आधारतां न गच्छंति नगाश्च मंदरादयः। ततो योजनलक्षे द्वे गत्वा मारुतरंहसा
महत्यां जंबुशाखायां निपपात महाबलः। भग्ना सा सहसा शाखा तां पतंतीं खगेश्वरः
गोब्राह्मणवधाद्भीतो दधार तरसा बली। धृत्वा तां रुचिरं वेगाद्द्रवंतं खे महाबलम्
गत्वा विष्णुरुवाचेदं नररूपधरो हरिः। कस्त्वं भ्रमसि चाकाशे किमर्थं पतगेश्वर
विधृत्य महतीं शाखां महांतौ गजकच्छपौ। तमुवाच द्विजस्तस्मिन्नररूपधरं हरिम्
गरुडोहं महाबाहो खगरूपः स्वकर्मणा। कश्यपस्य मुनेस्सूनुर्विनतागर्भसंभवः
पश्यैतौ च महासत्वौ भक्षणार्थं मया धृतौ। न धरा च ममाधारो न वृक्षा न च पर्वताः
अनेकयोजनान्यूर्ध्वं दृष्ट्वा जंबूमहीरुहम्। अपतंतस्य शाखायां सहेमौ परिभक्षितुं
भग्ना सा सहसा शाखा तां च धृत्वा भ्रमाम्यहम्। कोटिकोटिसहस्राणां ब्राह्मणानां गवां वधात्
भयं तत्र विषादो मे सहसा प्राविशद्बुध। किं करोमि कथं यामि को मे वेगं सहिष्यति
इत्युक्ते पतगश्रेष्ठं प्रोवाचेदं हरिस्तदा। अस्मद्बाहुं समारुह्य भक्षेमौ गजकच्छपौ
गरुड उवाच-। ममाधारं न गच्छंति सागराश्च नगोत्तमाः। अथ चैवं महासत्वं कथं त्वं धारयिष्यसि
ऋते नारायणादन्यः को मां धारयितुं क्षमः। त्रैलोक्ये कः पुमांस्तिष्ठेद्यो वेगं मे सहिष्यति
हरिरुवाच-। स्वकार्यमुद्धरेत्प्राज्ञः स्वकार्यं कुरु सांप्रतम्। कृत्वा कार्यं खगश्रेष्ठ विजानीषे च मां ध्रुवम्
महासत्वं च तं दृष्ट्वा विमृश्य मनसा खगः। एवमस्त्विति चोक्त्वा स पपात ह महाभुजे
न चचाल भुजस्तस्य सन्निपाते खगेशितुः। तत्र स्थित्वा स तां शाखां मुमोच पर्वतालये
शाखापतनमात्रेण सचराचरकानना। चचाल वसुधा चैव सागराः प्रचकंपिरे
ततश्च खादितौ सत्त्वौ सहसा गजकच्छपौ। तृप्तिं न प्राप्तवान्सोपि क्षुधा तस्य न शाम्यति
एतज्ज्ञात्वा तु गोविंदस्तमुवाच खगेश्वरम्। भुजस्य मम मांसं तु भक्षयित्वा सुखी भव
इत्युक्ते प्रचुरं मांसं भुजस्य तस्य तेन हि। खादितं क्षुधया पुत्र व्रणं तस्य न विद्यते1.47.
तमुवाच महाप्राज्ञश्चराचरगुरुं हरिम्। कस्त्वं किं वा प्रियं तेद्य करिष्यामि च सांप्रतम्
नारायण उवाच-। विद्धि नारायणं मां हि त्वत्प्रियार्थं समागतम्। रूपं स्वं दर्शयामास प्रत्ययार्थं च तस्य वै
पीतवस्त्रं घनश्यामं चतुर्भुजमनोहरम्। शंखचक्रगदापद्मधरं सर्वसुरेश्वरम्
तं च दृष्ट्वा गरुत्मांश्च प्रणम्य शिरसा हरिम्। प्रियं किं ते करिष्यामि वद नः पुरुषोत्तम
तमब्रवीन्महातेजा देवदेवेश्वरो हरिः। भव मे वाहनं शूर सखे त्वं सार्वकालिकम्
तमुवाच खगश्रेष्ठो धन्योहं विबुधेश्वर। सफलं जन्म मे नाथ त्वां च दृष्ट्वाद्य मे प्रभो
प्रार्थयित्वा च पितरावागमिष्यामि तेऽन्तिकम्। प्रीतो विष्णुरुवाचेदं भव त्वमजरामरः
अवध्यः सर्वभूतेभ्यः कर्म तेजश्च मत्समम्। सर्वत्र ते गतिश्चास्तु निखिलं तु सुखं ध्रुवम्
संमिलतु द्रुतं सर्वं यत्ते मनसि वर्तते। यथेष्टं प्रीतिमाहारमकष्टेन प्रलप्स्यसे
व्यसनान्मातरं सद्यो मोचयिष्यसि नान्यथा। एवमुक्त्वा हरिः सद्यस्तत्रैवांतरधीयत