्। पतित्वा रौरवे घोरे पुनरुत्पत्तिदुर्लभः
पतंति पितरस्तस्य कुंभीपाकेथ तापने। अवीचिकालसूत्रे च महारौरवरौरवे
कदाचिदपि वा तेषां निष्कृतिं नानुमेनिरे। प्राणं हत्वा द्विजातीनां स्वयं यात्यपुनर्भवम्
पतंति पुरुषास्तस्य रौरवे च सहस्रशः। नारद उवाच-। सर्वेषामेव विप्राणां वधे च पातकं समम्
विषमं वा कुतस्तिष्ठेत्तत्त्वतो वक्तुमर्हसि। ब्रह्मोवाच-। हत्वा विप्रं ध्रुवं पुत्र पातकं यदुदाहृतम्
लभते ब्रह्महा घोरं वक्तव्यं चापरं शृणु। लक्षकोटिसहस्राणां ब्राह्मणानां वधं भजेत्
वेदशास्त्रयुतं हत्वा श्रोत्रियं विजितेंद्रियम्। विप्रं च वैष्णवं हत्वा तस्माद्दशगुणोत्तरम्
स्ववंशान्पातयित्वा तु पुनर्जन्म न विंदते। त्रिवेदं स्नातकं हत्वा वधस्यांतं न विन्दते
श्रोत्रियं च सदाचारं तीर्थमंत्रप्रपूतकम्। ईदृशं ब्राह्मणं हन्तुः पापस्यांतो न विद्यते
अपकारं समुद्दिश्य द्विजः प्राणान्परित्यजेत्। दृश्यते येन चान्येन ब्रह्महा स भवेन्नरः
वचोभिः परुषैर्वृत्तैः पीडितस्ताडितो द्विजः। यमुद्दिश्य त्यजेत्प्राणांस्तमाहुर्ब्रह्मघातिनम्
ऋषयो मुनयो देवाः सर्वे ब्रह्मविदस्तथा। देशानां पार्थिवानां च स च वध्यो भवेदिह
अतो ब्रह्मवधं प्राप्य पितृभिः सह पच्यते। प्रायोपवेशकं विप्रं बुधः संमानयेद्ध्रुवम्५० 1.48.
दोषैश्चापि विनिर्मुक्तमुद्दिश्य प्राणमुत्सृजेत्। स प्रलिप्तो वधैर्घोरैर्न तु यं परिकीर्तयेत्
आत्मघातं द्रुमारोहं कोटरै रूपजीविनं। यः कुर्यादात्मनोघातं स्ववंशे ब्रह्महा भवेत्
भ्रूणं च घातयेद्यस्तु शिशुं वा आतुरं गुरुम्। ब्रह्महा स्वयमेव स्यान्न तु यं परिकीर्तयेत्
मारयेच्च सगोत्रं वा ब्राह्मणं ब्राह्मणाधमः। तस्यैव तद्भवेत्पापं न तु यं परिकीर्त्तयेत्
पीडयित्वा द्विजं शूद्रः स्वकार्यं चापि साधयेत्। तत्रापापे च शूद्रस्य पातकं नान्यथा भवेत्
तात्कालिक वधं हत्वा हंतारमाततायिनं। न च हंता च तत्पापैर्लिप्यते द्विजसत्तम
आततायिनमायांतमपि वेदांतगं रणे। जिघांसंतं जिघांसेच्च न तेन ब्रह्महा भवेत्
अग्निदो गरदश्चैव धनहारी च सुप्तघः। क्षेत्रदारापहारी च षडेते ह्याततायिनः