प्रोत्फुल्लहृदया सा च दृष्ट्वा पुत्रं सहामृतम्। तामाहूयामृतं दत्वा चादासीतां तदा गता
तृणकाष्ठानि भूतानि पशवश्च सरीसृपाः। दृष्ट्वा सविस्मयास्सर्वे देवा महर्षयस्तदा
मोचयित्वा तु तामंबां गरुडः सुष्ठुतां गतः। एतस्मिन्नंतरे शक्रो जहार सहसा सुधाम्
निधाय गरलं तत्र तया चानुपलक्षितः। प्रहृष्टहृदया कद्रूः पुत्रानाहूय संभ्रमात्
तेषां मुखे ददौ हृष्टा क्ष्वेडं चामृतलक्षणम्। तानुवाच प्रसूः पुत्रान्युष्माकं च कुले सदा
मुखे तिष्ठन्त्वमी दैवा बिंदवश्चस्तनिर्वृताः। महर्षयस्ततो देवाः सिद्धगंधर्वमानुषाः
ऊचुःस्सन्तु कुले मातरस्माकं च प्रसादतः। नागैर्विसर्जिता देवाः ससिद्धा मुनयस्तथा
जग्मुः स्वमालयं हृष्टा नागाः प्रमुदिताः स्थिताः। एतस्मिन्नंतरे नागांश्चखाद गरुडो बलात्
दिक्षु पलायिताः शेषाः पर्वतेषु वनेषु च। सागरेषु च पाताले बिलेषु तरुकोटरे
निभृतेषु निकुञ्जेषु स्थिताः सर्पाश्च निर्वृताः। भुजगास्तस्य भक्ष्याश्च सदैव विधिनिर्मिताः
स खादयित्वा नागांश्च संभाष्य पितरावथ। विबुधान्पूजयित्वा तु जगाम हरिमव्ययम्
यः पठेच्छृणुयाद्वापि सुपर्णचरितं शुभम्। सर्वपापविनिर्मुक्तः सुरलोके महीयते
ब्रह्मोवाच-। अतः परं तु विप्रर्षे चांडालपतितो द्विजः। प्रलप्य च बहून्शोकान्जगाम कश्यपं मुनिम्
गत्वोवाच मुनिश्रेष्ठ वदास्माकं हितं वचः। यथा पापाद्विमुच्येहं मुनिश्रेष्ठ तथा कुरु
तमुवाच महातेजा ईषद्धास्यः समंततः। कश्यप उवाच-। संदर्शनाच्च म्लेच्छानामुपशांतोसि वै स्वयम्
गायत्र्याश्च जपैर्होमैर्व्रतैश्चांद्रायणदिभिः। स्मर नित्यं हरेः पादमुपोष्य हरिवासरम्
अहर्निशं हरेर्ध्यानं प्रणामं कुरु तं प्रभुम्। तीर्थस्नानेन मंत्रेण पंकस्यांतं गमिष्यसि
ततः पापक्षयादेव ब्राह्मणत्वं च लप्स्यसे। व्रतैर्वृषाधिकैर्मोक्षं नाशयन्कल्मषं द्विज
मुनेस्तस्य वचः श्रुत्वा कृतकृत्योऽभवत्तदा। पुण्यं स विविधं कृत्वापुनर्ब्रह्मत्वमाप्तवान्
ततस्तप्त्वा तपस्तीव्रंस्वर्लोकं चिरमभ्यगात्। सद्वृत्तस्याखिलं पापं क्षयं याति दिने दिने
असद्वृत्तस्य पुण्यं हि क्षयं यात्यंजनोपमम्। अनाचाराद्धतो विप्र आचारात्सुरतां व्रजेत्
ततः कंठगतैः प्राणैराचारं कुरुते द्विजः। कर्मणा मनसांगेन सदाचारं सदा कुरु
कश्यपस्योपदेशेन स विनीतोऽभवद्द्विजः। आचारं तु पुनः कृत्वा तपस्तप्तत्वा दिवं गतः
अनाचारी हतो विप्रः स्वर्गलोकेषु गर्हितः। आचारं तु पुनः कृत्वा सुरलोके महीयते
नारद उवाच-। प्राप्नुवंति गतिं लोकाः पूजयित्वा द्विजोत्तमान्। द्विजानां पीडनं कृत्वा गतिं गच्छति कां प्रभो
ब्रह्मोवाच-। क्षुधा संतप्तदेहानां ब्राह्मणानां महात्मनाम्। नार्चयेच्छक्तितो भक्त्या स याति नरकं नरः
परुषेण क्रोशयित्वा क्रोधाद्यस्तु विसर्जयेत्। स याति नरकं घोरं महारौरवकृच्छ्रकम्
सन्निवृत्तस्ततः कीटाद्यन्त्यजातिषु जायते। ततो रोगी दरिद्रस्तु क्षुधया परिपीडितः
नावमन्येत्ततो विप्रं क्षुधया गृहमागतम्। न ददामीति यो ब्रूयाद्देवाग्निब्राह्मणेषु सः
तिर्यग्योनिशतं गत्वा चांडाल्यमुपगच्छति। पादमुद्यम्य यो विप्रं हंति गां पितरौ गुरुम्