नारद उवाच। क्षिप्तेभ्यस्तत्रबीजेभ्यो वनस्पत्यस्त्रयोभवन् । धात्री च मालती चैव तुलसी च नृपोत्तम
धात्र्युद्भवा स्मृता धात्री माभवा मालती स्मृता । गौरीभवा च तुलसी तमः सत्त्व रजोगुणाः
स्त्रीरूपिण्यौ वनस्पत्यौ दृष्ट्वा विष्णुस्तदा नृप । उत्तस्थौ संभ्रमाद्वृंदारूपातिशयमोहितः
ददर्श तास्तदा मोहात्कामासक्तेन चेतसा । तं चापि तुलसीधात्र्यौ रागेणैवावलोकताम्
यच्चलक्ष्म्यापुराबीजंमाययैवसमर्पितम् । तस्मात्तदुद्भवानारीतस्मिन्नीर्ष्यायुताभवत्
अतःसाबर्बरीत्याख्यामाधवस्यातिगर्हिता । धात्रीतुलस्यैतद्रा गात्तस्यप्रीतिप्रदेसदा
ततो विस्मृतदुःखोऽसौ विष्णुस्ताभ्यां सहैव तु । वैकुंठमगमद्धृष्टः सर्वदेवनमस्कृतः
कार्तिकोद्यापने विष्णोस्तस्मात्पूजा विधीयते । तुलसीमूलदेशे तु प्रीतिदा सा यतः स्मृता
तुलसीकाननं राजन्गृहे यस्यावतिष्ठते । तद्गृहं तीर्थरूपं तु नायांति यमकिंकराः
सर्वपापहरं पुण्यं कामदं तुलसीवनम् । रोपयंति नरश्रेष्ठा न तेपश्यंति भास्करिम्
दर्शनं नर्मदायास्तु गंगास्नानं तथैव च । तुलसीवनसंसर्गः सममेतत्त्रयं स्मृतम्
रोपणात्पालनात्सेकाद्दर्शनात्स्पर्शनान्नृणाम् । तुलसी दहते पापं वाङ्मनःकाय संचितम्
तुलसीमंजरीभिर्यः कुर्याद्धरिहरार्चनम् । न स गर्भगृहं याति मुक्तिभागी न संशयः
पुष्करादीनि तीर्थानि गंगाद्याः सरितस्तथा । वासुदेवादयो देवास्तिष्ठंति तुलसीदले
तुलसीमंजरीयुक्तो यदि प्राणान्विमुंचति । विष्णोः सायुज्यमाप्नोति सत्यं सत्यं नृपोत्तम
तुलसीमृत्तिकालिप्तो यस्तु प्राणान्विमुचंति । यमोऽपि नेक्षितुं शक्तो युक्तं पापशतैरपि
तुलसीकाष्ठजं यस्तु चंदनं धारयेन्नरः । तद्देहं नस्पृशेत्पापं क्रियमाणमपीह यत्
तुलसीविपिनच्छाया यत्र यत्र भवेन्नृप । तत्र श्राद्धं प्रकर्त्तव्यं पितॄणां दत्तमक्षयम्
धात्रीछायासु यः कुर्यात्पिंडदानं नृपोत्तम । तृप्तिं च यांति पितरस्तस्य ये नरके स्थिताः
मूर्ध्नि पाणौ मुखे चैव देहे च नृपसत्तम । धत्ते धात्रीफलं यस्तु स विज्ञेयो हरिः स्वयम्
धात्रीफलं च तुलसीमृत्तिका द्वारकोद्भवा । यस्य देहे स्थिता नित्यं स जीवन्मुक्त उच्यते
धात्रीफलविमिश्रैस्तु तुलसीदलमिश्रितैः । जलैः स्नाति नरस्तस्य गंगास्नानफलं स्मृतम्
देवार्चनं नरः कुर्याद्धात्रीपत्रैः फलैरपि । सुवर्णपुष्पैर्विविधैरर्चनस्याप्नुयात्फलम्
तीर्थानि मुनयो देवा यज्ञाः सर्वेऽपि कार्तिके । नित्यं धात्रीं समाश्रित्य तिष्ठंत्यर्के तुलाश्रिते
द्वादश्यां तुलसीपत्रं धात्रीपत्रं तु कार्तिके । लुनाति स नरो गच्छेन्निरयानतिगर्हितान्
धात्रीछायां समाश्रित्य कार्तिकेऽन्नं भुनक्ति यः । अन्नसंसर्गजं पापमावर्षं तस्य नश्यति
धात्रीमूले तु यो विष्णुं कार्तिकेऽर्चयते नरः । विष्णुक्षेत्रेषु सर्वेषु पूजितस्तेन सर्वदा
धात्रीतुलस्योर्माहात्म्यमपिदेवश्चतुर्मुखः । न समर्थो भवेद्वक्तुं यथा देवस्यशार्ङ्गिणः
धात्री तुलस्युद्भवकारणं च शृणोति यः श्रावयते च भक्त्या । विधूतपाप्मा सह पूर्वजैश्च स्वर्गं व्रजत्यग्र्यविमानसंस्थः
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे धात्रीतुलस्योर्माहात्म्यंनाम पंचाधिकशततमोऽध्यायः