नैर्ऋते कुवदाः पापा गोब्राह्मणवधोद्यताः। खर्पराः पश्चिमे पूर्वे निवसंति च दारुणाः
वायव्यां च तुरुष्काश्च श्मश्रुपूर्णा गवाशिनः। अश्वपृष्ठसमारूढाः प्रयुद्धेष्वनिवर्तिनः
उत्तरस्यां च गिरयो म्लेच्छाः पर्वतवासिनः। सर्वभक्षा दुराचाराः वधबंधरताः किल
ऐशान्यां निरयास्संति कर्तॄणां वृक्षवासिनः। एते म्लेच्छा स्थिता दिक्षु घोरास्ते शस्त्रपाणयः
येषां च स्पर्शमात्रेण सचेलो जलमाविशेत्। एतेषां च कलौ देशेप्यकाले धर्मवर्जिते
संस्पर्शं च प्रकुर्वंति वित्तलोभात्समंततः। म्लेच्छांस्तान्मोचयित्वा तु क्षुधया परिपीडितः
पुनराह द्विजस्तात क्षुधा मे बाधतेतराम्। अवदद्गरुडं तत्र कश्यपः कृपया द्रुतम्
तिष्ठंतौ विपुलौ तत्र जिघांसू गजकच्छपौ। अप्रमेयौ महासत्वौ सागरस्यैकदेशतः
तावप्सु च द्रुतं वत्स क्षुधां ते वारयिष्यतः। स पितुर्वचनं श्रुत्वा तत्र गत्वाभिपद्य तौ
नखैर्भित्वा कूर्मगजौ महासत्वौ महाजवः। खमुत्पपात तौ धृत्वा विद्युद्वेगो महाबलः
आधारतां न गच्छंति नगाश्च मंदरादयः। ततो योजनलक्षे द्वे गत्वा मारुतरंहसा
महत्यां जंबुशाखायां निपपात महाबलः। भग्ना सा सहसा शाखा तां पतंतीं खगेश्वरः
गोब्राह्मणवधाद्भीतो दधार तरसा बली। धृत्वा तां रुचिरं वेगाद्द्रवंतं खे महाबलम्
गत्वा विष्णुरुवाचेदं नररूपधरो हरिः। कस्त्वं भ्रमसि चाकाशे किमर्थं पतगेश्वर
विधृत्य महतीं शाखां महांतौ गजकच्छपौ। तमुवाच द्विजस्तस्मिन्नररूपधरं हरिम्
गरुडोहं महाबाहो खगरूपः स्वकर्मणा। कश्यपस्य मुनेस्सूनुर्विनतागर्भसंभवः
पश्यैतौ च महासत्वौ भक्षणार्थं मया धृतौ। न धरा च ममाधारो न वृक्षा न च पर्वताः
अनेकयोजनान्यूर्ध्वं दृष्ट्वा जंबूमहीरुहम्। अपतंतस्य शाखायां सहेमौ परिभक्षितुं
भग्ना सा सहसा शाखा तां च धृत्वा भ्रमाम्यहम्। कोटिकोटिसहस्राणां ब्राह्मणानां गवां वधात्
भयं तत्र विषादो मे सहसा प्राविशद्बुध। किं करोमि कथं यामि को मे वेगं सहिष्यति
इत्युक्ते पतगश्रेष्ठं प्रोवाचेदं हरिस्तदा। अस्मद्बाहुं समारुह्य भक्षेमौ गजकच्छपौ
गरुड उवाच-। ममाधारं न गच्छंति सागराश्च नगोत्तमाः। अथ चैवं महासत्वं कथं त्वं धारयिष्यसि
ऋते नारायणादन्यः को मां धारयितुं क्षमः। त्रैलोक्ये कः पुमांस्तिष्ठेद्यो वेगं मे सहिष्यति
हरिरुवाच-। स्वकार्यमुद्धरेत्प्राज्ञः स्वकार्यं कुरु सांप्रतम्। कृत्वा कार्यं खगश्रेष्ठ विजानीषे च मां ध्रुवम्
महासत्वं च तं दृष्ट्वा विमृश्य मनसा खगः। एवमस्त्विति चोक्त्वा स पपात ह महाभुजे
न चचाल भुजस्तस्य सन्निपाते खगेशितुः। तत्र स्थित्वा स तां शाखां मुमोच पर्वतालये
शाखापतनमात्रेण सचराचरकानना। चचाल वसुधा चैव सागराः प्रचकंपिरे
ततश्च खादितौ सत्त्वौ सहसा गजकच्छपौ। तृप्तिं न प्राप्तवान्सोपि क्षुधा तस्य न शाम्यति
एतज्ज्ञात्वा तु गोविंदस्तमुवाच खगेश्वरम्। भुजस्य मम मांसं तु भक्षयित्वा सुखी भव
इत्युक्ते प्रचुरं मांसं भुजस्य तस्य तेन हि। खादितं क्षुधया पुत्र व्रणं तस्य न विद्यते1.47.