तमुवाच महाप्राज्ञश्चराचरगुरुं हरिम्। कस्त्वं किं वा प्रियं तेद्य करिष्यामि च सांप्रतम्
नारायण उवाच-। विद्धि नारायणं मां हि त्वत्प्रियार्थं समागतम्। रूपं स्वं दर्शयामास प्रत्ययार्थं च तस्य वै
पीतवस्त्रं घनश्यामं चतुर्भुजमनोहरम्। शंखचक्रगदापद्मधरं सर्वसुरेश्वरम्
तं च दृष्ट्वा गरुत्मांश्च प्रणम्य शिरसा हरिम्। प्रियं किं ते करिष्यामि वद नः पुरुषोत्तम
तमब्रवीन्महातेजा देवदेवेश्वरो हरिः। भव मे वाहनं शूर सखे त्वं सार्वकालिकम्
तमुवाच खगश्रेष्ठो धन्योहं विबुधेश्वर। सफलं जन्म मे नाथ त्वां च दृष्ट्वाद्य मे प्रभो
प्रार्थयित्वा च पितरावागमिष्यामि तेऽन्तिकम्। प्रीतो विष्णुरुवाचेदं भव त्वमजरामरः
अवध्यः सर्वभूतेभ्यः कर्म तेजश्च मत्समम्। सर्वत्र ते गतिश्चास्तु निखिलं तु सुखं ध्रुवम्
संमिलतु द्रुतं सर्वं यत्ते मनसि वर्तते। यथेष्टं प्रीतिमाहारमकष्टेन प्रलप्स्यसे
व्यसनान्मातरं सद्यो मोचयिष्यसि नान्यथा। एवमुक्त्वा हरिः सद्यस्तत्रैवांतरधीयत
तार्क्ष्योपि पितरं गत्वा कथयच्चाखिलं ततः। स तच्छ्रुत्वा प्रहृष्टात्मा तनयं पुनरब्रवीत्
धन्योहं च खगश्रेष्ठ धन्या ते जननी शिवा। धन्यं क्षेत्रं कुलं चैव यस्य पुत्रस्त्वमीदृशः
यस्य पुत्रः कुले जातो वैष्णवः पुरुषोत्तमः। कुलकोटिं समुद्धृत्य विष्णुसायुज्यतां व्रजेत्
विष्णुं यः पूजयेन्नित्यं विष्णुं ध्यायेत गायति। जपेन्मंत्रं सदा विष्णोः स्तोत्रं तस्य पठिष्यति
प्रसादं च भजेन्नित्यमुपवासं हरेर्दिने। क्षयाच्च सर्वपापानां मुच्यते नात्र संशयः
यस्य तिष्ठति गोविंदो मानसे च सदैव हि। स एव च लभेद्दास्यं सपुण्यैः पुरुषोत्तमः
जन्मकोटिसहस्रेभ्यः कृत्वा सत्कर्मसंचयम्। क्षयाच्च सर्वपापानां विष्णोः किंकरतां व्रजेत्
धन्योसौ मानवो लोके विष्णोस्सादृश्यमाव्रजेत्। नित्यः सुरवरैः पूज्यो लोकनाथोऽच्युतोऽव्ययः
सुप्रसन्नो भवेद्यस्य स एव पुरुषोत्तमः। तपोभिर्बहुभिर्धर्मैर्मखैर्नानाविधैरपि
विष्णुर्न लभ्यते देवैस्त्वयासौ विप्र लभ्यते। सपत्नीव्यसनाद्धोरान्मातरं ते प्रमोचय
ततो यास्यसि देवेशं कृत्वा मातुः प्रतिक्रियाम्। गृहीत्वा जनकस्याज्ञां लब्ध्वा विष्णोर्वरं महत्
अंबापार्श्वं गतो हृष्टस्तां प्रणम्याग्रतः स्थितः। विनतोवाच-। अभवद्भोजनं तेऽद्य पुत्र दृष्टः पितापि च
किमर्थं वा विलंबस्ते चिंतया व्यथिता ह्यहम्। स मातुर्वचनं श्रुत्वा गरुडः प्रहसन्निव
कथयामास वृत्तांतं सा श्रुत्वा विस्मिताऽभवत्। कथं च दुःष्करं कर्म शिशुभावात्त्वया कृतम्
धन्याहं मे कुलं धन्यं यस्त्वं विष्णुसखोऽभवः। लब्ध्वा वरं महात्मानं दृष्ट्वा मे हृष्यते मनः
पौरुषेण त्वया वत्स उद्धृतं मे कुलद्वयम्। सुपर्ण उवाच-। मातः किं ते करिष्यामि प्रियमेव तदुच्यताम्
कार्यं कृत्वाथ यास्यामि पार्श्वं नारायणस्य च। एतच्छ्रुत्वा तु सा प्राह गरुडं विनता सती
महद्दुःखं च मे चास्ति कुरु तात प्रतिक्रियाम्। भगिनी मे सपत्नी सा पणितहं तया पुरा
तस्या दास्यमहं प्राप्ता कस्तारयति मामितः। कृष्णं कृत्वा विषैरश्वं तस्याः पुत्रैर्महोरगैः
उषःकालेऽवदत्सा च अश्वोयं कृष्णतां व्रजेत्। ततोहमवदं तत्र सदा चायं रुचासितः