मिथ्या ते वचनं मातः प्रतिज्ञां साऽकरोत्तदा। ततोहमब्रुवं कद्रूं शपथं नागमातरम्
यदीमं कृष्णताभ्येति हरेरश्वमहं तदा। कृता भवामि ते दासीत्यहमेतत्तदाऽवदम्
ततस्तस्मिन्हरेरश्वे कृते कृष्णे च कृत्रिमैः। तस्याः पुत्रैश्च धूर्तैश्च दासीत्वमगमं तदा
यस्मिन्काले ह्यभीष्टञ्च तस्या द्रव्यं ददाम्यहम्। तस्मिन्काले ह्यदासीत्वं यास्यामि कुलनंदन
गरुड उवाच। पृच्छ शीघ्रं च मातस्तां करिष्यामि प्रतिक्रियाम्। भक्षयिष्यामि तान्नागान्प्रतिज्ञामे यथार्थतः
ततः कद्रूमुवाचेदं विनता दुःखिता सती। अभीष्टं वद कल्याणि येन मुच्येय कृच्छ्रतः
अब्रवीत्सा दुराचारा पीयूषं दीयतामिति। एतच्छ्रुत्वा तु वचनमभवत्सा च निष्प्रभा
ततः शनैरुपागम्य तनयं प्राह दुःखिता। अमृतं प्रार्थयत्पापा तात किं वा करिष्यसि
श्रुत्वा वाक्यं गरुत्मांश्च महाक्रोधसमन्वितः। अमृतं चानयिष्यामि मातर्मा विमुखी भव
एवमुक्त्वा तु तरसा स गतः पितुरंतिकम्। अमृतं चानयिष्यामि मातुरर्थेऽधुनाऽनघ
स तस्य वचनं श्रुत्वा मुनिः प्राह खगेश्वरम्। सत्यलोकस्य वै चोर्ध्वे विश्वकर्मविनिर्मिता
पुरी चास्ति सभा रम्या देवानां हित हेतवे। वह्निप्राकारदुर्लभ्या दुर्धर्षा चासुरैः सुरैः
रक्षार्थं निर्मितो देवः सुरैस्तत्र महाबलः। यं यं पश्यति वीरः स स एव भस्मतां व्रजेत्
एममुक्त्वा गरुत्मान्स उद्धृत्य सागराज्जलम्। जगामाकाशमाविश्य खगश्चोर्ध्वं मनोजवः
पक्षवातेन तस्यैव रजः समुद्गतं बहु। तस्यांतिकं न च त्यक्तमगमत्तस्य तच्च यः
गत्वा चंचूजलेनापि वह्निं निर्वापयद्बली। रजोभिः परिपूर्णाक्षो न सुरस्तं च पश्यति
जघान रक्षिवर्गांस्तानमृतं चाहरद्बली। आनयंतं च पीयूषं खगं गत्वा शतक्रतुः
ऐरावतं समारूढो वाक्यमेतदुवाच ह। खगरूपधरः कस्त्वं पीयूषं हरसे बलात्
अप्रियं सर्वदेवानां कृत्वा जीवे रतिः कथम्। विशिखैरग्निसंकाशैर्नयामि यममंदिरम्1.47.
श्रुत्वा वाक्यं हरेः कोपादुवाच स महाबलः। नयामि तव पीयूषं दर्शयस्व पराक्रमम्
एतच्छ्रुत्वा महाबाहुर्जघान विशिखैः शितैः। यथामेरुगिरेः शृंगं तोयवर्षेण तोयदः
नखैरशनिसंकाशैर्बिभेद गरुडो गजम्। मातलि च रथं चक्रं तथा देवान्पुरस्सरान्
व्यथितोसौ महाबाहुर्मातलिर्गजपुंगवः। विमुखाः पक्षवातेन सर्वे देवगणास्तदा
ततस्तु कोपितो जिष्णुर्जघानकुलिशेन तम्। कुलिशस्यावपातेन न च क्षुब्धो महाखगः
स्वं मोघं भिदुरं दृष्ट्वा हरिर्भीतोऽभवत्तदा। संनिवृत्य ततो युद्धात्तत्रैवांतरधीयत
सुतरामपिगच्छंतं वेगाद्भूतलमागतः। अब्रवीत्स सुरश्रेष्ठः सर्वदेवगणाग्रतः
शक्र उवाच-। यदि दास्यसि पीयूषमिदानीं नागमातरि। भुजगाश्चामराः सर्वे क्रियंते हि ध्रुवं तया
प्रतिज्ञा ते भवेन्नष्टा न फलं जीवितस्य ते। तस्मादिदं हरिष्यामि संमतेन तवानघ
गरुत्मानुवाच-। यस्मिन्काले ह्यदासी सा माता मे दुःखिता सती। विदिता सर्वलोकेषु हरेऽमृतं हरिष्यसि
एवमुक्त्वा महावीर्यो गत्वोवाच प्रसूं तदा। आनीतममृतं मातस्तस्या एव प्रदीयताम्