स खादयित्वा नागांश्च संभाष्य पितरावथ। विबुधान्पूजयित्वा तु जगाम हरिमव्ययम्
यः पठेच्छृणुयाद्वापि सुपर्णचरितं शुभम्। सर्वपापविनिर्मुक्तः सुरलोके महीयते
ब्रह्मोवाच-। अतः परं तु विप्रर्षे चांडालपतितो द्विजः। प्रलप्य च बहून्शोकान्जगाम कश्यपं मुनिम्
गत्वोवाच मुनिश्रेष्ठ वदास्माकं हितं वचः। यथा पापाद्विमुच्येहं मुनिश्रेष्ठ तथा कुरु
तमुवाच महातेजा ईषद्धास्यः समंततः। कश्यप उवाच-। संदर्शनाच्च म्लेच्छानामुपशांतोसि वै स्वयम्
गायत्र्याश्च जपैर्होमैर्व्रतैश्चांद्रायणदिभिः। स्मर नित्यं हरेः पादमुपोष्य हरिवासरम्
अहर्निशं हरेर्ध्यानं प्रणामं कुरु तं प्रभुम्। तीर्थस्नानेन मंत्रेण पंकस्यांतं गमिष्यसि
ततः पापक्षयादेव ब्राह्मणत्वं च लप्स्यसे। व्रतैर्वृषाधिकैर्मोक्षं नाशयन्कल्मषं द्विज
मुनेस्तस्य वचः श्रुत्वा कृतकृत्योऽभवत्तदा। पुण्यं स विविधं कृत्वापुनर्ब्रह्मत्वमाप्तवान्
ततस्तप्त्वा तपस्तीव्रंस्वर्लोकं चिरमभ्यगात्। सद्वृत्तस्याखिलं पापं क्षयं याति दिने दिने
असद्वृत्तस्य पुण्यं हि क्षयं यात्यंजनोपमम्। अनाचाराद्धतो विप्र आचारात्सुरतां व्रजेत्
ततः कंठगतैः प्राणैराचारं कुरुते द्विजः। कर्मणा मनसांगेन सदाचारं सदा कुरु
कश्यपस्योपदेशेन स विनीतोऽभवद्द्विजः। आचारं तु पुनः कृत्वा तपस्तप्तत्वा दिवं गतः
अनाचारी हतो विप्रः स्वर्गलोकेषु गर्हितः। आचारं तु पुनः कृत्वा सुरलोके महीयते
नारद उवाच-। प्राप्नुवंति गतिं लोकाः पूजयित्वा द्विजोत्तमान्। द्विजानां पीडनं कृत्वा गतिं गच्छति कां प्रभो
ब्रह्मोवाच-। क्षुधा संतप्तदेहानां ब्राह्मणानां महात्मनाम्। नार्चयेच्छक्तितो भक्त्या स याति नरकं नरः
परुषेण क्रोशयित्वा क्रोधाद्यस्तु विसर्जयेत्। स याति नरकं घोरं महारौरवकृच्छ्रकम्
सन्निवृत्तस्ततः कीटाद्यन्त्यजातिषु जायते। ततो रोगी दरिद्रस्तु क्षुधया परिपीडितः
नावमन्येत्ततो विप्रं क्षुधया गृहमागतम्। न ददामीति यो ब्रूयाद्देवाग्निब्राह्मणेषु सः
तिर्यग्योनिशतं गत्वा चांडाल्यमुपगच्छति। पादमुद्यम्य यो विप्रं हंति गां पितरौ गुरुम्
रौरवे नियतो वासस्तस्य नास्तीह निष्कृतिः। यदि पुण्याद्भवेज्जन्म स एव पंगुतां व्रजेत्
अतिदीनो विषादी च दुःखशोकाभिपीडितः। एवं जन्मत्रयं प्राप्य भवेत्तस्य च निष्कृतिः
मुष्टिचपेटकीलैश्च हन्याद्विप्रं तु यः पुमान्। तापने रौरवे घोरे कल्पांतं सोपि तिष्ठति
अथ जन्म समासाद्य कुक्कुरः क्रूरचंडकः। अंत्यजातिषु जातोपि दरिद्रः कुक्षिशूलवान्
पादमुद्यच्छते वा यस्तस्य पादे शिलीपदः। खंजो वा मंदजंघो वा खण्डपादो भवेन्नरः
पक्षवातेन चांगानि प्रकंपंते सदैव हि। मातरं पितरं विप्रं स्नातकं च तपस्विनम्
हत्वा गुरुगणं क्रोधात्कुंभीपाके चिरं भवेत्। उषित्वा चैव जायेत कीटजातिषु तत्परम्
विरुद्धं परुषं वाक्यं यो वदेद्धि द्विजातिषु। अष्टौ कुष्ठाः प्रजायंते तस्य देहे दृढं सुत
विचर्चिकाथ दद्रूश्च मंडलः शुक्ति सिध्मकौ। कालकुष्ठस्तथा शुक्लस्तरुणश्चातिदारुणः
ततो भिषक्प्रयोगे च पापात्पुण्यं पलायते। अपुण्याज्जलरेखेव तेनैव निधनं व्रजेत्